०२ श्रुत्यादिभिर् मिथ्योपासनस्यानर्थत्वप्रतिपादनम्

योन्यथासन्तमात्मेशमन्यथा प्रतिपद्यते

श्रुत्यादिभिर् मिथ्योपासनस्यानर्थत्वप्रतिपादनम्

योन्यथासन्तमात्मेशमन्यथा प्रतिपद्यते

सुधा

मिथ्योपासनस्यानर्थहेतुत्वं कुत इत्यतस्तदुपपादनपूर्वकमिममेव सूत्राभिप्रायं स्पष्टमाचष्टे योऽन्यथेत्यादिना भगवान्प्रभुरित्यन्तेन ॥

अनुव्याख्यानम्

योन्यथासन्तमात्मेशमन्यथा प्रतिपद्यते ॥

किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥

योन्यथासन्तमात्मानमन्यथा प्रतिपद्यते ।

किं तेन न कृतं पापं चोरेणेशापहारिणा ॥

योन्यथैव स्थितं विष्णुमन्यथा प्रतिपद्यते ।

किं तेन न कृतं पापं चोरेण ब्रह्महारिणा ॥

अन्यथासन्तं प्रतीकभिन्नत्वादिप्रकारं सन्तम् । आत्मनां जीवानाम् ईशम् । अन्यथा प्रतीकत्वादिना । प्रतिपद्यते जानाति ध्यायति च । चोरत्वस्यैव विवरणम् आत्मापहारिणेति । अभेदे खल्वेकावशेषः स्यात् । तत्र प्रतीकावशेषे ध्याने स्फुटं परमात्मापहारित्वम् । प्रतीकप्रविलयेऽप्यैश्वर्यापलापात्परमात्मापहारित्वमेव । आत्मानं परमात्मानम् ।

एतानि त्रीणि वाक्यानि विष्णोः प्रतीकताध्याने बाधकानि । प्रतीकस्य विष्णुत्वध्याने तु न बाधकमित्यतः स्वात्मानमिति वाक्यं पठितम् ।

अनुव्याख्यानम्

स्वात्मानं प्रतिमां वापि देवतान्तरमेव वा ॥

चेतनाचेतनं वान्यद्ध्यायेद्यः केशवस्त्विति ॥

किं तेन न कृतं पापं चोरेणेशापहारिणा ॥

योऽन्यदिति त्रीण्युभयार्थे ।

अनुव्याख्यानम्

योऽन्यद्विष्णुरिति ध्यायेज्जानीयाद्वा हरिं तथा ।

अन्धेतमसि मज्जेत्स यत्र नैवोत्थितिः क्वचित् ॥

योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा ।

अन्यथा ध्यानदोषेण सोऽन्धेतमसि मज्जति ॥

योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा ।

महातमसि मग्नस्य तस्य नैवोत्थितिः क्वचित् ॥

यत्र पतितस्य । अन्यथाध्यानमेव दोषोऽन्यथाध्यानदोषः ॥

यत्किञ्चिदित्यादीनि प्रथमार्थ एव कैमुत्यार्थानि ।

अनुव्याख्यानम्

यत्किञ्चिदन्यथासंस्थमन्यथा ध्यातमञ्जसा ।

ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः ॥

यत्किञ्चिदन्यथासंस्थमन्यथाध्यातमञ्जसा ।

महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः ॥

यत्किञ्चिदन्यथासंस्थमन्यथाज्ञातमञ्जसा ।

अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः ॥

न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् ।

किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित् ॥

तस्माद्वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा ।

कारणं पुरुषार्थस्य नान्यथा भवति क्वचित् ॥

यत्किञ्चिद्गङ्गोदकादिकमन्यथासंस्थं पवित्रं सद् अन्यथापवित्रं ध्यातं ध्यातुरञ्जसा महादोषकरं किमु सर्वेश्वरो हरिरप्रकृष्टतया ध्यातः ॥ तेन अनर्थप्रसङ्गेन ।

अनुव्याख्यानम्

इति श्रुतिपुराणोक्तिबलतो न प्रतीकता ।

ध्येया विष्णोः क्वचिद्यस्मान्मिथ्याज्ञानमनर्थदम् ॥

इत्यभिप्रेत्य न हि स इत्याह भगवान्प्रभुः ॥

इति श्रुतिपुराणोक्तिबलतो मिथ्याज्ञानमनर्थदं प्रतीयते यस्मात्तस्माद्विष्णोः प्रतीकता न ध्येयेति परम्परया हेतुहेतुमद्भावमभिप्रेत्य भगवान्सूत्रकारो न हि स इति हेतुमाह । अतो नासङ्गतिरित्यर्थः । वक्ष्यमाणप्रकारेण द्विरूपस्यापि ध्यानस्य साम्याद् बलत इत्युक्तम् । ध्यानस्यापि ज्ञानवित्वात्सङ्कीर्णोक्तिः ।

वाक्यार्थचन्द्रिका

इममेवेति । उक्तप्रतिज्ञायां न हि स इत्यस्य परम्परया हेतुहेतुमद्भावलक्षणमेवेत्यर्थः । अन्यथासन्तमित्यस्य मनआदिप्रतीकाद्यभिन्नं सन्तम् । अन्यथा भिन्नत्वेन प्रतिपद्यत इति योजनायां वक्ष्यमाणस्यात्मापहारित्वस्यालाभात्तदुपयोगितया तद् व्याचष्टे प्रतीकभिन्नत्वादिप्रकारं सन्तमित्यादि । आत्मा चासावीशश्चेति कर्मधारयपक्षे आत्मत्वाद्युक्तेः प्रयोजनविशेषालाभाद् अन्यथासन्तमिति विणोक्तभिन्नत्वोपपादकतया प्रकृतोपयुक्तत्वलाभात् षष्ठीतत्पुरुषमेवाश्रित्यात्मेशमित्येतद् व्याचष्टे आत्मनामिति ॥ जानातीति । पद्यतेर्गत्यर्थत्वाद्गत्यर्थानां ज्ञानार्थत्वादिति भावः । अन्यथोपासनस्याकर्तव्यतायाः प्रमाणारूढत्वलाभायोपासनपरतयाऽपि व्याचष्टे ध्यायति चेति । ज्ञानध्यानयोरुभयोरप्यनर्थसाधनतया उत्तरत्रोक्तेस्तदनुरोधेनात्रोभयार्थतया व्याख्यानं कृतम् । उत्तरत्रोभयोरनर्थसाधनत्वोक्तेः प्रयोजनं त्वाकर एव स्पष्टम् ॥ विवरणमिति । अनेन कथमन्यथोपासकस्य चोरत्वमित्यत आह आत्मापहारिणेतीति । इति योजनोक्ता भवति । भवेदन्यथोपासकस्य चोरत्वं यद्यात्मापहारित्वं तस्य स्यात् । तदेव कथमित्यतस्तदुपपादयति अभेदे खल्विति । ततोऽपि किमित्यतस्तदवशिष्टं किं प्रतीकमुत ब्रह्मेति विकल्पं मनसि निधायाद्यं दूषयति प्रतीकाव इति ॥ स्फुटमिति । ब्रह्मस्वरूपोपमर्देन प्रतीवस्य ध्यातत्वादित्यर्थः । द्वितीयं दूषयति प्रतीकप्रविलय इति । प्रतीकस्वरूपोपमर्देन ब्रह्मावशेषे ध्यातेऽपीत्यर्थः ॥ ऐश्वर्येति । प्रतीकसापेक्षस्य तदैश्वर्यस्य तदवशेषे सम्भवेऽपि तदुपिमर्देऽसम्भवादित्यर्थः । अनेनात्मरूपधर्म्यपहारित्वम् आत्मत्वरूपतद्धर्मापहारित्वं चेत्युभयविधमप्यात्मापहारित्वमिह विवक्षितमिति युक्तमस्य विवरणत्वमित्युक्तं भवति ।

बाधकानीत्यतः परम् अतोऽस्तु विष्णोः प्रतीकत्वेन ध्यानस्याकर्तवयत्वमिति शङ्कावाक्यशेषः । बाधकमित्यतः परम् अतस्तस्य कर्तव्यत्वं स्यादेवेति शेषः । यच्छब्दार्थस्य तमस उत्थतिं प्रत्यनधिकरणत्वाद्यत्रेति सप्तम्यनुपपत्तिमाशङ्क्योत्थितिकर्तारं प्रत्याश्रयत्वात्तदुपपत्तिरिति भावेन तत्कर्तारं पूरयति यत्र पतितस्येति । अन्यथाव्यानस्य दोष इति षष्ठीतत्पुरुषे ध्यानजन्यो दोष इति मध्यमपदलोपिसमासाश्रयणे वा दोषस्यैवानर्थहेतुत्वप्राप्त्याऽन्यथाध्यानस्य तदप्राप्तेः प्रकमविरोधः स्यादित्यत आह धय्नमेवेति ॥ प्रथमार्थ एवेति । विष्णोः प्रतीकताध्यान एवेत्यर्थः । योग्यत्वादनर्थकारणत्वस्य तच्छब्देन तन्मात्रपरामर्श इत्याह तेनानर्थप्रसङ्गेनेति ।

ननु च ‘इति श्रुतिपुराणोक्तित’ इत्येव वक्तव्ये किं ‘बलत’ इत्यनेनेत्यत इति श्रुतिपुराणोक्तित उपासनद्वयस्याप्यनर्थसाधनत्वसिद्धेरकर्तव्यतेत्युक्तमसत् । राज्ञि क्षत्तृदृष्ट्याऽनर्थदर्शनात् । तन्न्यायेन ब्रह्मणि प्रतीकदृष्टेरनर्थसाधनत्वावश्यंभावेन श्रुत्यादिना तदकर्तव्यतासिद्धावपि क्षत्तरि राजदृष्टेः फलवत्त्वदृष्ट्या तन्न्यायेन प्रतीके ब्रह्मदृष्टेरपि फलवत्त्वसम्भवेनोपपत्तिविरुद्धतयोदाहृतश्रुत्यादिना प्रतीके ब्रह्मदृष्टेरनर्थसाधनत्वासिद्धेरित्यत उदाहृतश्रुत्यादिमात्रेण तदसिद्धावपि पुरतो नरदेवस्येत्यादिना वक्ष्यमाणसिंहो देवदत्त इत्यादाविव राजत्वोपचारेणोक्तिमात्रस्यैव क्षत्तरि सद्भावेऽपि राजदृष्टेरभावात्तत्सद्भावेऽपि वा तत्राप्यनर्थस्यैव सद्भावेन फलवत्त्वाभावान्न प्रतीकेऽपि ब्रह्मदृष्टेस्तन्न्यायेन फलवत्त्वम् अपि त्वनर्थसाधनत्वमेवेत्यादिरूपा योपपत्तिस्तत्सहितश्रुत्यादिनाऽनर्थसाधनत्वसिद्धिर्युक्तैव इत्याशयेन बलत इत्युक्तमित्याशयवानाह वक्ष्यमाणेति । वक्ष्यमाणोपपत्त्येत्यर्थः । तत्सहकारेणेति यावत् । उदाहृतश्रुत्यादिनेति शेषः । साम्यादनर्थसाधनत्वसिद्धेरिति यावत् । तातचरणास्तु ‘तत्त्वं वाऽहमस्मि भगवो देवते अहं च त्वमसी’त्यादिवक्ष्यमाणप्रकारेण ब्रह्मणः प्रतीकत्वेन प्रतीकस्य च ब्रह्मत्वेन ध्यानस्य श्रौतत्वात् । अपिशब्दोक्ततन्निषेधस्यापि न किञ्चिदित्याद्युदाहृतश्रुत्यादिसिद्धत्वेनोभयोरपि श्रौतत्वसाम्ये कथं निर्णय इत्यतोऽन्यथोपासनकर्तव्यताप्रापकस्य त्वं वा अहमस्मीत्यादेरागमस्य सावकाशत्वान्निषेधकस्य न किञ्चिदित्यादेश्च निरवकाशत्वेन प्राबल्याद्युक्तोऽनेन तस्य बाध इति दर्शयितुं बलत इत्युक्तमित्यर्थ इत्याहुः । ननु मिथ्योपासनस्यानर्थसाधनत्वप्रतिपादनमुखेनाकर्तव्यतामुपदर्शयितुं योऽन्यथासन्तमित्यादिवाक्येष्वन्यथोपासनस्यैवानर्थसाधनत्वेन कथनीयत्वाद् अन्यथोपासनतज्ज्ञानयोः सङ्करेणानर्थतासाधनत्ववर्णनमयुक्तमित्यतः सङ्कीर्णोक्तौ निमित्तमाह ध्यानस्यापीति ।

***परिमल ***

ननु विष्णोर्मनआदिनीचरूपत्वेन ध्यानस्य दोषकृत्त्वेऽपि मनःप्रभृतेरुत्कृष्टब्रह्मत्वध्यानं न दोषकृदित्यत आह वक्ष्यमाणेति । ‘चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि । को वि’ इत्यादिना वक्ष्यमाणेत्यर्थः । ननूक्तवचनेषु क्वचिदन्यथाज्ञाननिषेधः क्वचिद्ध्यानस्य कुत एवं सङ्करोक्तिर् ध्याननिरासस्यैव प्रस्तावादित्यत आ ध्यानस्यापीति ।

यादुपत्यं

जानातीति व्याख्यानं प्रसङ्गात्तथा ज्ञानस्याप्यनर्थहेतुत्वोपपादनाय । प्रकृताभिप्रायेण व्याख्यानं ध्यायति चेति । ननु विष्णोः प्रतीकताध्यानेऽनर्थकथनं युक्तम् । उत्तमस्य नीचताध्यानेऽनर्थदर्शनात् । प्रतीकस्य विष्णुत्वध्याने तु नानर्थः । क्षत्तरि राजदृष्ट्या फलदर्शनात् । अतः स्वात्मानमित्यादितन्निषेधकथनं न युज्यत इत्यत आह वक्ष्यमाणप्रकारेणेति । चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि । को विशेषः परिज्ञात’ इत्यादिनेति शेषः । तथा च बलत इत्युक्त्या स्वात्मानमित्यादि वाक्यं वक्ष्यमाणोपपादनसापेक्षमेव स्वार्थप्रापकं न केवलमिति सूचितमिति भावः । ननु मिथ्याज्ञानमनर्थकं चेद्विष्णोः प्रतीकता न ज्ञेयेत्येव वक्तव्यं न तु न ध्येयेति । ध्यानस्य ज्ञानभिन्नत्वादित्यत आह ध्यानस्यापीति । तथा च यस्मान्मिथ्याज्ञानमनर्थदं प्रतीयत इति हेतुवाक्ये ज्ञानपदेन ज्ञानविरूपस्य ध्यानस्यैव सङ्कीर्णतया साधारण्येन ज्ञानत्वेन रूपेणोक्तत्वान्न ध्येयेति वचनं नानुपपन्नमिति भावः ।

वाक्यार्थरत्नमाला

प्रकृतोपयुक्तत्वलाभादिति । उपयुक्तत्वलाभाच्चेत्यर्थः । उत्तरत्रोक्तेरिति । न किञ्चिदन्यथाज्ञेयं ध्येयं वा तेनेत्युत्तरानुव्याख्यान इत्यर्थः । प्रयोजनं त्विति । यस्मान्मिथ्याज्ञानमनर्थप्रदं प्रतीयते तस्माद् विष्णोः प्रतीकता न ध्येयेति परंपरायाहेतुहेतुमद्भावसूचनरूपमित्यर्थः । प्रथमार्थ एवेतीति प्रतीकोपादानम् । तेनानर्थप्रसङ्गेनेतीति च । न च वाच्यं क्षत्तरीत्यादि तत्त्वप्रकाशिकानुसारेण पुरतो नरदेवस्येत्येतदवताररूपमूलानुसारेण च व्यावृत्य शङ्कामाह । ननु चेति श्रुतिपुराणोक्तित इत्यादिना इत्यादिना वक्ष्यमाणेति । अस्येत्यादिरूपा योपपत्तिरित्यनेन वक्ष्यमाणेनान्वयः । वक्ष्यमाणेति वाक्यार्थः श्रीनिवासाचार्यटिप्पणपर्णेऽस्ति तमाह । तातचरणास्त्विति । अत्र पक्षे वक्ष्यमाणपदस्यैतद्ग्रन्थवक्ष्यमाणत्वपरित्यागेन श्रुतौ वक्ष्यमाणग्राहकत्वमङ्गीकार्यं परिहारस्य कल्पनीयत्वमित्यादिकं बहुभवति । चण्डालो नृप इत्युक्ते इत्यादिस्पष्टानुव्याख्यानाननुसरणं च भवतीति कठिणत्वमित्याशयो बोध्यः । वक्ष्यमाणप्रकारेणेति । श्रुत्युक्तप्रकारेणेत्यर्थः । अन्यथोपासनस्यैवेति पाठः । तथेति । अन्यथेत्यर्थः ।