०२ श्रवणादेरावृत्तिः कार्या

ॐ आवृत्तिरसकृदुपदेशात् ॐ

श्रवणादेरावृत्तिः कार्या

ॐ आवृत्तिरसकृदुपदेशात् ॐ

सुधा

ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥ अधिकरणोत्थानकारणं दर्शयति श्रवणादीति ।

अनुव्याख्यानम्

ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥

……. ……. श्रवणादिसकृत्क्रिया ॥

आवृत्तिर्वेति सन्देहे ……. …….

प्रथमं तत्रेति वर्तते । श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति दर्शनार्थं श्रवणादिकं विधीयते । तस्य श्रवणादेर्ज्योतिष्टोमादिवत्सकृत्क्रिया वा व्रीह्यवघातादिवदावृत्तिर्वेति सन्देहे सति । उपलक्षणमेतत् । सकृत्क्रियेति पूर्वपक्षे च सतीत्यपि ग्राह्यम् । इदमधिकरणमारभ्यत इति शेषः । पूर्वपक्षबीजं च न्यायविवरणे स्पष्टमवगन्तव्यम् ।

सूत्रं व्याख्याति कर्तव्येति ।

अनुव्याख्यानम्

……. …….. कर्तव्याऽऽवृत्तिरेव हि ॥

उपदेशोऽतत्त्वमसीत्यादिर्ह्यसकृदेव यत् ॥

श्रवणादीनामिति वर्तते । हिशब्दो तत्त्वमसीत्युपदेशस्य प्रसिद्धत्वं द्योतयति । यदि हि शिष्येणावृत्तिर्न कर्तव्या तदा गुरोरसकृदुपदेशोऽनर्थकः स्यात् । तेन ज्ञायते कर्तव्या श्रवणावृत्तिरिति ।

वाक्यार्थचन्द्रिका

ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥ उत्थानकारणमिति । विषयादिकमित्यर्थः । श्रवणादेः कर्तव्यत्वासिद्धौ सकृत्कर्तव्यत्वासकृत्कर्तव्यत्वादिविविचारानुपपत्तेस् तदुपपत्त्यर्थं विषयवाक्योदाहरणेन तत्कर्तव्यत्वसिद्धिं दर्शयति श्रोतव्य इति । ननु सूत्रावतारिकारूपपूर्वपक्षस्यैव सिद्धान्तसूत्रप्रापकत्वात्तदनुक्तौ कथं सन्देहोपदर्शनमात्रेण सिद्धान्तसूत्रप्रवृत्तिरित्यतः पूर्वपक्षोपलक्षणतया सन्देहभाष्यं व्याचष्टे उपलक्षणमेतदिति ॥ न्यायविवरण इति । ‘श्रवणाद्यानवृत्त्याऽपरोक्षज्ञानोदये सर्वेषां सुशक्यत्वमिति गुण’ इति न्यायविवरणे सुशक्यत्वरूपं पूर्वपक्षसाधकं स्पष्टमित्यर्थः ॥ वर्तते इति । यद्यपि श्रवणादीनामिति न पूर्वं श्रूयते यच्च श्रवणादीति श्रुतं तदपि सकृत्क्रियेत्यनेन समस्तं नात्रान्वेतुमर्हति । तथाऽपि समासे गुणभूतस्य तस्य बुध्या विवेकेनेयमनुवृत्तिरिति ध्येयम् ॥ हिशब्द इति । उपदेशोऽतत्त्वमसीत्येतद्वाक्यगत इत्यर्थः । अप्रयोजकत्वं परिहरति यदि हीति । आद्यो हिशब्दो हेत्वर्थ इत्याशयेनाह तेनेति । ज्ञापकश्चायमर्थो न कारक इत्याशयेनाह ज्ञायत इति ।

***परिमल ***

ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥ उत्थानकारणमिति । अवतारिकारूपं सूत्रव्यावर्त्यसंशयादिकं दर्शयतीत्यर्थः ॥ इति वर्तत इति । पूर्वं तत्रेत्यस्य चतुर्थाध्याये प्रथमपाद इति प्रथममित्यस्य तदधिगम इत्यर्थतः पूर्वं कैश्चित्सूत्रैरिति व्याख्यानाद् इह च साधनविचाररूपसूत्रेषु प्रथममित्यर्थकतया पदद्वयमावर्तनीयमित्यर्थः । श्रुत्यर्थनिर्णायकत्वलाभायाह श्रोतव्य इत्यादि विधीयत इत्यन्तम् । ज्योतिष्टोमादिदृष्टान्तोक्तोभयविधसाधनदर्शनं संशयबीजमुक्तं भवति । न्यायविवरण इति । श्रवणाद्यनावृत्त्याऽपरोक्षज्ञानोदये सर्वेषां सुशकत्वमिति गुण इत्युक्तसु(खकरत्वयुक्तिरित्य)शकत्वयुक्तिरित्यर्थः । तद्विवरणं च भाष्यटीकायामित्यर्थः ॥ इति वर्तत इति । बुद्ध्या विभज्य विपरिणम्य वर्तत इत्यर्थः ।

यादुपत्यम्

ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥ उत्थानकारणमिति । संशयादिकमित्यर्थः । न्यायविवरण इति । ‘श्रवणाद्यनाववृत्त्यापरोक्षज्ञानोदये सर्वेषां सुशक्यत्वमिति गुण’ इत्यनेनेति शेषः ।

वाक्यार्थरत्नमाला

ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥ विचारानुपपत्तेरिति । तदवकाशाभावादित्यर्थः । कर्तव्यत्वसिद्धिं दर्शयतीति । सिद्धिप्रदर्शनपूर्वकं विविचारावकाशं घटयतीत्यर्थः । पूर्वपक्षोपलक्षणतयेति । विपर्ययरूपपूर्वपक्षस्योपलक्षणे च मिथ्याज्ञानत्वसाम्यादिति नियामकं कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशय इत्येतत्तार्तीयानुव्याख्याव्याख्यावसरे मूलेऽभिहितं ज्ञेयमित्याहुः । तन्न । तत्र पक्षे संशयानुक्तिं सोढ्वैव पूर्वपक्षपरतया उक्तत्वेनात्र च संशयपूर्वकपूर्वपक्षे चेत्यर्थस्य चशब्देनोक्ततया तार्तीयमूलगतप्रथमपक्षाश्रयणायोगात् । किंतु तत्रत्यद्वितीयपक्षाश्रयणमेवात्राभिमतम् । तथासत्येव संशयपूर्वकपूर्वपक्षनिरासार्थमधिकरणारम्भविशिष्टार्थप्रतिपादनलाभात् । पूर्वपक्षेच सतीति चशब्दस्वारस्याच्चेति ज्ञेयम् । तार्तीयटीकायामध्याहरतीत्युक्तिरपि तद्-व्याख्यानावसर एवोपलक्षणार्थतया व्याख्याता । तत्राध्याहारेण व्याख्यानमत्र तूपलक्षणया उपलक्षणमेतदिति स्पष्टमुक्तेः । तथा च प्रकारान्तरत्वे आश्रयितव्येऽध्याहरतीति तथा श्रुतमेव चेति न कश्चित् क्षुद्रोपद्रवः । अजहस्त्वार्थलक्षणाभिप्रायकमेवोपलक्षणमित्यपि उपशब्दचशब्दाभ्यां सूचितं मूले । अनुवृत्तिरितीति । अनुवृत्युक्तिरित्यर्थः । तथैव पाठस्तु स्वरस एव । आवृत्तिरेव हीतिशब्दस्योत्तरत्र तेनेति व्याख्यास्यमानत्वादुपदेश इति वाक्यगतस्य हेत्वर्थतायास्तदर्थकतयच्छब्दसद्भावेनायोगात्तस्यैव मूले प्रसिध्यर्थत्वाभिधानमित्याह । उपदेशोऽतत्वमसीत्येतद्वाक्येति । नकारक इति । गुरोरिति सकृदुपदेशस्य श्रवणावृत्तिकर्तव्यत्वज्ञापकहेतुत्वेऽपि कर्तव्यत्वे वादकत्वरूपतत्कारकत्वाभावादित्यर्थः ।