ब्रह्मदृष्टिरुत्कर्षात्
तृतीयसूत्रव्याख्यानम्
ब्रह्मदृष्टिरुत्कर्षात्
सुधा
तेष्वेवोदाहरणेष्वन्यः संशयः । किमादित्यादिदृष्टयो ब्रह्मणि कार्याः किंवा ब्रह्मदृष्टिरादित्यादिष्विति । सामानाधिकरण्यस्योभयथोपपत्तेः । तत्रानियमो नियमकारिणः शास्त्रस्याभावात् । अथवाऽऽदित्यादिदृष्टय एव ब्रह्मणि कर्तव्याः । एवं हि ब्रह्मोपासितं भवति । ब्रह्मोपासनं च फलवदिति प्राप्ते ब्रूमः । ब्रह्मदृष्टिरेवादित्यादिषु स्यात् । कस्मात् । उत्कर्षात् । एवमुत्कर्षेणादित्यादयो दृष्टा भवन्ति । तथा च लौकिको न्यायोऽनुगतो भवति । क्षत्तरि खलु राजदृष्टिः क्रियते न तु राज्ञि क्षत्तृदृष्टिर्विपर्यये प्रत्यवायप्रसङ्गात् । यत्तु फलवत्त्वाय ब्रह्मोपासनं युक्तमिति तदयुक्तम् । आदित्याद्युपासनस्यापि फलवत्त्वोपपत्तेः । ब्रह्मैव च सर्वाध्यक्षत्वात्फलं दास्यति । इदमेव च ब्रह्मोपासनं यदादित्यादिषु तद्दृष्टिः प्रतिमादिष्विव विष्ण्वादीनामिति तृतीयसूत्रा(स्या)र्थ इति ।
वाक्यार्थचन्द्रिका
तेष्वेवेति । मनो ब्रह्मेत्युपासीतेत्यादिष्वेवेत्यर्थः । किमस्य संशयस्य बीजमित्यतः सामानाधिकरण्यमेवेत्यभिप्रेत्य तस्य कोटिद्वयोपस्थापकतामुपपादयति समानाधिकरण्यस्येति । आदित्यो ब्रह्म प्राणो ब्रह्मेति ब्रह्मशब्दस्यादित्यादिशब्दैः समानविभक्तिकत्वरूपसामानाधिकरण्यस्येत्यर्थः । नन्वेवं पूर्वपक्षस्य सन्देहादविप्रसङ्ग इत्यरुचेराह अथवेति ॥ एवं हीति । ब्रह्मविशेष्यकोपासनस्यैव ब्रह्मेपासनत्वादिति भावः ॥ लौकिक इति । निकृष्टदृष्टिर्नोत्कृष्टे किं तूत्कृष्टदृष्टिरेव निकृष्ट इति लौकिको न्याय इत्यर्थः । तमेवोपदर्शयति क्षत्तरीति । ननु ब्रह्मणः स्वातन्त्र्यात्फलदत्वसम्भवेन तदुपासनस्य फलवत्त्वसम्भवेऽप्यस्वतन्त्रतया आदित्यादीनां फलदत्वासम्भवात् कथं तदुपासनस्य फलवत्त्वमित्यत आह ब्रह्मैव चेति । ननु सर्वाध्यक्षत्वेऽपि ब्रह्मणोऽनुपासितस्य कथं फलदत्वमित्यत आह इदमेव चेति । ब्रह्मत्वप्रकारकत्वमेव तदुपासनतायां प्रयोजकं न तु तद्विशेष्यकत्वम् । तच्चादित्याद्युपासनस्याप्यस्त्येवेति न फलवत्त्वानुपपत्तिरिति भावः । ब्रह्मत्वप्रकारकत्वमेव तदुपासनत्वे प्रयोजकम् । अन्यथा प्रतिमादिषु विष्ण्वादिदृष्टेर्ब्रह्मविशेष्यकत्वाभावेन ब्रह्मोपासनत्वाभावप्रसक्त्या फलवत्त्वाभावप्रसङ्गादित्याशयेन तत्र दृष्टान्तमाह प्रतिमादिष्विवेति ।
***परिमल ***
तृतीयसूत्रव्याख्यानमनुवदति तेष्वेवेति । मनो ब्रह्मेत्यादिप्रागुक्तेष्वित्यर्थः । आदित्यो ब्रह्मेत्यादेश इत्यादेरपि तत्र श्रवणादिति भावः । लौकिकन्याय इत्युक्तं व्यनक्ति क्षत्तरीति ॥ विपर्यय इति । उत्तमे नीचदृष्टिकरण इत्यर्थः । अपव्याख्यानानुवादः ॥
यादुपत्यं
लौकिको न्याय इति । उत्कृष्टदृष्टिर्हि निकृष्टेऽध्यवसितव्या, न निकृष्टदृष्टिरुत्कृष्ट इति लौकिको न्याय इत्यर्थः । अत्रोदाहरणमाह क्षत्तरि खल्विति । अत्र यथेत्यादौ पूरणीयम् । नन्वनुपासितं ब्रह्म कथं फलदं स्यादित्यत आह इदमेव चेति । ब्रह्मत्वप्रकारकमेवोपासनं न ब्रह्मविशेष्यकमपीत्यर्थः ।
श्रीनिवासतीर्थीया
एवमिति । एवं सति ब्रह्मविकारत्वेन ब्रह्मत्वे सतीत्यर्थः । क्षत्तरि ग्रामाद्यधिपे समर्थे शूद्रे । ननु तर्ह्यादित्यादीनामेवोपासितत्वेन ब्रह्मणोऽनुपासितत्वात्कथं ब्रह्म फलप्रदं स्यादित्यत आह ब्रह्मैव चेति ।
वाक्यार्थरत्नमाला
आदित्योब्रह्मेत्यादि भाष्यानुसारेण व्याचष्टे । आदित्य इति । अत्रादित्यो ब्रह्मेत्यत्र नपुंसकब्रह्मशब्दपाठः । पुल्लिङ्गपाठो लेखकागतः । आनन्दगिर्यनुसारेणाह । नन्वेवमिति । शास्त्रमर्यादेति भाष्यनुसारेणाह । शास्त्रेति । उत्कृष्टदृष्टिर्हीति भाष्यानुसारेणाह । निकृष्टेति । आनन्दगिर्याद्यनुसारेणाह । ननु ब्रह्मणः स्वातन्त्र्यादित्यादिना ।