०३ उत्तमानुष्ठितश्रवणाद्यावृत्तिनिरूपणम्

ॐ लिङ्गाच्च ॐ

उत्तमानुष्ठितश्रवणाद्यावृत्तिनिरूपणम्

ॐ लिङ्गाच्च ॐ

सुधा

अनेन श्रवणावृत्तेः कर्तव्यता सिद्धा । त्रयाणामप्यावृत्तिं साधयल्लिङ्गाच्चेति सूत्रं पठित्वा तदभिप्रेतानि लिङ्गान्यागमवाक्येनैव दर्शयति लिङ्गादित्यादिना ।

अनुव्याख्यानम्

ॐ लिङ्गाच्च ॐ

लिङ्गाल्लातव्यतः पूर्वमृजोर्ब्रह्मत्वतः शतात् ॥

शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः ॥

सार्धं परार्धं विष्णोस्तु गुणान्भक्त्या सदोद्यतः ॥

तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः ॥

लातव्य आदातव्यः शिष्यैरुपासितव्यः । तस्मात् । ब्रह्मत्वत इति षष्ठीबहुवचनांतात्तसिः । ब्रह्मत्वानां शतात्पूर्वमिति ऋजोर्विणम् । यस्यैतस्माद्ब्रह्मकल्पादारभ्य ब्रह्मकल्पानां शते गते ब्रह्मत्वं भविष्यति तस्मादिति यावत् । सार्धं परार्धमित्यत्यन्तसंयोगे द्वितीया ॥ तत्त्रिभागं तस्य श्रवणकालस्य, तृतीयभागं कालम् । उपासां मनननिधिध्यासनरूपाम् । सम्भृतमानस इति उपासितव्य एवार्थे धृतचित्तः ।

अनुव्याख्यानम्

दशमन्वन्तरं शक्रपदयोग्यो गरुन्मतः ।

पदयोग्यात्सुमनसःसुनन्दो नाम चाृणोत् ।

उपासां चक्र उद्युक्तो मन्वन्तरचतुष्टयम् ।

सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ।

सुरूपः शान्तरूपश्च मन्वन्तरचतुष्टयम् ।

अृण्वतां सुमनसो मन्वन्तरमुपासताम् ।

ततः प्रोक्तास्तु ते सर्वे भक्त्योग्रतपआदयः ।

अपश्यन्परमं विष्णुं तत्प्रसादैधिताः सदा ।

इत्युक्तं विष्णुना साक्षाद्ग्रन्थे सत्तत्त्वसंज्ञिते ॥

दश मन्वन्तराणि यस्मिन्काले स तथोक्तः ॥ गरुत्मतः पदयोग्यादिति । गरुत्मतो यत्पदं तत्र योग्यादित्यर्थः । सुतेजसावेव सुप्रज्ञावेव न तु मन्दौ । अृण्वताम् अृणुताम् । व्यत्ययो बहुलमिति द्विविकरणता । सुमनस एव । मन्वन्तरं मन्वन्तरावच्छिन्नं कालम् । उपासतामुपासाताम् । धान्दसो वर्णविकारः ।

नन्वत्र श्रवणादिकालबाहुल्यमेव प्रतीयते । न पुनरावृत्तिः । श्रुतस्यैव वाक्यस्य पुनः श्रवणमित्यादिरूपा हि सेति । मैवम् । एकेन वाक्येनावगतस्य तत्त्वस्य पुनः पुनस्तेनान्येन वा अवगतिः श्रवणावृत्तिः । एवमेकया युक्त्याऽनुसंहितस्य भूयो भूयस् तयाऽन्यया वाऽनुसन्धानं मननावृत्तिरित्यभिप्रेतत्वात् ।

नन्वेवं चेत्सर्ववेदान्तप्रत्ययमित्यनेनैव गतमेमत् । सत्यम् । तस्यैवात्यन्तावश्यकत्वप्रदर्शनाय पुनरारम्भ इत्युक्तमेव एवमुत्तरत्रापि द्रष्टव्यम् ॥ ४११ ॥

वाक्यार्थचन्द्रिका

लिङ्गानीति । उग्रतपःप्रभृतिभिरावर्त्यमानत्वरूपाणीत्यर्थः ॥ लातव्य इति । लातव्यनामेत्यर्थः । कथं तस्य नामत्वमित्यतो योगेन तदुपपादयति आदातव्य इति । ला आदान इतिधातोरिति भावः । तत्त्वं चोपास्यतयेत्यभिप्रेत्य तद् व्याचष्टे शिष्यैरुग्रतपःप्रभृतिभिरुपासितव्य इति ॥ बहुवचनान्तात्तसिरिति । आद्यादिभ्य उपसङ्ख्यानादिति भाव ॥ शतादिति । एकोनशतादित्यर्थः । ऋजोर्विणमिति । ततश्च पूर्वमित्येतत्पूर्वादिति व्याख्येयमित्युक्तं भवति । ब्रह्मत्वतः शतात्पूर्वमित्युक्तमेव विवृणोति यस्येति ॥ शते गत इति । एकोनशते गत इत्यर्थः । एकोनशते ब्रह्मस्वतीतेष्विति सन्न्यायरत्नावल्यनुसारात् सार्धं परार्धमित्यस्यायमर्थः । एकोनशतब्रह्ममहाकल्पेभ्यः पूर्वं महाकल्पस्यादिमारभ्य ब्रह्ममानपरिगणितपञ्चसप्ततिवत्सरकालमिति । नन्वधिकरणत्वादधिकरणे सप्तमीति सप्तम्या भवितव्यं सार्धं परार्धमिति द्वितीया तु कथमित्यत आह अत्यन्तसंयोगे इति । अन्तः विरामः । अतिक्रान्तोऽन्तोऽत्यन्तः । स चासौ संयोगश्चेत्यत्यन्तसंयोगो निरन्तरसन्निकर्ष इति यावत् । तत्र द्वितीयेत्यर्थः । ‘कालाध्वनोरत्यन्तसंयोग’ इति स्मरणादिति भावः ।

तृतीयभागं कालमिति । ब्रह्ममानपरिगणितपञ्चविंशतिसंवत्सरकालमित्यर्थः ॥ मनननिदिध्यासनरूपामिति । सोपासना च द्विविधेत्याद्यनुसारेणोपासनाशब्दस्य श्रवणादित्रितयपरत्वेऽपि शुश्रावेति श्रवणस्यात्र पृथगुपादानादुभयमात्रपरतया व्याख्यातमिति ध्येयम् । विषयानुक्तेस्तं दर्शयन्व्याचष्टे सम्भृतेति । दशमन्वन्तराणि समाहृतानीति समाहृतप्रधानद्विगुपक्षे, दशानां मन्वन्तराणां समाहार इति समाहारप्रधानद्विगुपक्षे वा कालालाभाद्बहुव्रीहिमाश्रित्य तल्लाभं दर्शयति दशेति । गरुत्मतःपदयोग्यादिति समानाधिकरणे पञ्चम्याविति भ्रमनिरासायाह गरुत्मत इति । देवदत्तस्य गुरुकुलमित्यादाविव नित्यसापेक्षत्वात्समास इति हृदयम् । सूर्याचन्द्रमसोश्चैवेत्यत्र विरुद्धार्थयोश्चैवशब्दयोरेकत्र सम्बन्धानुपपत्तेश्चशब्दस्य यथाश्रुतसम्बन्धमङ्गीकृत्यैवशब्दं भिन्नक्रमतया योजयति सुतेजसावेवेति । अत्रापि किं तेनेत्यतस्तद्व्यावर्त्यमाह न त्विति । ननु श्रु श्रवण इत्यस्माल्लङि प्रथमपुरुषद्विवचने तसि श्रुवः ृचेति श्नुप्रत्यये ृभावे च सति अपित्वात्सार्वधातुकमपिदिति श्नोर्ङित्वाद् गुणाभावे शकारलोपे णत्वे च सति पूर्ववत्तसोर्ङित्वात् श्नोर्गुणाभावेऽडागमे तसस्तामादेशे अृणुतामित्येव भवितव्यम् । तत्कथमृण्वतामित्युक्तमित्यत आह व्यत्यय इति । व्यत्ययो बहुलमित्यस्मिन्सूत्रे छन्दसि शानजपीति पूर्वसूत्राच् छन्दस्यपीत्यस्यानुवृत्तौ सत्यां छन्दसि व्यत्ययो भवति । अपिशब्दाद्यथाप्राप्तं चेत्येतावन्मात्रेणेष्टसिध्या बहुलग्रहणवैयर्थ्यमाशङ्क्य बव्हर्थादानप्रवृत्तिनिमित्तकबहुलग्रहणस्य प्रकृताप्रकृतसर्वाभिविधिव्यत्ययलक्षणव्यभिचारार्थताया आश्रितत्वा‘दितिहासः पुराणः पञ्चमो वेदानां वेद’ इति वेदेनैव सत्तत्त्वस्यापि छन्दस्त्वस्थित्या तद्बलेन द्विविकरणत्वस्यापि प्राप्त्या श्नोरनन्तरं तौदादिकस्य शस्यापि प्राप्तौ तस्य ङित्वाद् गुणासम्भवेन यणादंशे सति अृण्वतामित्यस्यापि छन्दस्त्वादुपपत्तिरिति भावः । सूर्याचन्द्रमसोश्चैवेत्येवशब्दस्य सुमनस इत्यनेनापि सम्बन्ध इत्याशयेनाह सुमनस एवेति । ननु सुरूपशान्तरूपयोर्द्वित्वादुपपूर्वादास्तेर्लङात्मनेपदप्रथमपुरुषद्विवचने आतामि उपासातामिति द्विवचनेन भवितव्यम् । तत्कथमुपासतामित्यागमवाक्ये ह्रस्व इत्यत आह छान्दस इति । दीर्घस्य ह्रस्वत्वलक्षण इत्यर्थः । इत्यादीत्यादिपदेनानुसंहिताया युक्तेः पुनरनुसन्धानरूपमननावृत्तिपरिग्रहः ।

नन्विति । तत्र श्रवणाद्यावृत्तेः कर्तव्यत्वसिद्देरिति भावः ॥ उक्तमेवेति । ‘वितो नित्यशः कार्यमत्यन्तमवश्यम्भावी’त्यादिनेति शेषः ॥ ४११ ॥

***परिमल ***

लातव्य इत्यनुवादः । आदातव्य इति व्याख्या । ला आदान इति धातोरिति भावः । उपासितव्य इति फलितोक्तिः ॥ ऋजोर्विणमिति । ब्रह्मत्वानां शतात्पूर्वं विद्यमानो यो ब्रह्मपदयोग्य ऋजुः (लातव्य इति नामा)तस्मात् शुश्राव रुद्रपदयोग्य इत्येवमर्थ इति भावः ॥ अत्यन्तसंयोग इति । ‘कालाध्वनोरत्यन्तसंयोग’ इति सूत्रम् अत्यन्तसंयोगविषये द्वितीया भवतीत्यर्थः । तथाच सार्धं परार्धं ब्रह्मणः पञ्चसप्ततिवर्षमध्ये एकदिनमपि श्रवणशून्यमकृत्वा प्रतिदिनं शुश्रावेत्यर्थः । पदविणत्वाप्रतीतेराह गरुत्मतो यत्पदमिति । नित्यसापेक्षत्वात्समास इति भावः । एवमव्याख्याने हि पदेत्यस्य कस्य पदेत्याकाङ्क्षा न शान्ता स्यादिति ज्ञेयम् ॥ द्विविकरणतेति । श्रु श्रवण इत्यस्य श्नुविकरणे कृते पश्चात्तुदादिभ्यश्श इत्युक्तशविकरणमपि कार्यम् । पश्चाद्यणादेशेऽृण्वतामिति छान्दसं रूपमित्यर्थः शब्विकरणे हि गुणावादेशौ प्राप्नुतः ॥ वर्णविकार इति । ह्रस्वरूपो विकार इत्यर्थः ॥ इत्यनेनैव गतमिति । तत्रैकत्रोक्तं गुणानां केषाञ्चिच्छाखान्तरेऽपि श्रवणादेकस्यामपि केषाञ्चित्पुनः पुनः श्रवणादिति भावः ॥ ४११ ॥

यादुपत्यम्

ऋजोर्विणमिति । ततश्च पूर्वमित्यस्यानन्तरं विद्यमानादिति इति भावः ॥ मननध्यानरूपामिति । ‘सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी । ध्यानरूपा परे’त्युक्तत्वादिति भावः । सामानाधिकरण्यभ्रमं वारयितुमाह गरुत्मतो यत्पदमित्यादि । ततश्च नित्यसापेक्षत्वात्समास इति भावः । ननु श्रु श्रवण इति धातोः श्रुवः ृचेति श्नुप्रत्यये ृभावे च सति श्नोर्ङित्वाद्गुणाभावे शकारलोपे णत्वे अडागमे तसस्तामादेशे अश्रुणुतामित्येवंरूपेण भाव्यं कथमृण्वतामिति रूपमित्यत आह व्यत्ययो बहुलमिति । यथायथं विकरणप्रत्यया शबादयो विहितास्तेषां छन्दसि विषये बहुलं व्यत्ययो भवतीति सूत्रार्थः । एवं चात्र श्नुप्रत्ययानन्तरं शपोपि प्राप्तौ यणादेशेऽृण्वतामित्यपि रूपं छन्दस्त्वादुपपन्नमिति भावः ॥ ४११ ॥

श्रीनिवासतीर्थीया

ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥ ऋजोर्विणमिति । ब्रह्मत्वानां शतात्पूर्वं विद्यमानादृजोर्लातव्यत इत्यर्थो द्रष्टव्यः । एतद्विवृणोति यस्यैतस्मादिति । अपरोक्षज्ञानाधिकरणादित्यर्थः । यस्मिन्कल्पेऽपरोक्षज्ञानं जातमिति यावत् । तथा च यस्मिन्कल्पेऽपरोक्षज्ञानं जातं तदारभ्य शतब्रह्मकल्पानन्तरं ब्रह्मत्वं भवति । अत एव ‘स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिञ्चतामेती’त्यस्यापि स्वधर्मनिष्ठः पुमान् अपरोक्षज्ञानीति यावत् । सः शतजन्मभिर् अपरोक्षज्ञानाधिकरणभूतब्रह्मकल्पसाहित्येन शतजन्मभिः शतब्रह्मकल्पानन्तरं विरिञ्चतामेतीति द्रष्टव्यम् ॥ वर्णविकार इति । आकारस्य अकारत्वेन विपरिणाम इत्यर्थः ॥ सूर्याचन्द्रमसोश्चैवेत्यत्रत्यैवकारस्य सुतेजसावित्यनेन सम्बन्धमुक्त्वा सुमनस इत्यनेनापि सम्बन्ध इत्याह सुमनस एवेति । न त्वन्येनेत्यर्थः । ननु श्रवणावृत्तिर्नाम येनैकेन वाक्येन तत्त्वमवगतं तस्यैव तत्त्वस्य पुन पुनस्तेनैव वाक्येनावगतिः । यथा स य एषोऽणिमेत्यादि । मननावृत्तिर्नाम यया एकया युक्या तत्त्वमनुसंहितं तयैव युक्या तस्यैव भूयो भूयोऽनुसन्धानम् । न ह्येतादृशी श्रवणाद्यावृत्तिः प्रकृते वक्तुं शक्यते । सार्धपरार्धादिकालपर्यन्तमेकेनैव वाक्येन तस्यैव तत्त्वस्य श्रवणेऽसुज्ञत्वप्राप्तेः । तत्त्रिभागकालपर्यन्तं तस्यैव तत्त्वस्य तयैव युक्त्यानुसन्धानकरणेऽपि तथा । अतः श्रवणाद्यावृत्तिमन्याथाप्याचष्टे एकेन वाक्येनेत्यादिना ॥ अन्येन वा वाक्येन । अनुसंहितस्य तत्त्वस्य । तया अन्यया वेति । युक्त्येत्यर्थः । तथा च बहुकालं तस्यैव तत्त्वस्य वाक्यान्तरेण श्रवणे, युक्त्यन्तरेणानुसन्धाने च विशेषावगतिसम्भवादिति भावः ॥ सर्ववेदान्तेति । ‘सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी’ इत्येव शास्त्राभ्यासरूपश्रवणमननरूपोपासनायाः कर्तव्यत्वस्य तत्रैवोक्तत्वादिति भावः ॥ ४११ ॥

वाक्यार्थरत्नमाला

उग्रतपःप्रभृतिभिरित्यादि सन्यायरत्नावल्यनुसारेणाह । उग्रतपःप्रभृतिरिति । तदनुसारेणैव व्याख्यातं लातव्यनामेति । तदनुसारेणैवैकोनशतादिति व्याख्यानम् । आद्यादिभ्य इति । एतदसकृदावेदितम् । पूर्वमित्येत्पूर्वस्मादिति व्याख्येयमिति मूलकोशे पाठः । पूर्वादिति पाठे पूर्वादिभ्यो नवभ्यो वेति विकल्पेन स्मादेशविधानादत्र तदादेशोपपत्तिरिति ज्ञेयम् । सन्यायरत्नावल्यनुसारादिति । लातव्यनामर्जुरेकोनेति तद्वाक्यं लिङ्गाल्लातव्यत इत्येतदनुव्याख्याव्याख्यायामस्तीत्याशयः । तदनुसारेणैव सार्धं परार्धमित्यस्यार्थाभिधानमेकोनशतेत्यादि कालमितीत्यन्तम् । एवमुत्तरत्रापि तत्र तत्र दशकल्पं तप इति ज्ञानपादीयानुभाष्यव्याख्यानमूलटीकायां विस्तृतं प्रकारमनुरुध्याह । अन्त विराम इति । मासमधीते इत्याद्युदाहरणं व्याख्यानमिति पाठः । द्विगुपक्षे वेति । एतद्वयपक्षविचारस्त्वन्योप्यल्पमतिः शाखाचतुःपञ्चेत्युपासनापादीयभाष्यमूलटीकाप्रपञ्चानुसारेण ज्ञेयः ।

भ्रमनिरासायेति । गरुत्मत इत्यस्य भिन्नपदतया पदपदेनान्वयायोग इति भवति भ्रान्तिः । परिहारेतु पदपदेन सम्बन्धाभिप्रायवर्णनाद्युक्तस्तन्निरास इति भावः । तथा सति सापेक्षयैकस्यैव पदपदस्य प्रधनात्वे कार्याभावयोः प्राप्त्या तयोश्चैकस्मिन्नन्योन्यसापेक्षसमर्थमिति न्यायावतारेण समासायोग इत्यत आह । देवदत्तस्येति । विस्तृतं चैतत्प्रागेव । गुणाभाव इति । ङिति चेति सूत्रेण त्किङिन्निमित्तगुणनिषेधादिति भावः । पूर्ववदिति । अपित्सार्वधातुकत्वेनेत्यर्थः । सर्वाभिविधीति । एकविकरणोत्पत्यनन्तरं तद्विकरणान्ताद्धातोर्विकरणान्तरासम्भवस्यापि विधानात्तद्-व्यभिचारोप्यनेन लब्ध इत्याशयः । द्विविकरणत्वस्यापीत्यत्र धातोरिति शेषः । इन्द्रोवस्तेन नेषतु इत्यत्र नेषत्वित्यत्र शप्सियौ विकरणौ । समर्यजिद्वाजो अस्मांति अवष्विति प्रथमस्य सप्तमेचावतेर्लोटि सियोपि प्रवृत्तेः । इन्द्रेण युजा तरुषेमवृत्रमिति पञ्चमाष्टकचतुर्थे तरुषेमेत्यत्र तटतेरुर्विकरणः शप्सियौ त्रेमिति व्यत्ययो बहुलमित्येतत्सूत्रसिद्धान्तो रमायां स्पष्टम् । गुणभावोपपत्यर्थं शप्परित्यागेन शाश्रयणमिति दर्शयताऽन्यथाख्यातिरयुक्तेति सूचितम् । मूले सुमनस एवेति सम्बन्धप्रदर्शनेन पूर्ववद्गुणभेदो नास्तीति स्पष्टितं भवति । आतामीत्यनन्तरं सतीति पूरणीयम् । ताविति रूपादेर्ग्रहणम् । परिग्रह इति । उत्तरस्य द्वयस्यैव व्याख्यानादत्र द्वयमेवाभिधित्सितमित्याशयेनादिपदेनैकस्यैव परिग्रहो वर्णितः । उपलक्षणतया मूलटीकयोर्ध्यानेऽप्येवंभावाकल्पनं त्वसम्भवादिति ध्येयम् । मूले एवमुत्तरत्रापीति । उत्तराधिकरणेष्वपि गतार्थतापरिहारो वित इत्यादित्या कर्तव्य इत्यर्थः ॥

॥ इति आवृत्त्यधिकरणम् ॥