ॐ न प्रतीके न हि सः ॐ
॥ अथ प्रतीकाधिकरणम् ॥
विष्णुप्रतीकयोरैक्योपास्तिनिरासः
ॐ न प्रतीके न हि सः ॐ
सुधा
ॐ न प्रतीके न हि सः ॐ ॥ मनो ब्रह्मेत्युपासीतेत्यादिश्रुतिप्राप्तं मनःप्रभृतिप्रतीकानां ब्रह्मत्वेनोपासनमत्र प्रतिषिध्यते । तत्र प्रतीक इत्यधिकरणसप्तमीति प्रतीतिः स्यात् । प्रतीकाधिकरणस्य चोपासनं ब्रह्मणो युक्तमेव । अतोऽन्यथा प्रतिज्ञां व्याख्याति प्रतीकेति ।
अनुव्याख्यानम्
ॐ न प्रतीके न हि सः ॐ ॥
प्रतीकविषयत्वेन न कार्या विष्णुभावना ॥
इत्थंभूतलक्षणे तृतीया । इदं मनआदिकं विष्णुरित्येवंरूपोपासना न कार्येत्यर्थः । न हि स इति हेतुं व्याचष्टे प्रतीकमिति ।
अनुव्याख्यानम्
प्रतीकं नैव विष्णुर्यत् …… …….
यद्यस्मात्प्रतीकं, ब्रह्मणः प्रतिमात्मकं, मनःप्रभृति, स विष्णुर्नैव तस्मादिति पूर्वेणान्वयः । नन्वसङ्गतोऽयं हेतुः । प्रतीकस्य विष्णोश्चाभेदाभावो ह्यभेदस्य तत्प्रमितेश्च निवारको न त्वभेदभावनामात्रस्येत्यत आह मिथ्येति ।
अनुव्याख्यानम्
……. …… मिथ्योपासा ह्यनर्थदा ॥
न हि स विष्णुः प्रतीकम् । अतस्तयोरभेदभावना मिथ्योपासना । सा चानर्थस्यैव हेतुः । अतो न कर्तव्येत्येवं हेतुहेतुमद्भावः सूत्रकृतोऽभिप्रेतो न पुनः साक्षात् । अतो नासङ्गतिः ।
वाक्यार्थचन्द्रिका
ॐ न प्रतीके न हि सः ॐ ॥ प्रतीकविषयत्वेनेत्याद्युत्तरभाष्यानर्थक्यमाशङ्क्य न प्रतीक इति प्रतिज्ञाया अन्यथा व्याख्यानार्थत्वान्न तदिति भावेन तद्व्यावर्त्यां शङ्कामुत्थापयितुं विषयं तावदाह मन इत्यादि ॥ इत्थंभूतेति । प्रतीकविषयत्वस्य कर्तृत्वाद्ययोगेन कर्तृकरणयोस्तृतीयेत्यनेन तत्र तृतीयाया अप्राप्तत्वादिति भावः । प्रतीकमित्यस्य व्याख्यानं प्रतिमात्मकमिति । तस्यैव ृङ्गिग्राहकतया प्रदर्शनं मनःप्रभृतीति ॥ पूर्वेणेति ॥ प्रतीकविषयत्वेनेति प्रतिज्ञावाक्येनेत्यर्थः ॥ नन्विति । विवक्षितार्थासाधकत्वेन प्रकृतानुपयुक्त इत्यर्थः । प्रकृतानुपयोगमेवोपपादयति ॥ प्रतीकस्येति । कथमनेनासङ्गतिपरिहार इत्यतोऽपेक्षितं पूरयन्सङ्गतिं दर्शयति न हीत्यादिना ।
***परिमल ***
ॐ न प्रतीके न हि सः ॐ ॥ व्याख्याने बीजमाह तत्र प्रतीक इति । अन्यथाप्रतिपत्तिप्रदर्शनायैव प्रागधिकरणप्रतिपाद्योक्तिः । कर्त्राद्यर्थत्वायोगादाह इत्थंभूतलक्षणे तृतीयेति । प्रतीकविषयत्वप्रकारं प्राप्ता भावनेतीयं तृतीया भावनायां प्रतीकविषयत्वप्रकारप्राप्तिं लक्षयति ज्ञापयतीत्यर्थः । तद्दर्शयति इदमित्यादि ।
यादुपत्यम्
ॐ न प्रतीके न हि सः ॐ ॥ इत्थंभूतलक्षणेति अकार्यत्वरूपं प्रकारं प्राप्तायां विष्णुभावनायां प्रतीकविषयकत्वं लक्षणमतस्तृतीयेत्यर्थः ।
वाक्यार्थरत्नमाला
न प्रतीकेनहिसः ॥ आनर्थक्यमाशङ्क्येति । आनर्थक्यमित्याशङ्क्येत्यर्थः । अन्यथाव्याख्यानेति । प्रतीतार्थापेक्षयेत्यर्थः । इत्थंभूतलक्षणे तृतीयेत्येतद्-व्याख्यानन्तु ….पादीयात्याद्यनुव्याख्यानमूलव्याख्यानावसरे तत्र तत्र कृतं लिङ्गभङ्गेनेत्येतदुपपादनावसरे तृतीयपादे च करिष्यत इति नात्र टीकाकारः कृतवान् । तद्-व्याख्यानोपपदानं च गीताभाष्यटीकाविवरणेऽस्माभिः कृतं तत एव प्रतिपत्तव्यम् । अकार्यत्वरूपविष्णुभावनाप्रकारं प्राप्ताया भावनाया प्रतीकविषयत्वं लक्षणं भवतीति स्पष्टत्वान्नोक्तमित्यादि योजनीयमस्ति । तर्हि स इति त्वत्कार्यत्वे हेतुः ।