०१ फलाध्यायस्य सङ्गतिनिरूपणम्

समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने

अथ चतुर्थाध्यायस्य प्रथमः पादः

अथ आवृत्त्यधिकरणम्

॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥

श्रीमज् जयतीर्थ (टीकाकृत्पादाचार्य) विरचिता

सनाभिर्

न्यायसुधा

षट्टिप्पणीसमेता

अथ चतुर्थाध्यायस्य प्रथमः पादः

अथ आवृत्त्यधिकरणम्

फलाध्यायस्य सङ्गतिनिरूपणम्

समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने

सुधा

यदीयचरणांभोजच्छायामाश्रित्य निर्वृताः ॥

नन्दन्ति सततं मुक्ताः संश्रये तं श्रियः पतिम् ॥ १ ॥

फलं निगद्यतेऽस्मिन्नध्याय इति भाष्यम् । फलनिरूपणस्येदानीं का सङ्गतिरित्यत आह समन्वयेति ।

अनुव्याख्यानम्

समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने ॥

विचारितेष्वशेषेषु साधनेषु, वितः ॥**

नित्यशः कार्यमत्यन्तमवश्यंभावि साधनम् ॥

चिन्त्यते प्रथमं तत्र …… ……. …….

समन्वयाविरोधाभ्यां प्रथमद्वितीयाध्यायप्रतिपादिताभ्यां, परब्रह्मादिरूपे वस्तुनि सिद्धे सति, साधने साधनविषये तृतीयाध्याये, अशेषेषु मोक्षसाधनेषु, विचारितेषु सत्सु, फलप्रतिपादनस्यावसरप्राप्तिः । जिज्ञासितेष्वर्थेष्वन्येषां विचारितत्वादस्यैवावशिष्टत्वात् । अतो मोक्षलक्षणं फलमत्राध्याये निगद्यते इति वाक्यशेषः ।

पादचतुष्टयप्रतिपाद्यं सङ्गतिं च लाघवायैकत्रैव वक्ष्यति । ततश्च फलविषयेऽस्मिन्नध्याये कर्मनाशाख्यं फलं प्रथमपादे निगद्यत इत्युक्तं भवति । तस्यापवादमाह वित इति । तत्र (अत्र) चतुर्थस्य प्रथमपादे, प्रथमं कैश्चित्सूत्रैः, साधनमेव चिन्त्यते । कथम् । वितः परमादरेण, नित्यशो नैरन्तर्येण च कार्यमिति । कुतः । यतो मोक्षसिद्धावत्यन्तमवश्यंभावि ।

इदमुक्तं भवति । तृतीये अध्याये यानि साधनानि विचारितानि तेष्वेव केषाञ्चित्परमादरनैरन्तर्याभ्यामनुष्ठेयत्वमत्रादौ प्रतिपाद्यते । तथाऽनुष्ठान एव मोक्षस्य भावादन्यथाऽभावात् । एतज्ज्ञापना(यैव)य तृतीये इदमनुक्त्वाऽत्रेदमुच्यते । तत्रानुक्तया हि ततो वैलक्षण्यं ज्ञायते । फललक्षणे चोक्त्या फलान्तरङ्गत्वम् । अध्यायादिव्यवस्था च प्रायिकत्वादुपपद्यत इति ॥

वाक्यार्थचन्द्रिका

सर्वाभीष्टप्रदं रामं सर्वानिष्टविनाशकम् ।

जानकीजानिमनिशं वन्दे मद्गुरुवन्दितम् ॥ १ ॥

वेदव्यासं तथानन्दतीर्थं जयमुनिं गुरुम् ।

व्यासतीर्थं गुरून्साक्षादभिवन्द्य यथामति ॥ २ ॥

सुधाया भावगूढायास्तुरीयाध्यायपञ्चिका ।

प्रकाश्यते केशवेन गुरुराजोक्तमार्गतः ॥ ३ ॥

यद्विद्याधीशगुरोः शुश्रूषाऽन्या न रोचते तस्मात् ।

अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ॥ ४ ॥

एतदध्यायगतपादप्रतिपाद्यगुणविशिष्टभगवत्स्तुतिपूर्वकं तत्संश्रयणरूपं मङ्गलमाचरति यदीयेति । मुक्ता भगवज्ज्ञानभोगाभ्यां निवृत्तसमस्तानिष्टकर्माणस्तथा मुक्ताः स्वोत्तमप्रवेशेन ब्रह्मनाड्योत्क्रमेण वा परित्यक्तदेहाः स्वोचितेनार्चिरादिना वा पथा वैकुण्ठलोकवासिभगवच्चरणाम्भोजच्छायां, आश्रित्य हिरण्यगर्भेण सह प्राप्य, मुक्ता भिन्नलिङ्गशरीरास्तथा मुक्ता विध्वस्तप्रकृतयस्तथा मुक्ता अत्यन्तनिवृत्तानिष्टास्तथा मुक्ता अपसृतेश्वरेच्छावरणास्तत एव निर्वृताः सम्यगाविर्भूतानन्दादिगुणा यदीयचरणाम्भोजच्छायामाश्रित्य भगवत्समीप एव तमुपासीना इति यावन् नन्दन्ति स्वरूपेण वा लीलागृहीतविग्रहैर्वा सङ्कल्पमात्रसाध्यान् दिव्यान्भोगांस्तारतम्येन सततं भुञ्जते । न कदाचित्पुनरावर्तन्त इति यावत् । सकलवाङ्मनसदेवतायाः श्रीदेव्याः पतिमहं संश्रय इति योजना । त्यदादीनि चेति वृद्धसंज्ञायां वृद्धाच्छ इति यद् शब्दात् शैषिके छप्रत्यये तस्य ईयादेशे यदीयेति रूपसिद्धिः । छायान्तत्वेऽपि तत्पुरुषस्य पूर्वपदार्थबाहुल्यस्यागम्यमानत्वेन नपुंसकत्वाप्राप्तेर्यदीयचरणाम्भोजच्छायामित्येतत्साधु । नन्वेकवाक्यत्वादिसिद्धयेऽध्यायप्रतिपाद्यस्यावश्यं वक्तव्यत्वात्तदनुक्तिर्दोष इत्यतस्तस्य भाष्य एव प्रतिपादनात्तदनुक्तिर्न दोषायेत्यभिप्रेत्य तत्रानुक्तसङ्गतिप्रदर्शकतयोत्तरग्रन्थमवतारयितुमध्यायप्रतिपाद्यप्रदर्शनपरभाष्यमनूद्य सङ्गतिशङ्कामुत्थापयति फलमिति ।

मूले विचारितेष्वित्यतःपरमवसरप्राप्तं मोक्षलक्षणं फलमत्र निगद्यत इत्यपेक्षितपूरणेन साकाङ्क्षत्वप्रयुक्तवाक्याभासतां परिहरन् फलनिरूपणस्यावसरप्राप्ततां चोपपादयन् समन्वयेत्यादिग्रन्थं व्याचष्टे समन्वयेति । मूले समन्वयाविरोधाभ्यामिति तदर्थयोरध्याययोरुपलक्षणमिति भावेन लक्षणाबीजसम्बन्धं दर्शयति प्रथमेति ॥ सिद्ध इति । अजगत्कर्तृत्वनिर्दोषासद्गुणत्वरूपलक्षणविशिष्टतया निर्णीत इत्यर्थः । टीकायां ब्रह्मरूपे वस्तुनीति स्वरसः पाठः । तार्तीयटीकाग्रन्थानुसारात् ॥ सतीति । अनेन सिद्ध इति सति सप्तमीत्युक्तं भवति साधनविषये तृतीयेऽध्याय इति । अनेन मूले साधनशब्दस्तत्प्रतिपादकाध्यायोपलक्षक इत्युक्तं भवति ॥ जिज्ञासितेष्विति । जिज्ञास्यत्वेन प्रथमसूत्रप्रतिज्ञातस्वरूपसाधनफलेष्वित्यर्थः । न च ब्रह्मजिज्ञासेति कर्मषष्ठीपरिग्रहेण स्वरूपस्य जिज्ञास्यत्वप्रतिज्ञासिद्धावपि साधनफलयोः कथं तत्सिद्धिरिति वाच्यम् प्रधानभूतब्रह्मवाचकेन ब्रह्मपदेनाप्रधानसाधनफलयोरुपलक्षणस्याङ्गीकृतत्वेन तदुपपत्तेः । अन्येषामिति । स्वरूपसाधनानामित्यर्थः । तद्विचारस्य पूर्वकर्तव्यतायाश्च जन्मादिसूत्रोक्तहेतुरवधेयः ।

नन्वेवमस्याध्यायस्य फलरूपैकार्थप्रतिपादकत्वेनैकवाक्यत्वात्कथं पादभेद इत्यतः फलेऽप्यवान्तरभेदात्तत्प्रतिपादकतया युक्तः पादभेद इत्यभिप्रेत्य तथाप्येकवाक्यत्वादिसिद्धय एतत्पादप्रतिपाद्यस्य तत्सङ्गतेश्चावश्यं वक्तव्यत्वात्तदनुक्त्या भाष्यन्यूनत्वमेवेत्यत एतदध्यायगतपादचतुष्टयप्रतिपाद्यतत्सङ्गतिप्रतिपादकोत्तरग्रन्थेनैवैतत्पादप्रतिपाद्यतत्सङ्गत्योरपि सिद्धत्वान्न तदनुक्तिर्भाष्यन्यूनत्वापादिकेत्याशयवान् भाष्ये तदनुक्तौ निमित्तकथनपूर्वकमुत्तरग्रन्थानुसारेणैतत्पादप्रतिपाद्यतत्सङ्गती लाघवाय दर्शयति पादचतुष्टयेत्यादिनोक्तं भवतीत्यन्तेन । कर्मक्षयोत्क्रान्तिमार्गभोगरूपमित्यर्थः । सङ्गतिम् अन्तर्भावलक्षणामानन्तर्यलक्षणां चेत्यर्थः । एकीकृत्य पादचतुष्टयप्रतिपाद्यतत्सङ्गत्योरेकत्र कथने निमित्तमाह लाघवायेति । एकत्रैव अस्यैवाध्यायस्य द्वितीये, ‘कर्मक्षयस्तथोत्क्रान्तिरि’त्यादिनेति शेषः ॥ तस्येति । अध्यायपादप्रतिपाद्यस्येत्यर्थः ॥ कैश्चित्सूत्रैरिति । तदधिगम इत्येतत्प्राक्तनैरेतत्पादगतैरित्यर्थः ।

ननु तृतीयाध्याय एवामोक्षसाधनानां विचारितत्वेन पुनर्विचारस्य व्यर्थत्वात् । अत्राध्याये विचारयिष्यमाणसाधनानामादरनैरन्तर्याभ्यामनुष्ठेयत्वे नियामकाभावेन पुनर्विचारस्य तत्सिद्ध्यर्थत्वायोगात् । तत्सिद्ध्यर्थत्वेऽपि वा तृतीय एव पुनस्तद्विचारेणापि तत्सिध्युपपत्त्या चतुर्थे तद्विचारानर्थक्यात्तत्रानुक्त्यत्रोक्तिभ्यामेव तत्सिद्ध्यर्थत्वस्याप्यदर्शनात्तत्फलाध्यायकर्मक्षयपादयोरपि साधनस्यैव विचारे चतुर्थः फलाध्यायस् तत्राप्याद्यः कर्मक्षयपाद इत्यध्यायपादव्यवस्थानुपपत्तेर्नात्र साधनस्य विचार्यता सम्भवतीति न तथोक्तिर्भाष्यटीकायां युक्तेत्येताः शङ्काः क्रमेण परिहरन्नेव साधनस्य विचार्यतामुपपादयति एतदुक्तं भवतीति ॥ प्रायिकत्वादिति । यद्यप्यस्मिन्नध्याये फलस्येव कर्मनाशस्य प्रथमपादे बाहुल्येनाप्रतिपादनान्न प्रायिकत्वमस्ति तथाप्यध्याये फलस्येव पादेऽपि कर्मक्षयस्यानन्यार्थतया प्रतिपादनात्साधनस्य च फलार्थतया निरूपणात्प्राधान्यरूपं प्रायिकत्वमभिप्रेत्येयमुक्तिरिति ध्येयम् ।

***परिमल ***

आराधितः साधनैर्यो मुक्तिं दद्याच्चतुर्विधाम् ।

तं वन्दे कमलानाथमभीष्टावाप्तिसिद्धये (प्तये हरिम्) ॥

मङ्गलमाचरति यदीयेति । निर्वृता मुक्तक्लेशाः । नन्दन्ति सुखमनुभवन्ति । मुक्ताश् चतुर्विधमुक्तिमन्तः । यद्वा निर्वृताः क्षीणकर्माणः, मुक्ता देहबन्धादिति पादद्वयार्थः । यदीयेत्यादिस्तृतीयपादार्थः । नन्दन्तीति चतुर्थपादार्थः । प्रतिपाद्यमनुक्त्वा सङ्गत्युक्तिरनवसरदुःस्थेत्यत आह फलमिति ॥ परब्रह्मादीति । आदिपदेनाधिदैवाधिभूतादिग्रहः । साधन इत्यध्यायपरमेतदित्याह साधने साधनविषय इति । विषयसप्तमीयमित्युक्तं भवति । अवसरप्राप्तं व्यनक्ति जिज्ञासितेष्विति । प्रथमसूत्रे जिज्ञासाविषयतयोक्तेषु ब्रह्मलक्षणप्रमाणसाधनमोक्षेष्वित्यर्थः ॥ सङ्गतिमिति । पादानामिति योज्यम् ॥ वक्ष्यतीति । द्वितीयपादे ॥

यादुपत्यं

श्रीशं प्रक्षीणकर्मौघैरुत्क्रान्तैरर्चिरादिना ।

यथाप्राप्यं(यथायथं)भोगवद्भिर्मुक्तैः सेव्यं हरिं भजे ॥ १ ॥

व्यासपादाम्बुजे ध्यात्वा मध्वमानससंस्थिते ।

व्याकरिष्ये सुधाऽस्पष्टचतुर्थाध्यायफक्किकाः ॥ २ ॥

आद्ये श्लोके मुक्ता इत्यस्य कर्मणो देहाच्चेत्यर्थः । तेनाद्यद्वितीयपादार्थकथनम् । छायामाश्रित्य निर्वृता इत्यनेन मार्गगमनं ध्वन्यते । मार्गगतानामेव छायाश्रयणेन निर्वृतत्वस्य प्रसिद्धत्वात् । तेन तृतीयपादार्थसूचनम् । अत एव निर्वृता नन्दन्तीत्यनयोरर्थभेदः । मार्गेषु निर्वृता आनन्दपूर्णा वैकुण्ठादिस्थानेषु भोगातिशयेन नन्दन्तीति । निर्वृता इत्यस्य संसारमार्गे गमनप्राप्तक्लेशवर्जिता इत्यर्थः । अतो न पौनरुक्त्यमित्याहुः ॥ जिज्ञासितेष्विति । जिज्ञास्यत्वेन प्रथमसूत्रोक्तेष्वित्यर्थः । तत्र ब्रह्मपदेन साधनफलयोरुपलक्षितत्वादिति भाव; ॥ सङ्गतिं चेति । पादानां परस्परमिति शेषः ॥ वक्ष्यतीति । द्वितीयपादारम्भे ‘कर्मक्षयस्तथोत्क्रान्तिरि’त्यादिनेति शेषः ॥ ततश्चेति । कर्मक्षयस्य प्रथमपादप्रतिपाद्यतया वक्ष्यमाणत्वादित्यर्थः ॥ इत्युक्तं भवतीति । अनेनाध्याहृतवाक्यस्थानां ‘फलमत्र निगद्यत’ इति पदानामावृत्तिं प्रथममिति वक्ष्यमाणस्यात्राप्यन्वयं च सूचयति । फललक्षण इति । फलाध्याय इत्यर्थः ॥ प्रायिकत्वादिति । प्राधान्यादित्यर्थः । तेनास्य पादस्य प्रायेण साधनप्रतिपादकत्वात्कथं कर्मक्षयरूपफलप्रतिपादकत्वमिति शङ्काऽनवकाशः ।

श्रीनिवासतीर्थीया

सङ्गतिम् । अन्तर्भावलक्षणामानन्तर्यलक्षणां वेत्यर्थः ।

वाक्यार्थरत्नमाला

विष्णुज्ञानविभोगनष्ठसकलानिष्टस्वकर्मोत्तमा

वेशेनोक्तमणेन वा परिगतस्वीयांत्यकायैः परम् ।

प्राप्यस्वोचितमार्गतोनुविधि निर्लिङ्गैर्विशुद्धैः सुखाद्या

विर्भावमवाप्य भोगिभिरलं सेव्यं भजे श्रीपतिम् ॥ १ ॥

श्रीमन्यायसुधागूढवाक्यार्थचन्द्रिका ।

गुरुराजानुग्रहतोऽध्यायोऽन्त्यः सेव्यते मया ॥

टीकाकार एतदध्यायप्रतिपाद्यधर्मवत्तया भगवत्स्तुतिं कुर्वन्नेव तद्वन्दनरूपं मङ्गलमाचरति ॥ सर्वाभीष्टेति ॥ यद्यपीष्टप्राप्तिरनिष्टविनाशोत्तरभाविनीति पश्चाद्वाच्या । तथापि सकलानिष्टनिवृत्यादेः श्रीहरिचरणांभोजसमीपे स्वोचितयथेष्टभोगप्राप्तिरूपेष्टप्राप्त्यर्थतयाऽन्यार्थत्वेनानन्यार्थाया इष्टप्राप्तेरेवाभ्यर्हितत्वात्तदाशयेन प्रथमं तत्संकीर्तनम् । तथा चानेन स्वरूपानन्दाविर्भावोत्तरं यथेष्टभोगरूपं चतुर्थपादप्रमेयमुक्तम् । सर्वानिष्ठेत्यनेन च ज्ञानभोगाभ्यामित्यादिवक्ष्यमाणटीकानुसारेण निवृत्तसमस्तानिष्टकर्मत्वस्य स्वोत्तमप्रवेशोत्क्रान्तिभ्यां निवृत्तचरमदेहत्त्वस्य योग्यमार्गेण ब्रह्मणा सह परब्रह्मप्राप्तानां लिङ्गदेहनाशस्य कथनेनात्यन्तिकानिष्ठनिवृत्तिप्रतिपादनलाभात्पूर्वपादत्रयार्थ सङ्ग्रहः कृतः । स्वयं पूर्णानन्दस्य स्वसमीपे प्राप्तेभ्य आनन्दावाप्तिकरत्वं युक्तम् इति सूचयितुं राममिति यौगिकविशेष्यपदां कर्मण्यणित्यनेन कर्मण्युपपदे प्राप्ताणोऽपवादेनातोनुपसर्गेक इत्यनुपसर्गादेवातोधातोः कप्रत्ययं विधायापि प्रेदाज्ञ इति सूत्रेण प्रशब्दपूर्वकाद्ददातेर्जानातेश्च कप्रत्ययविधानेन सर्वप्रदो वसुप्रद इत्यादेः साधुत्वप्रतिपादनात्सर्वाभीष्टं प्रददातीति सर्वाभीष्टप्रद इति प्रशब्दपूर्वकाद्ददातेः कप्रत्यये प्रदमिति साधु । एतेनातोनुपसर्ग इत्यनेन सोपसर्गाद्ददातेः कप्रत्ययाप्राप्तौ कर्मणीत्यनेनाणि आतोयुगित्यनेन युकि च सति गोसन्दाय इतिवदभीष्टप्रदायमिति स्यादिति शङ्का गर्भस्रावेणैव गता ॥

उक्तं च प्रेदाज्ञ इति सूत्रीयकाशिकायां सोपसर्गार्थमारम्भ इति कुम्भं करोतीति कुम्भकार इति तिङन्तेन विग्रहेऽपि कुम्भस्य कार इति प्रक्रियावाक्याश्रयणेनोपपदमतिङित्यनेन समासवत्प्रकृतेऽप्यभीष्टस्य प्रद इति प्रक्रियावाक्यमाश्रित्योपपादयति अतिङित्यनेन समासः । सर्वाभीष्टं प्रददातीति द्वितीयान्तेन विग्रहस्त्वस्वपदविग्रह इत्यादि ज्ञेयम् । हत्याया मोक्षहेतुत्वमित्येतद्विद्यैवेत्येतदधिकरणीयानुव्याख्यानमूलटीकाप्रपञ्चावसरेऽवशिष्टं व्युत्पादनं ज्ञेयम् । सर्वानिष्टानां विनाशकमिति षष्टीसमासविचारस्तु तत्तच्छक्तिप्रबोधकः मोक्षादिदातृत्वस्य श्रुतत्वत इत्येतदनुभाष्यव्युत्पादनरूपमूलटीकातत्प्रपञ्चानुसारेणावधेयः । तृजकाभ्यां कर्तरि इत्यनेन कर्तृषष्ट्याः समासनिषेधे षष्ट्याः समासनिषेधाभावः । स निषेधो नित्यो नभवति । तृकाभ्यामिति वक्तव्ये तृच्ग्रहणादित्यादिरूपेण तत्र तस्य स्पष्टत्वात् । जानकीजानिमिति । जानकी जाया यस्येति जायान्तबहुव्रीहिपदस्य जायाया निङिति सूत्रेण निङादेशे निङोऽङित्वेन ङिच्चेति सूत्रे बलादंत्यभूताकारस्यैव निकारे लोपो व्योर्वलीति यलोपे जननाज्जनक इति नवमस्कन्धभागवत जनीप्रादुर्भाव इत्यस्मात्कृत्यल्युटो बहुलमिति सूत्रीय बहुलृकृत्यकृन्मात्रे व्यभिचारप्रतिपादकत्वात्पादाभ्यां ह्रियते पादहारक इत्यत्र कर्मणि ण्वुलि णेरकादेशे निष्पन्नजनकशब्दादपत्यार्थेऽणि टिट्टाणञिति ङीपि निष्पन्नजानकीशब्दस्य भाषितपुंस्कत्वेऽपि न कोपधाया इति निषेधादकसम्बन्धिकोपधत्वेन पुंवद्भावाप्राप्तौ तत्प्रयुक्तस्त्रीप्रत्ययप्रयोगप्राप्तौच जानकीजानिरिति सिध्यति । तथा च तेन श्रीः कलत्रं यस्येति लभ्यत इति भावेन जानकीजानिमिति प्रयुंजानेन मूले श्रियःपतिरिति पतिशब्देन देवतान्तरं प्रतीव श्रियं प्रति स्वामित्वमात्रं नाभिधीयते । किंतु तस्य लक्ष्मीरूपकलत्रवत्त्वरूपतद्भर्तृत्वेन स्वामित्वमेवेति सूचयति । आत्मानं न विस्मरेदिति स्मर्तव्यः सततमित्युक्तेरनिशमित्युक्तम् । मद्गुरुवंदितमिति श्रीविद्याधीशतीर्थवन्दितत्वोक्तया स्वस्य देवताप्रतीतिगुरुद्वारिकैवेतिर् दृढनिश्चय आविष्कृतो भवतीत्यनेकमङ्गलानि । शास्त्रकर्त्रादिप्रणामपूर्वकं चिकीर्षितं निर्दिशति । वेदव्यासमित्यादि कुलकेन । गुरुमिति योग्यतयानन्दतीर्थादिभिरपि सम्बध्यते । साक्षाद्गुरून् श्रीविद्याधीशतीर्थान् । भावगूढायाः सुधायायस्तुरीयाध्यायस्तत्पञ्चिकेति नित्यसापेक्षत्वात्समासः।

सर्वोपि स्वव्यापारो गुरुसेवात्वबुध्येति व्यञ्जयन्नेतद्-व्याख्यानकरणं गुरुसेवात्वेनाह । यद्विद्येति । मात्राधिक्यादेर्यतिभङ्गादेरिव काव्यादोषत्वादत्र युक्तपदसंयोगसत्वेन तस्मिन् परे पूर्वयुक्तकारे दीर्घत्वप्राप्त्या तत्प्रयुक्तं मात्राधिक्यमिति न शङ्कनीयम् । उक्तं च प्रमाणटीकायामप्राप्तकालक्षणे छन्दोभङ्गादिवदर्थाविरोधादिति । अधिकमानन्दमयाधिकरणप्रारम्भे ज्ञेयम् । एतदध्यायेति । व्याचिख्यासिततया बुद्धिसन्निहितफलाध्यायेत्यर्थः ।

पादप्रतिपाद्येति । पादचतुष्टयप्रतिपाद्येत्यर्थः । कर्मक्षयादिरूपैतदध्यायगतपादतुष्टयप्रतिपाद्यविणानां यदीयेति यदित्यप्रतीतेर्नास्योक्तविणे विशिष्टतया भगवत् स्तुति परत्वमित्यतोमुक्ता इत्यादेर्विणस्य कर्मक्षयस्तथोक्त्रान्तिरित्याद्यनुव्याख्यानलब्धार्थकथन रूपं भवेदेवं पादार्थः । सङ्गतिश्च । यदि भगवदित्याद्युत्तरपादीयं मूलानुसारेण पादचतुष्टयार्थप्रतिपादकत्वं दर्शयति । मुक्ता भगवदित्यादिना । निष्ठकर्माण इत्यन्तेन प्रथमपादार्थकथनम् । देहा इत्येतेन द्वितीयस्यार्थकथनम् । यदीयचरणांभोजच्छायामिश्रित्येत्यस्य मुक्ता इत्यनेनापि सम्बन्धमभिप्रेत्य तृतीयपादार्थमाह । स्वोचितेनेति । गरुडशेषान्यतरमार्गेणेत्यर्थः । मार्गेण गच्छतां श्रमपरिहाराय छायाश्रयणं प्रसिद्धमित्यत्र तथायोजितम् । आश्रित्येस्य व्याख्यानं प्राप्येति । अनेन मार्गगम्ययोरुभयोरप्यभिधानं सिद्धमिति संपूर्णतृतीयपादार्थाभिधानसिद्धिः । उत्तरपादमूले आत्यन्तिकात्यन्तानिष्टनिवृत्तीष्टप्राप्त्योरत्रैवान्तर्भावादित्युक्तम् । परमं मोक्षमायन्ति लिङ्गभङ्गेन योगिन इत्यनुव्याख्यानोदाहृतप्रमाणव्याख्यावसरे परमं मोक्षमित्यस्यैव विवरणं लिङ्गभङ्गेनेति चोक्तम् । एवं चात्यन्तानिष्टनिवृत्तिलिङ्गभेदरूपा स्वगुणाच्छादकप्रकृतिध्वंसरूपाचेति लभ्यते । यतो लिङ्गभङ्गेनैव प्रकृतिध्वंसेनापि मोक्षे परमत्वप्रतीतिः । तदेतदनुसन्धाय मुक्ता इत्यनूद्य भिन्नलिङ्गशरीरा विध्वस्तप्रकृतय इति चोक्तम् । तथा स्वोचितेनेति पाठः । पूर्वोत्तरसंदशादनुवर्त्योवा तथाशब्दः । अत्यन्तेत्यतः प्रागत एवेति पूरणीयम् । अपसृतेत्यतः प्रागप्यत एवेति पूरणीयम् । अनेनेष्टप्राप्तिप्रतिबन्धकानिष्टान्तनिवृत्तिरभिहिता । तत एवेत्यस्य प्रागुक्तलिङ्गभेदादित्यर्थः । अनेन चेष्टप्राप्तिरप्युक्ता भवति । अत एव लिङ्गभेदेनेति निमित्तेन परमं मोक्षमानन्दाविर्भावमायातीत्युत्तरपादे व्याख्यातम् । तत्र तत्राधिकरणे प्रतिपादितं प्रमेयमप्यनेन सङ्गृहीतं ज्ञेयम् । एवं पादत्रयार्थमभिदधायेदानीं यदीयेति प्रागुक्तं विणं वदन्तीत्यनेनाप्यन्वेतीत्यंशेन तथा योजयंश्चतुर्थपादप्रतिपाद्यमाह । यदीयेति । अनेन ब्रह्मातिक्रमाभावप्रतिपादकसंपद्येति प्रथमाधिकरणार्थ उक्तो भवति । स्वरूपेणेत्यादिना त्वेवमप्युपन्यासात्पूर्वभावादित्यस्य द्वादशाहवदुभयविधमित्यादेश्चार्थः कथितः । अत्र व्याख्याने उत्तरपादानुक्तमपि यदीशेच्छावरणाय सरणमुक्तं तत्तत्रोपलक्षणया वक्ष्यमाणत्वाभिप्रायेण । तत्र च प्रधानावरणव्योम्नोरन्तरेत्यादि प्रमानुसारित्वं वक्ष्यते । विविचारस्तु तत्रैव करिष्यत इति सकलमकलङ्कम् ।

सकलेति । अनेन विष्णुमित्यनभिधाय श्रियःपतिमित्युक्तिर् ग्रन्थारम्भेऽवश्यानुष्टेयान्तरस्यापि सिध्यर्थमिति सूचितं भवति । वृद्धिर्यस्याचामित्यनेन वृद्धत्वाप्राप्तेश् छस्याप्राप्तिरित्याशङ्कानिरासायाह । त्यदादीनिचेतीति । ईयेति दीर्घेकारपाठः । शङ्कापरिहारायेति । विबलेनावयवावयविभावस्योपपत्तेरित्याशयः । नन्विक्षुछायमित्यादाविव छायान्तत्वेन तत्पुरुषस्यापि नपुंसकत्वे हृस्वोनपुंसक इति हृस्वतायां छायामाश्रित्येति वाच्ये छायामिति स्त्रीलिङ्गायोग इत्यतो नपुंसकत्वविधायकेन छायाबाहुल्य इत्यनेन पूर्वपदार्थबाहुल्य एव तद्विधानेन प्रकृते चाम्भोजयोर्द्वित्वेन बाहुल्याभावान्न नपुंसकत्वहृस्वत्वप्रसङ्ग इत्याशयेनाह ॥ छायान्तत्वेपीति । विस्तरस्तु फणछायेति तृतीयाध्यायाद्यपद्यविचारे द्रष्टव्य इत्याशयेनात्र संगृह्योपपादनम् । तदुपपादनं चास्मदीयतदुपपादने ज्ञेयम् ।

एकवाक्यत्वादीति । स्वस्मिन्नेकवाक्यत्वस्येति योज्यम् । आदिपदेन पूर्वाध्यायैर्भेदस्य सङ्ग्रहः । तत्र भाष्ये । अनुक्तसङ्गतीति । असङ्गतार्थवचनेऽनवधेयवचनत्वप्रसङ्गात्सङ्गतिरवश्यं वक्तव्येति भावः । तदर्थयोरध्याययोरिति साधन इत्यस्य साधनविषये तृतीयाध्याय इति व्याख्यानानुसारेण समन्वयाध्यायाविरोधाध्याययोः समन्वयविरोधाभ्यां वस्तुनि सिद्धे सतीति प्रतिपादनाभिप्रायेणैव प्रथमद्वितीयाध्यायप्रतिपादिताभ्यामिति मूले उक्तम् । अन्यथाध्यायसङ्गतिप्रदर्शनाय प्रवृत्तेन तत्प्रदर्शनं न कृतं स्यात् । तथा च प्रथमद्वितीययोर्वस्तुनि सिद्धे सति साधनाध्याये सति साधनेषु विचारितेष्ववसरप्राप्तं फलमत्राध्यायेति निगद्यत इत्येव वक्तव्यतया प्राप्यत इति भावः । अध्यायद्वये परब्रह्मरूपार्थस्य सिद्धत्वेप्यर्थान्तरासिद्धेर् मूले परब्रह्मादीत्यादिपदायोग इत्यतोऽत्रादिपदघटितपाठ एव न भवति । ततश्च परब्रह्म इत्येवार्थकथनमतो नानुपपत्तिरित्याशयेनाह । टीकायामिति । ब्रह्मेत्यतः प्राक्परपदसद्भावस्यानुमतत्वेपि तदंशे विचाराभावात्तत्परित्यागेन ब्रह्मेत्येवानुवादः । न तु तार्तीयटीकानुसारादिति वक्ष्यमाणयुक्तया परपदस्याप्यनावश्यकत्वाशयो ग्रन्थकारस्येति ज्ञातव्यम् । स्वरस इत्युक्तया प्रधानतया जीवादिभिन्नत्वादिनाऽवगमोऽस्त्येवेत्यध्यायद्वये परब्रह्मातिरिक्तवस्तुप्रतिपादनमपि सिद्धमित्येवमादिपदार्थसार्थक्यं च कथञ्चित्कर्तुं शक्यमिति सूचयति । तार्तीयटीकेति । समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णय इत्येतद्-व्यानावसरे वस्तुनिर्णय इत्यस्य ब्रह्मनिर्णय इति व्याख्यानरूपेत्यर्थः ।

जन्माधिकरणीयमूलानुसारेणाह । प्रधानभूतेति । अत्र जन्माधिकरणमूलानुसारेण लक्षणोक्तिः । जिज्ञासाधिकरणमूले एवं तर्हि लक्षणादिजिज्ञासापि प्रतिज्ञाता स्यादिति चेदित्यनेन षष्ठीपरिग्रहे उपपादकमाशङ्क्य तस्या विनाप्यभिधानेन लाभादिति प्रतिपादितम् । तट्टीकायांतु तस्या इत्येतद्वाक्यमेवं व्याख्यातम् । अत्र ब्रह्मकर्मकजिज्ञासायास्तल्लक्षणप्रमाणादिजिज्ञासाव्यतिरिक्ताया अभावात् । तद्ज्ञानसाधनफलादिजिज्ञासायास्तद्-व्यतिरिक्तत्वेऽपि ज्ञानेनाप्तुमिष्टतमत्वेन प्रधानभूते ब्रह्मणि जिज्ञासाकर्मणि परिगृहीते यैर्जिज्ञासितैर्विना ब्रह्मजिज्ञासा न संपूर्यते । तज्जिज्ञासाया अर्थाक्षिप्ततया लाभेनाभिधानानावश्यकतया वैय्यर्थ्यमेवेत्याशयेनाह । तस्या इतीति । तदनुसारेणैव प्रमाणसाधनप्रयोजनादिपरिकरयुक्तस्यैव ब्रह्मणो जिज्ञासाकर्मत्वान्न प्रमाणादिविचारस्याप्रतिज्ञातताप्रसङ्ग इति जिज्ञासाधिकरणीयचन्द्रिकावाक्यव्याख्यानावसरे टीकाकृता यैर्जिज्ञासितैर्विना ब्रह्मजिज्ञासा न संपूर्यते तज्जिज्ञासाया अप्यर्थाक्षिप्ततयेत्यादिना साधनादिजिज्ञासाया अर्थादाक्षेप इति प्रतिपादितम् ।

उपासनापादीयमूले यद्यपि ब्रह्मविचारः कर्तव्य इत्युक्तं कृतश्चासौ तथापि साधनफलविचारसहितस्य ब्रह्मविचारस्य कर्तव्यतयोक्तत्वात्कृतब्रह्मविचारस्याधिकारिणो यन्मया कार्यं साधनं तत्किं कथंभूतमिति बुद्धिः स्यादिति प्रतिपादितमपि साधनादिजिज्ञासाया अर्थाक्षेपमेवावगमयति । जन्माधिकरणस्थपूर्वोदाहृतवाक्यादुत्तरेऽस्मिन्साधनादिजिज्ञासामन्तरेणाकाङ्क्षानुपरमाच्चेति वाक्येऽपि साधनादिविचारस्यार्थाक्षेप इत्येव प्रतीतेः । एतेनैव लक्षणास्वीकारे प्रयोजनमप्याहेत्येतद्वाक्यावतारोऽन्यथाख्यातिस्थो निरस्तः । तद्वाक्येऽपि ब्रह्मजिज्ञासापदेन साधनादिविचारस्यार्थाक्षेपस्यैवाभिप्रेततायास् तस्या विनाप्यभिधानेन लाभादित्यादिजिज्ञासाधिकरणीयपूर्वोदाहृतमूलानुसारेण प्रत्येतुं शक्यत्वात् । प्रमाणसाधनं प्रयोजनादिपरिकरयुक्तस्येति प्रागुदाहृतचन्द्रिकावाक्यपर्यालोचनयापि पूर्वोक्तार्थाक्षेपस्यैव प्रतीतेः । साधनादिजिज्ञासामन्तरेणाकाङ्क्षानुपरमादित्यनेनाकाङ्क्षापूर्त्यन्यथानुपपत्या साधनादिविचारोऽपि कर्तव्यतया लब्धो भवतीत्येवार्थस्य प्रतीयमानत्वेन गङ्गापदेन तीरे लक्षणया प्रतिपादिते तीरस्य शीतलत्वादिज्ञापनरूपप्रयोजनसिद्धिरितिवत् । ब्रह्मपदेन साधनफलयोर्लक्षणायां तयोरपि जिज्ञास्यत्वसिद्धिरित्यर्थस्य प्रतीत्यभावेन च लक्षणाप्रयोजनकथनपरतयैतद्वाक्ययोजनायोगात् । किं मया कार्यमित्याकाङ्क्षानुपरमादिति चासत् । उपासनापादस्थ किं मया कार्यमित्येव स्याद्बुद्धिरधिकारिण इत्येतदनुभाष्यमूले साधनफलविचारसहितब्रह्मविचारस्य कर्तव्यतयोक्तत्वात्कृतब्रह्मविचारस्याधिकारिणो यन्मयाकार्यं साधनं तत्किं कथंभूतमिति बुद्धिः स्यादिति व्याख्यानकरणेन साधनं किं मया कर्तव्यमित्याकांक्षायां तत्पूर्त्यर्थं साधनादिविचार्यतेत्येवमाकाङ्क्षानुपरमस्य तदानींतनसाधनादिविचाराकरणोपपादकत्वप्राप्त्यै तद्वाक्यस्य तृतीयाध्यायगताधुनासाधनविचारः कर्तव्य इत्येतत्प्रमेयसाधकत्वप्राप्तावपि ब्रह्मपदेन साधनफले कुतो लक्षणीये इति प्रयोजनाकाङ्क्षायां तयोरपि विचार्यत्वसिध्यर्थमित्येवं लक्षणाप्रयोजनप्रतिपादनपरत्वाप्रतिभासेन तथायोजनाया अपरामर्शमूलकत्वात् । अत एव किं मया कार्यमिति बुध्युत्पादे निमित्ततया साधनादिविचारसहितब्रह्मविचारस्य कर्तव्यतोक्तिरभिहिता । अनेन बुध्युत्पादेनैव साधनादेर्विचार्यत्वसिद्धिरित्यङ्गीकारे चोक्तबुध्यन्यथानुपपत्या साधनादेर्विचार्यत्वसिद्धिस्तत्सिद्धौ चोक्तरीत्या बुध्युत्पाद इत्यन्योन्याश्रयापातः । तस्मान्मूलवाक्याभिप्रायानवबोधविजृम्भितोयमवतार इत्यास्तामिति वाक्यार्थविनोदे निक्षिप्यम् ।

प्रकृतमनुसरामः । तदेवं जिज्ञासाधिकरणस्थमूलटीकाद्यनुसारेण राजाऽयमागच्छतीत्यादौ राजपदेन लक्षितपरिकरयुक्तस्य राज्ञ आगमनप्रतिपादनं वा राज्ञ आगमनप्रतिज्ञयैव परिकरागमनप्रतिपादनं वेति यथास्वीक्रियते । तथा ब्रह्मपदलक्ष्यसाधनफलसहितब्रह्मणो विचारः ब्रह्मजिज्ञासापदेनोच्यत इति वा ब्रह्मजिज्ञासायाः साधनादिति जिज्ञासां विना पूर्त्यभावेन तदन्यथानुपपत्या साधनादिविचारस्यापि प्रतिज्ञातत्वलाभ इति वा सर्वत्रोदाहृतमूलटीकादावभिप्रेतत्वसिध्या प्रधानेनाप्रधानस्योपलक्षणादिति जन्माधिकरणस्थपूर्ववाक्येन प्रथमोक्तार्थप्रतिपादनानन्तरं प्रवृत्तसाधनादिजिज्ञासामन्तरेणेति तदुत्तरवाक्यस्यार्थाक्षेपपक्षोपन्यासपरत्वसिध्या तन्मूलोपजीवनेन जिज्ञासाधिकरणस्थयैर्जिज्ञासितैर्विनेत्युक्तप्रकारेणार्थात्साधनादिविचार आक्षिप्त इति ब्रह्मजिज्ञासापदेनैव साधनादीनां जिज्ञास्यत्वप्राप्तेरिति भाववर्णनमपि द्रष्टव्यम् । यथाहि भट्टमते पदानां जातौ शक्तिर् जातिविशिष्टव्यक्तौतु लक्षणेति स्वीकारः । जातौ शक्तिर् व्यक्तिस्त्वाक्षेपलक्ष्येति पक्षान्तरं च । तथा ब्रह्मपदेन साधनफलयोर्लक्षणेति पूर्ववाक्यार्थः । उत्तरवाक्यार्थस्त्वन्यथानुपपत्तिरूपानुमानेन साधनादिजिज्ञासाया लाभो नतु तत्र काचन वृत्तिरिति भेदः । एतावांस्तु विशेषः । तन्मते पदाज्जातिरुपस्थाप्यते नैव पदेन व्यक्तिर्लक्ष्यते पदोपस्थिततया च व्यक्तिराक्षिप्यते इति भेदः । इह तु ब्रह्मपदे लक्षणा ब्रह्मजिज्ञासापदेनोपस्थिता ब्रह्मजिज्ञासा साधनदिविचारमाक्षिपतीति ब्रह्मजिज्ञासाया आक्षेपकत्वमितीत्यलम् । अत्रोक्तप्रकारेण जन्माधिकरणजिज्ञासाधिकरणयोरपि प्रमेयनिष्कर्ष ऊह्यः । स्वरूपसाधनफलेषु फलातिरेके कृते मूलेऽन्ययोरिति वक्तव्यमित्यतः साधनानामनेकत्वात्तद्विवक्षया बहुवचनमित्याशयेनाह । साधनानामित्यर्थ इति । जन्मादिसूत्रोक्त इति । अत्र जन्मादीति न समग्रमेकसूत्रोपादानमपितु जन्मसूत्रं जन्माधिकरण इत्यादिवद् आदिपदेन सर्ववेदान्तप्रत्ययसूत्रं चेति सूत्रद्वयोपादानम् । तथा च जन्मसूत्रे साधनफलयोर्ब्रह्मोपहितत्वेन ब्रह्मणश्च प्रधानतयाऽभ्यर्हितत्वात्स्वरूपविचारस्य प्राथम्याभिधानात्फलविचारापेक्षया स्वरूपविचारस्य प्राथम्येऽभ्यर्हितत्वं हेतुरुक्तः फलविचारापेक्षया साधनविचारस्य पूर्वभावित्वे च फलापेक्षया साधनस्य पूर्वभावित्वम् उक्तसूत्रद्वयेनाप्युक्त इति विवेकः । एकवाक्यत्वादीति । आदिपदेनोत्तरपादैर्भेदस्यैवासङ्गतत्वाभावस्यापि परिग्रहः । अन्तर्भावलक्षणामिति । पादानामध्यायेन्तर्भावलक्षणां परस्परमानन्तर्यलक्षणां चेत्यर्थः ।

पादचतुष्टयप्रतिपाद्यतत्सङ्गत्योरेकत्रेति । वैकत्रेति पदपरित्यागेनैकीकृत्येतिपदयुक्तो वा पाठः । पदद्वययोगेऽप्येकस्य पादप्रतिपाद्यसङ्गत्योरेकीकरणमर्थः । पादप्रतिपाद्यानां स्थानभेदेन सङ्गत्या सहाभिधाने एकस्यैव प्रादप्रतिपाद्यस्य तत्सङ्गतेश्च प्रतिपाद्यत्वमात्रलाभेन लाघवाश्रयणस्य तन्मात्रफलकत्वप्रतीतिः स्यातन्निरासाय द्वितीयस्योपादानं तस्य च पादप्रतिपाद्यानाम् एकस्थानावच्छेदेनाभिधानमर्थ इति न दोष इति प्रतिभाति ।

विचारस्य व्यर्थत्वादिति । अस्य नात्र साधनस्य विचार्यता सम्भवतीत्युत्तरेण सम्बन्धः । एवमदर्शनादित्यस्यापि । पादव्यवस्थानुपपत्तेश्चेति चशब्दयुक्तः पाठः । तत्रानुक्तयत्रोक्तिभ्यामेवेति । तावन्मात्रेणेत्यर्थः । एतच्च तत्रानुक्तयाहीत्यादि व्यावर्त्याशङ्काभिधानम् । अदर्शनादिति । आदरनैरन्तर्याभ्यामनुष्टेयत्वसिध्युपायस्यान्यत्रानुक्तयत्रोक्तिमात्रेण यत्समर्पणं तत्प्रकाराप्रतीतेरिति भावः । अध्यायादीति वाक्यव्यावर्त्यशङ्कामाह । फलाध्यायेति । अध्यायपादेत्युत्तरमूलेऽध्यायस्यादिपदोक्तपादेनैव सांकर्यस्य परिहार इति तथैव शङ्का दर्शिता । दर्शनात्फलाध्यायेति पाठः । भाष्यकारीयेति । उपलक्षणं चैतत् । सूत्रकारेणापि तद्विचारो न कर्तव्य इत्यपि द्रष्टव्यम् ॥