आत्मेति तूपगच्छन्ति, ग्राहयन्ति च..
॥ अथ आत्मोपगमाधिकरणान्यथाव्याख्याननिराकरणम् ॥
मायावादिना प्रथमसूत्रार्थकथनम्
सुधा
‘आत्मेति तूपगच्छन्ति, ग्राहयन्ति च’, ‘न प्रतीके न हि सः’, ‘ब्रह्मदृष्टिरुत्कर्षात्’ इति त्रिसूत्रीमेकेऽन्यथा व्याचक्षते ।
तथा हि । परमात्मा किमहमिति ग्रहीतव्यः । किं वा मदन्य इति संशये नाहमिति ग्राह्य इति प्राप्तम् । कुतः । अपहतपाप्मत्वादिगुणो हि परमात्मा । तद्विपरीतगुणश्च शारीरः । अतः कथं तयोरभेदो भवेत् । ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावस्ततः शास्त्रानर्थक्यम् । संसारिणोऽपीश्वरत्वेऽधिकार्यभावाच्छास्त्रानर्थक्यमेव । प्रत्यक्षादिविरोधश्च । एवं प्राप्ते ब्रूमः । आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः । तथा हि । परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैवैनमुपगच्छन्ति । ‘त्वं वाऽहमस्मि भगवो देवते अहं वै त्वमसि देवते’ इति । तथान्येऽपि ‘अहं ब्रह्मास्मी’त्येवमादय आत्मत्वोपगमा द्रष्टव्याः । ग्राहयन्ति चात्मत्वेनैवेश्वरं वेदवाक्यानि । ‘एष त आत्मा सर्वान्तरः’, ‘तत्त्वमसी’त्यादीनि । ‘अथ योऽन्यां देवतामुपास्त’ इत्यादिका श्रुतिरपवदति च भेददर्शनम् । यत्तूक्तं विरुद्धगुणयोरन्योन्यात्मत्वं न सम्भवतीति तदसत् । विरुद्धगुणताया मिथ्यात्वात् । न चेश्वराभावप्रसङ्गः । न हीश्वरस्य संसारित्वं प्रतिपाद्यते किं तर्हि संसारित्वापोहेनेश्वरत्वम् । न चाधिकार्यभावः प्रत्यक्षादिविरोधश्च । प्राक् प्रबोधात्संसारित्वाभ्युपगमात् । तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य । प्रबोधे तु प्रत्यक्षाद्यभाव एव । तथा सत्यद्वैतश्रुतेरप्यभावप्रसङ्ग इति चेत् । इष्टमेवैतत् । तस्मादात्मेत्येवेश्वरे मनो दधीतेति प्रथमसूत्रार्थः ॥
वाक्यार्थचन्द्रिका
तद्विपरीतगुणश्चेति । अनपहतपाप्मत्वादिलक्षणश्चेत्यर्थः ॥ ईश्वरस्य चेति । ईश्वरस्वरूपोपमर्देनेति शेषः ॥ तत इति । प्रतिपाद्यस्येश्वरस्याभावादित्यर्थः ॥ संसारिणोऽपीति । संसारिस्वरूपोपमर्देनेति शेषः ॥ प्रत्यक्षादीति । संसारिण ईश्वरभेदस्य नाहं सर्वज्ञ इति प्रत्यक्षादिसिद्धत्वेन तस्येश्वरत्वं प्रत्यक्षादिविरुद्धमित्यर्थः । परमेश्वरप्रक्रियायां तत्प्रकरणे ॥ इत्यादिकेत्यादिपदेन ‘अन्योऽसावन्योऽहमस्मीति न स वेदे’ति वाक्यस्य, ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ ‘सर्वतः परादाद्योऽन्यत्रात्मनः सर्वं वेदे’त्यादिश्रुत्यन्तरस्य च परिग्रहः ॥ मिथ्यात्वादिति । तस्याश्च भेदासाधकत्वात् । अन्यथैकस्मिन्नपि तादृशविरुद्धगुणताया वक्तुं शक्यत्वेन भेदप्रसङ्ग इति भावः ॥ न चेति । ईश्वरस्वरूपोपमर्देन तस्य संसार्यात्मत्वाभ्युपगमादित्यर्थः । ततश्च प्रतिपाद्याभावाच्छास्त्रानर्थक्यमिति भावः । ईश्वरस्य स्वरूपो पमर्देन संसार्यात्मत्वानभ्युपगमान्नोक्तदोष इति परिहरति न हीति । तर्हि नाहमिति ग्राह्य इति वदता पूर्वपक्षिणा जितमिति पृच्छति किं तर्हीति । उत्तरमाह संसारित्वेति । संसारिण इति शेषः ॥ अधिकार्यभाव इति । संसारित्वापोहेन संसारिण ईश्वरात्मत्वाभ्युपगमादिति भावः ॥ प्रबोधे त्विति । ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येदि’त्यादिनेति शेषः ॥ इष्टमेवैतदिति । ‘अत्र हि पिताऽपिता भवती’त्युपक्रम्य ‘वेदा अवेदा’ इति वचनानुरोधेन प्रबोधे प्रत्यक्षाद्यभाववच्छत्यभावस्याप्यभ्युपगमादिति भावः ।
***परिमल ***
एके इति । औतिन इत्यर्थः यथाश्रुतं परभाष्यमनुवदति परमात्मा किमहमिति । जीव इति ग्राह्य इत्यर्थः । ईश्वरस्यात्मत्वे आत्मन ईश्वरत्वपक्षे चोभयत्र दोषमाह ईश्वरस्येत्यादिना । आद्यपक्षाश्रयेण सिद्धान्तं तावदाह आत्मेत्येवेति । सूत्रस्यार्थमाह परमेश्वरेति । उपगच्छन्ति स्वीकुर्वन्तीत्यर्थः । आत्मत्वोपगमा आत्मत्वाङ्गीकारा इत्यर्थः ॥ इत्यादिकेति । ‘अन्योसावन्योहमस्मीति न स वेद यथा पशुरि’ति वाक्य आदिपदार्थः । द्वितीयकल्पमाश्रित्याह न हीति । दोषद्वयस्योत्तरं प्राक्प्रबोधादिति । ब्रह्मज्ञानात्प्रागित्यर्थः ।
यादुपत्यम्
उपगच्छन्तीति । अभ्युपगच्छन्तीत्यर्थः ॥ इत्यादिका श्रुतिरिति । ‘अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरि’त्यर्थः ।
श्रीनिवासतीर्थीया
ईश्वराभाव इति । ईश्वरस्य संसार्यात्माभेदाङ्गीकार इत्यर्थः ॥ शास्त्रेति । सदेव सोम्येत्यादि शास्त्रेत्यर्थः ॥ ईश्वरत्वमिति । संसारिण इति शेषः ।
वाक्यार्थरत्नमाला
शाङ्करभाष्यव्याख्यानरूपभामत्यानन्दगिर्यादिकं मनसि कृत्वा शेषं पूरयति । ईश्वरेत्यादिना । तदनुसारेणैव तत इत्यस्य व्याख्या । प्रत्यक्षादीत्यादिपदेन द्वासुपर्णेत्यादेरागमस्य ग्रहणम् । उक्तानुसारेण व्याचष्टे । तत्प्रकरण इति । तत्त्वमसीत्यादीनीत्यादिपदेन मूलेऽहं ब्रह्मास्मियोहं सोसौ योसौऽहं यावदित्यादेः परिग्रह इति स्पष्टमिति टीकाकृद्भिर्नोक्तम् । तथाप्ययोन्यामित्यादि भाष्यानुसारेण सङ्ग्राह्यमाह । आदिपदेनेति । किं तर्हि संसारिण इति भाष्यानुसारेण शेषं पूरयति । संसारिण इतीति । इत्यादिना दृश्यत इति इति पाठो युक्तो मूलकोशे संश्च भाष्यानुसारीच । अन्यादृशस्तुलेखकप्रसादात् । अत्र हि पितेत्यादिभाष्यानुसारेण भावमावमाह । अत्रेति ।