आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत्
आत्मत्वोपास्तिर्नाम स्वामित्वोपास्तिः
आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत्
सुधा
नन्वनेन विष्णुर्विष्णुरित्युपास्य इत्युक्तं भवति । ततश्च किमनेन कृतं स्यात् । न ह्यविष्णुत्वेनोपास्तिरत्र प्रसक्तेत्यत आह आदानेति ।
अनुव्याख्यानम्
आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत् ॥
अयं सूत्रगत आत्मशब्दः पतिं च वदेत् । कथम् । आदानार्थत्वत आदानकर्तृत्वार्थत्वात् । आङ्पूर्वाद् दाञ आतो मनिन्निति मनिन् प्रत्यय आकारलोपो दस्य तश्च निर्वचनत्वात् । तथा चोक्तं ‘यच्चाप्नोति यदादत्त’ इत्यादि । पतिर्हि स्वीयतया भृत्यानादत्ते ।
वाक्यार्थचन्द्रिका
‘आदानार्थत्वतश्चे’ति चशब्दस्य हेत्वन्तरानुक्तितदसम्भवाभ्यां वैयर्थ्यविरद्धार्थत्वप्राप्त्या यथाश्रुतसम्बन्धानुपपत्तेर्भिन्नक्रमतया तं योजयति पतिं चेति । कर्तृत्वार्थकमनिन्प्रत्ययस्य आत्मशब्दस्यादानकर्तृत्वार्थकत्वेऽप्यादानार्थत्वाभावाद्भाष्यानुपपत्तिमाशङ्कय परिहरति आदानकर्तृत्वार्थत्वादिति । एतदेव प्रकृतिप्रत्यययोर्विभागोपदर्शनेनोपपादयति आङ्पूर्वादिति । नन्वेवमादामेति भवितव्यम् । आत्मेति तु कथमित्यत आह आकारेति । ननु लोपादिप्रापकस्य शास्त्रस्याभावात्कथं तदित्यत आह निर्वचनत्वादिति । पृषोदरादित्वादित्यर्थः । नन्वेवं सर्वत्रापि लोपादिप्राप्त्याऽतिप्रसङ्ग इत्यतोऽस्य न्यायस्य प्रामाणिकनिर्वचनविषयत्वान्नातिप्रसङ्ग इति भावेन प्रकृतनिर्वचनस्य लोपादिप्रसञ्जकस्य प्रामाणिकत्वं दर्शयति तथा चोक्तमिति । आदानकर्तृत्वार्थकत्वेऽप्यात्मशब्दस्य कथं पतित्वस्य तेन लाभ इत्यत आह पतिर्हीति ।
***परिमल ***
आतो मनिन्निति । ‘आतो मनिन्क्वनिब्वनिपश्चे’ति सूत्रेणेत्यर्थः । आकारलोपतकारौ केनेत्यतो निरुक्तिरूपप्रमाणादिति भावेनाह निर्वचनादिति ॥ यच्चेति । ‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते’ इति वाक्यशेषः ।
यादुपत्यम्
आतो मनिनिति । आतो मनिन् क्वनिब्वनिपश्चेति सूत्रेणेत्यर्थः । सुपि उपपदे वा अकारान्तेभ्यः धातुभ्य छन्दसि विषये मनिन्क्वनिब्वनिपश्चेति एते प्रत्यया भवन्तीति सूत्रार्थः । अश्वकामा सुपीवेत्याद्युदाहरणम् आकारलोप इति । डुदाञ् दाधात्वाकारलोप सति भावः । ननु प्रामाणिकेष्वेव निर्वचनेषु वर्णलोपादिकं विहितं न स्वेच्छाकल्पितेष्वित्याशङ्कायाम् इदमपि निर्वचनं प्रामाणिकमेवेत्याह तथा चोक्तमिति ।
वाक्यार्थरत्नमाला
आतत्वाद्यर्थत्वस्यान्यत्रोक्तस्य विवक्षया समुच्चयः सम्भवतीति नानुक्तिप्रयुक्तवैयर्थ्यमित्यत उक्तं तदसम्भवाभ्यामिति । व्याप्त्याद्यर्थत्वे प्रकृतपतित्वाप्राप्तेर् व्याप्त्याद्यर्थकत्वस्य पतिवाचकत्वोपपादकत्वाभावेन तस्य पतिवाचकत्वेन सम्बन्धाभावाद्य्वाप्त्यादिवाचकत्वसाधकतया पतिरूपार्थातिरिक्तार्थान्तरवाचकत्वेनैव सम्बन्धाच्च प्रकृताननुगुणत्वरूपं विरुद्धार्थत्वमित्यत्र तात्पर्यमिति न प्रकारान्तरेण विरुद्धत्वोपपादनायोगशङ्कावकाश इति ज्ञेयम् । आदानकर्तृत्वार्थकत्वेपीति पाठः । अन्यादृशो लेखकप्रमादात् । आदामेतीति । दाञ्धातोरालोपस्य विधायकाभावेनायोगादिति भावः । पृषोदरादित्विति । पृषोदरादीनि यथोपदिष्ठमिति सूत्रीयवर्णागम इति सङ्ग्रहश्लोके वर्णनाशस्यापि प्रतिपादनादिति भावः ।