प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्न चान्यथा
प्रतीकाधिष्ठातृत्वेनोपास्यत्वं श्रुत्यर्थः
प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्न चान्यथा
सुधा
एवं तर्हि मनो ब्रह्मेत्यादिश्रुतीनां कोऽर्थ इत्यत आह प्रतीकेति ।
अनुव्याख्यानम्
प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्न चान्यथा ॥ ३ ॥
व्यत्ययो बहुलं, सप्तसु प्रथमा, षट्सु द्वितीया, इत्यादिस्मरणाद्विभक्तिव्यत्ययेनाधिकरणार्थतया श्रुतयो व्याख्येया इति भावः ॥ ४१३ ॥
वाक्यार्थचन्द्रिका
ननु मनो ब्रह्मेत्यादेर्विभक्तिव्यत्ययेनाधिकरणार्थतया व्याख्यानं भाष्यकारीयमनर्थकम् । विभक्तिव्यत्यये नियामकाभावाद् इत्यतस्तदाश्रयणे प्रसिद्धव्याकरणस्य नियामकं तावदाह व्यत्यय इति । व्युत्पादितमेतदत्रैव प्राक् । महाव्याकरणस्थमपि तन्नियामकमाह सप्तस्विति । सप्तसु प्रथमादिसप्तविभक्त्यर्थेषु प्रथमाविभक्तिः स्यादित्याद्यसूत्रार्थः । प्रथमाविभक्त्यर्थातिरिक्तद्वितीयादिषडि्वभक्त्यर्थेषु द्वितीयाविभक्तिः स्यादिति द्वितीयसूत्रार्थः । स यो वाचं ब्रह्मेत्युपास्त इत्यादौ द्वितीयाया अपि सप्तम्यर्थत्वसिद्धये द्वितीयसूत्रोदाहरणं कृतम् । यद्यपि महाव्याकरणस्थसूत्रानुसारेण न विभक्तिव्यत्ययस्तथापि प्रसिद्धव्याकरणानुरोधेन तत्सद्भावात् । टीकायामिह व्यत्ययेनेत्युक्तम् । अत एव टीकाकृता तस्य प्रथममुदाहरणं कृतमित्यवधेयम् ॥ ४१३ ॥
***परिमल ***
पाणिनीयं सूत्रमाह व्यत्ययो बहुलमिति । ‘सप्तसु प्रथमा यस्माद्भूयोभूयस्त्वतस्तथा । षट्सु द्वितीया यस्माच्चेत्’ इत्यादिछान्दोग्यभाष्यं हृदि कृत्वाह सप्तस्विति । वाचं ब्रह्मेत्येतन्निर्वाहायाह षट्स्विति । द्वितीयादिविभक्तिष्वित्यर्थः । आदिपदेन सुपां सुलुगित्यादिग्रहः ॥ विभक्तिव्यत्ययेनेति । ‘नामादिप्राणपर्यन्ताः सप्तम्यर्थाः प्रकीर्तिता’ इति सप्तमे छान्दोग्यभाष्योक्तिरिति भावः ॥ ४१३ ॥
यादुपत्यं
व्यत्ययो बहुलमिति प्रसिद्धव्याकरणस्थं विभक्तिव्यत्यनेन व्याख्याने विधायकमुक्तम् । महाव्याकरणस्थमपि तदाह सप्तसु प्रथमेत्यादि । सप्तसु प्रथमेत्यादिविभक्त्यर्थेषु प्रथमाविभक्तिः स्यादिति आद्यसूत्रार्थः । प्रथमाविभक्त्यर्थं विना द्वितीयादिविभक्त्यर्थेषु षट्सु, द्वितीयाविभक्तिः स्यादिति द्वितीयसूत्रार्थः । इदं च सूत्रं ‘स यो वाचं ब्रह्मेत्युपास्त’ इत्यादिद्वितीयाऽपि सप्तम्यर्थ इति दर्शयितुम् । एवं चात्र विभक्तिव्यत्ययेनेत्यस्य प्रसिद्धव्याकरणरीत्या विभक्त्यर्थस्तद्व्यत्ययेनेत्यर्थो ज्ञातव्यः ॥ ४१३ ॥
वाक्यार्थरत्नमाला
प्रागिति । अृण्वतामित्यस्य द्विविकरणतोपपादनावसर इत्यर्थः ॥
॥ इति प्रतीकाधिकरणम् ॥