तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा
विष्णुर् आत्मत्वेनोपास्यः
तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा
सुधा
अस्त्वात्मशब्दो विष्णुपरस्तथाऽपि कः सूत्रार्थ इत्यत आत्मेतीति प्रतिज्ञांशं व्याख्याति(चष्टे) तस्मादिति ।
अनुव्याख्यानम्
तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा ॥
यस्मादात्मशब्दो विष्णुपरस्तस्मात् । अयं प्रतिज्ञार्थः । आत्मा विष्णुर् आत्मेति सज्जनैः सदा ज्ञातव्य उपास्यो ध्येयश्च ।
हेत्वंशं व्याचष्टे तथैवेति ।
अनुव्याख्यानम्
तथैवोपासते सन्तस्तथैवोपदिशन्ति च ॥
अनेनात्म(त्मेति)शब्दस्याऽऽवृत्तिस्तुशब्दश्चावधारणार्थ इत्युक्तं भवति । सतामेवोपासनोपदेशौ भाष्योदाहृताभ्यां श्रुतिभ्यां सिद्धौ । उपगच्छन्तीत्येतज्ज्ञानार्थमुपासनार्थं च । तत्र ज्ञानार्थत्वं स्पष्टमित्येक एवार्थो व्याख्यातः । अत एव प्राक् ज्ञातव्य उपास्यश्चेत्युक्तम् ।
वाक्यार्थचन्द्रिका
तस्मादित्यस्य यस्मादित्येतत्सापेक्षत्वात् ‘तस्मादात्मा जनार्दन’ इति पूर्ववाक्यार्थमेव हेतुतयाऽनुवदन्प्रतिज्ञाव्याख्यानपरतया भाष्यं योजयति यस्मादित्यादि । तस्मादित्यस्योपास्य इत्याद्युत्तरेण हेतुतयाऽन्वयानुपपत्तेर्योग्यं साध्यमध्याहरति अयं प्रतिज्ञार्थ इति । आत्मेतीति सौत्रप्रतिज्ञार्थ इत्यर्थः । तमेवोपदर्शयति आत्मेति सज्जनैः सदा ज्ञातव्य इत्यादि । यद्यापि कर्मण उक्तत्वेऽपि कर्तुरनुक्तत्वादनभिहिते कर्तरि कर्तुकरणयोस्तृतीयेति प्राप्तायास्तृतीयाया बाधेन कर्तृकर्मणोः कृतीति नित्यं प्राप्तया षष्ठ्या सज्जनानामिति षष्ठ्या भवितव्यम् । तथापि नित्यप्राप्ताया अपि कृद्योगलक्षणषष्ठ्या विकल्पार्थप्रवृत्ते कृत्यानां कर्तरि वेति सूत्रे कृद्योगे कर्तरि तृतीयाषष्ठ्योरुभयोरप्यभ्यनुज्ञानात्पक्षे तृतीयोपपत्तिरिति ज्ञेयम् । उपास्य इत्यस्यैव विवरणं ध्येय इति । आत्मेतीति प्रतिज्ञांशस्य प्राग्व्याख्यातत्वेन तदर्थत्वासम्भवात्तथैवेति भाष्यखण्डस्यासूत्रार्थकथनरूपतया प्रसक्ताभाष्यत्वशङ्कां तस्य सौत्रा‘त्मेति त्वि’ति हेतुशरीरप्रविष्टपदव्याख्यानतोपदर्शनेन परिहरति अनेनेति ॥ भाष्योदाहृताभ्यामिति । ‘नान्यं विचिन्तय आत्मानमेवाह विजानीयाम् आत्मानमुपासे’ ‘आत्मेत्येवोपास्व आत्मेत्येव विजानीहि’ इत्यादि श्रुतिभ्यामित्यर्थः । उपासत इत्यादिभाष्यानुसारेणोपगच्छन्तीति सौत्रपदस्योपासनामात्रार्थत्वभ्रान्तिं परिहरति उपगच्छन्तीत्येतदिति । तर्ह्युपासनस्येव ज्ञानस्यापि तदर्थतया भाष्ये वक्तव्यत्वान्नोपासनमात्रस्य तदर्थतयोक्तिर्युक्तेत्यतस्तदनुक्तेर्निमित्तं सूचयन्नेवैकार्थोक्तिं समर्थयते तत्रेति ॥ स्पष्टमिति । गत्यर्थानां ज्ञानार्थत्वादिति भावः । किमेवं क्लिष्टकल्पनया उपासत इति भाष्यस्वारस्यानुरोधेनोपगच्छन्तीति सौत्रपदस्योपासनामात्रार्थत्वमेव भाष्यकृत्सम्मतं किं न स्यादित्यतोऽर्थद्वयस्य भाष्यकृत्सम्मततामुपदर्शयति अत एवेति । सौत्रपदस्योपगच्छन्तीतिपदस्य ज्ञानोपासनरूपोभयार्थतायाः सम्मतत्वादेवेत्यर्थः ।
***परिमल ***
प्रतिज्ञांशमिति । आत्मेत्यंशमित्यर्थः । मूलं व्यत्यासेन योजयति ज्ञातव्य इति ॥ ध्येयश्चेति । सूत्रे शेषोक्तिरियम् ॥ हेत्वंशमिति । उपगच्छन्तीत्याद्यंशम् ।
यादुपत्यम्
अयं प्रतिज्ञार्थ इति । इत्ययं प्रतिज्ञार्थ इत्यन्वयः । मूले शेषोक्तिः । अन्यथा तस्मादित्यस्य साध्याप्रतीत्या ॥ स्पष्टमिति । गत्यर्थानां ज्ञानार्थत्वादिति भावः ।
वाक्यार्थरत्नमाला
सज्जनैर्ज्ञातव्य इत्यादीत्यादिपदेनोपास्य इत्येतस्य परिग्रहः । अत एव सामान्येन कर्मणो वचनाभिधानं यद्यपीति ग्रन्थे । ततश्च ज्ञातव्यम् इत्यादिपदद्वयेन कर्मण उक्तत्वेपीत्यर्थः । एतत् स्थलं……. पादीय इत्यनुव्याख्यानमूलटीकाप्रपञ्चावसरे विचारितप्रायं तत एव प्रतिपत्तव्यम् । षष्ट्येति । षष्ट्यां सत्यामित्यर्थः । षष्ट्येति । षष्ट्यन्तप्रयोगेणेत्यर्थः । अनेन धनेन धनवानयमित्यादाविव षष्टीप्रयुक्तत्व षष्ट्या इति च । षष्टीत्येतद्वितीयस्य भावेन पाठस्तु स्वरस एव । तथैवोपासत इत्यत्र तथैवेत्यस्यात्मत्वेनेति व्याख्यानमभिप्रेत्य तथैवेति भाष्यखण्डस्येत्युक्तम् । सौत्रात्मात्विति हेतुशरीरेति पाठः । आत्मतुशब्दयोरेव व्याख्यानात् । हेतुशरीरप्रविष्टेति । आवृत्याश्रयणाद्धेतुशरीरप्रविष्टत्वमिति ज्ञेयम् । आत्मानमेवाहं विजानीयामिति श्रुतिपाठः ।