०२ द्वितीयसूत्रव्याख्यानम्

न प्रतीके न हि सः

द्वितीयसूत्रव्याख्यानं

न प्रतीके न हि सः

सुधा

मनो ब्रह्मेत्युपासीतेत्येवमादिषु प्रतीकोपासनेषु संशयः किं तेष्वप्यात्मग्रहः कर्तव्यो न वेति । किं तावत्प्राप्तम् । तेष्वप्यात्मग्रह एव युक्तः । कस्मात् । ब्रह्मण आत्मत्वात्, प्रतीकानामपि ब्रह्मविकारत्वाद् ब्रह्मत्वे सत्यात्मत्वोपपत्तेरिति । ब्रूमः । न प्रतीकेष्वात्ममतिं बध्नीयात् । न हि स उपासकः प्रतीकानि यत्तान्यात्मत्वेनाकलयेत् । यत्पुनर्ब्रह्मविकारत्वात्प्रतीकानां ब्रह्यत्वं ततश्चात्मत्वमिति तदसत् । प्रतीकाभावप्रसङ्गात् । विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेवाश्रितं भवति । स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकस्वरूपत्वमात्मग्रहो वा । किञ्च यथा रुचकस्वस्तिकयोर्नेतरेतरात्मत्वम् । द्वयोरपि विकारत्वात् । तथा प्रतीकात्मनोरपि । सुवर्णात्मनेव ब्रह्मात्मनैकत्वे प्रतीकाभावप्रसङ्गमवोचाम । अतो न प्रतीकेष्वात्मदृष्टिः कर्तव्येति द्वितीयसूत्रार्थः ॥

वाक्यार्थचन्द्रिका

प्रतीकानामपि ब्रह्मत्वे सत्यात्मत्वोपपत्तेरिति सम्बन्धः । तेषां ब्रह्मत्वे हेतुमाह ब्रह्मेतीति । विकारस्य च विकार्यनन्यत्वादिति भावः । अस्त्वेवं तेषां ब्रह्मत्वमात्मत्वं तु कुत इत्यत आह ब्रह्मण इति । तथा श्रुतिप्रसिद्धेरिति भाव ॥ न हि स उपासक इति । अनुभवाद्वा प्रतीकानामात्मत्वकल्पनं श्रुतेर्वा न त्वेतदुभयमत्रास्तीत्यर्थः । प्रतीकाभावप्रसङ्गमेवोपपादयति विकारेति । अन्यथैक्यानुपपत्तेरिति भावः । ननु यथा तत्त्वमसीत्यादाववच्छिन्नस्याहङ्कारस्पदस्यानवच्छिन्नब्रह्मात्मतया भवत्यभावः । एवं प्रतीकानामपि भविष्यतीत्यत आह स्वरूपोपमर्दे च नामादीनामिति । न तत्त्वमसीत्यादावहङ्कारास्पदमुपास्यमवगम्यते किन्तु सर्पत्वानुवादेन रज्जुत्वज्ञापन इवाहङ्कारास्पदस्यावच्छिन्नस्य प्रविलय एवावगम्यते । इह तु प्रतीकान्यहङ्कारास्पदत्वेनोपास्यतया प्रधानत्वेन विधित्सितानि । अतो न प्रधानीभूतानां तेषामुच्छेदो युक्तः । तथा सति हि विधेयस्याप्याश्रयाभावेनानुपपत्तेरिति भावः ॥ तथा प्रतीकात्मनोरिति । यद्यप्यात्मनोऽनादित्वान्न विकारित्वं तथाऽप्यध्यस्तत्त्वमेव विकारत्वमत्राभिमतम् । तच्चात्मनोऽप्यविद्यावच्छिन्नस्यानाद्यध्यासाङ्गीकारादस्त्येवेत्यभिप्रायेणेदमुक्तमिति ध्येयम् । ननु रुचिकस्वस्तिकयोस्तत्त्वेन अभेदाभावेऽपि सुवर्णात्मनाऽभेदवत्प्रतीकात्मनोर्ब्रह्मविकारयोः प्रतीकत्वादिनाऽभेदाभावेऽपि ब्रह्मात्मनाऽभेदो भविष्यतीत्याशङ्क्याह सुवर्णात्मनेवेति ।

***परिमल ***

द्वितीयसूत्रव्याख्यानमनुवदति मनो ब्रह्मेतीत्यादिना आत्मग्रह अहंत्वग्रह इत्यर्थः । प्रतीकाभावप्रसङ्गादित्युक्तं व्यनक्ति विकारस्वरूपेति ॥ नामादिजातस्य नामवागादिसमूहस्य ॥

यादुपत्यम्

प्रतीकाभावप्रसङ्गादित्युक्तमुपपादयति विकारस्वरूपोपमर्देनेति । अन्यथैक्यानुपपत्तिरिति भावः । ननु यथा तत्त्वमसीत्यत्र जीवस्य ब्रह्मताबोधने जीवचैतन्ये विशिष्टाकारापगमः । एवं प्रतीकानामपि स्वरूपोपमर्द इष्ट एवेत्यत आह स्वरूपोपमर्दे चेति । तत्त्वमसीत्यत्र हि अवच्छिन्नतया अनूदितस्यानवच्छिन्नब्रह्मात्मताविधाने अवच्छिन्नस्य प्रविलयो युक्त एव । सर्पतया अनूदितस्य पुरोवर्तिनो रज्जुताविधाने सर्पत्वप्रविलय इव । न चैवं प्रकृते । प्रतीकानि हि आत्मत्वेनोपास्यतया प्रधानत्वेन विधित्सितानि । अतो न प्रधानीभूतानां तेषामुच्छेदो युक्तः । तथात्वे च विधयस्याप्याश्रयाभावेनानुपपत्तिरिति । तदिदमाह कुतः प्रतीकत्वमात्मग्रहो वेति ॥ तथा प्रतीकात्मनोरपीति । यद्यप्यात्मनोऽनादित्वान्न विकारत्वं तथाऽपि अध्यस्तत्वमेव विकारत्वमत्राभिप्रेतम् । तच्चात्मनोऽप्यविद्यावच्छिन्नस्याध्यासाङ्गीकारादस्त्येवेति ज्ञातव्यम् ।

श्रीनिवासतीर्थीया

आत्मग्रहो जीवात्माभेदेनोपास्तिः ॥ ब्रह्मण आत्मत्वादिति । ब्रह्मणो जीवाभिन्नत्वादित्यर्थः । ब्रह्मत्वे सतीत्यत्र प्रतीकानामिति वर्तते । आत्मत्वोपपत्तेर् जीवाभेदोपपत्तेः । तथा च यद्यदभिन्नाभिन्नं तत्तेनाभिन्नमिति व्याप्तिबलात्प्रतीकानामात्माभिन्नब्रह्माभिन्नत्वादात्माभिन्नत्वमपि प्राप्तमित्यर्थः । आकलयेद् भावयीत ॥ विकारस्वरूपेति । ब्रह्मविकारभूतप्रतीकस्वरूपोपमर्देनेत्यर्थः । नामादिजातस्य नामवागादिप्रतीकसमुदायस्य ॥ नामादीनां स्वरूपोपमर्द इत्यन्वयः ।

वाक्यार्थरत्नमाला

ब्रह्मण आत्मत्वादिति वाक्यमाकाङ्क्षक्रमेण योजयति । प्रतीकानामपीत्यादिना । श्रुतिष्वात्मत्वेन प्रसिद्धत्वादिति भाष्यानुसारेणोक्तं तथाश्रुतीति । कल्पनमित्यनन्तरमङ्गीकार्यमिति शेषः । एतच्च भामत्यनुसारेण कल्पतरौ व्याख्यातप्रकारश्चानुसर्तव्यः । उपासकस्य प्रतीकानां भेदेऽपि प्रतीकेषु बह्माभिन्नजीवदृष्टेः श्रुतिवशादुपपत्तेर्भाष्यायोगमाशङ्क्याह । अनुभवाद्वेति । श्रुतिवशादात्मत्वकल्पनस्य घटादेरपि दृष्टरूपातिप्रसङ्गेन तन्निरस्तत्वान्नोभयमप्यस्तीत्युक्तमिति । ननु यथावच्छिन्नस्येत्याद्युपपत्तिरितीत्यत भामत्यनुसारेणावतार्य व्याचष्टे । ननु यथातत्वमसीत्यादिनाऽभाव इत्यन्तेन । इह हीत्यादेस्तात्पर्यार्थः कल्पतरावभिहितो ऽप्रधानस्य जीवस्य वैशिष्ट्यत्यागेन ब्रह्मात्मना भवत्यभावप्रधानं तु प्रतीकं यथानिर्दिष्टं रक्षणीयम् । न तु रूपान्तरमापादयितव्यम् । प्रधानस्यैव व्याघातप्रसङ्गादित्यर्थ इत्यन्तेन । यद्यप्युपासको जीवात्मेति भामत्यनुसारेणाह । यद्यप्यात्मन इति । मूले प्रतीकात्मनोरपि ब्रह्मविकारत्वान्नेतरेतरात्मत्वमिति पूरणं मनसि निधाय वेदमिति नदोषः । आनन्दगिर्यनुसारेणावतारयति । ननु रुचिकेति । रुचिकं स्वस्तिकं स्वर्णविकारौ प्रत्येकं भवतः पूषणविशेषौ ।