स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः
स्वामित्वोपासनस्यावश्यकत्वे प्रमाणोक्तिः
स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः
सुधा
अस्य सर्वथोपास्यत्वे किं प्रमाणमित्यत आह स्वामीति ।
अनुव्याख्यानम्
स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः ॥**
कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत् ॥
इति सत्तत्त्ववचनं षाड्गुण्यवचनं परम् ॥
मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च ॥
इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः ॥ २ ॥
विणविशेष्यत सति स्वामित्वं विणं विष्णुर्विशेष्य इति विणविशेष्यभावेनैव । न तु तटस्थं स्वमित्वं निर्गुणस्य विष्णोरुपलक्षणमित्येवमित्यर्थः । कथञ्चन आधिव्याधिसत्वेऽपि । परम् उपरितनम् । मम स्वामीत्यनेन प्रसक्तमल्पत्वं निवारयति सर्वस्येति ॥ ॥ ४१२ ॥
वाक्यार्थचन्द्रिका
विणविशेष्यभावेनेति । अनेन मूले विशेणविशेष्येति भावप्रधानो निर्देश आद्यादित्वात्प्रकारार्थकतृतीयान्तात्तसिरित्युक्तं भवति । विणविशेष्यत इत्येतद्व्यावर्त्यमाह न त्विति ॥ ४१२ ॥
***परिमल ***
आधिव्याधीति । आधिर्मानसी व्यथा । व्याधिर्ज्वरादिदेहपीडा ॥ परम् उपरितनमिति । अनुपदमुदाहरिष्यमाणमित्यर्थः ॥ ४१२ ॥
श्रीनिवासतीर्थीया
विणमिति । सार्वकालिकमित्यर्थः ॥ तटस्थेति । कादाचित्केत्यर्थः
॥ ४१२ ॥
वाक्यार्थरत्नमाला
सत्तत्ववचनापेक्षया षाड्गुण्यवचनस्योत्तमत्वं परशब्देनोच्यत इति प्रतीतिनिरासायाह । मूले परमुपरितनमिति । वक्ष्यमाणमित्यर्थः । मम स्वामीति तस्योपर्यभिधानाद् विष्णुरव्यय इति षाड्गुण्यवचनमिति सम्बन्धो ज्ञेय इति मूले स्पष्टत्वान्नोक्तम् ॥
॥ इति आत्मोपगमाधिकरणम् ॥