१६ गुर्वर्थदीपिका

तृतीयाध्याये चतुर्थः पादः

श्रीमद्वादिराजपूज्यचरणविरचिता श्रीमन्न्यासुधाटिप्पणी

गुर्वर्थदीपिका

अथ तृतीयाध्याये चतुर्थः पादः

अथ पुरुषार्थाधिकरणं

दहनार्थमित्यत्र दाहार्थमित्यर्थः । यद्यपि विद्यैवेति प्रागुक्तविद्यापरामर्शोऽपि घटते । तथापि तत् प्रासङ्गिकतयैवोक्तम् । न साक्षात्पादप्रतिपाद्यम् । पादार्थेनाप्यस्य सङ्गतिं सूचयितुमेवमुत्पन्नेत्युक्तम् । तदुपपादनाय पातनिकार्थमित्यत्र तदुपपादनाय पुरुषार्थदातृत्वोपपादनाय पातनिकार्थं हेतुसूचनार्थम् । सामान्यमेव भगवता प्रोक्तमित्यत्र ‘‘पुरुषार्थोऽतः शब्दादि’’ति सूत्रे सामान्यमेव पुरुषार्थसाधकत्वमेवोक्तं न तु मानुषाणामपीति विशेषोऽप्युक्तः । एवं च जैमिन्यादिमतयोर् मानुषविषयत्वेनापवादे सामान्यवचनं ‘‘न हिंसादिति वत् तदतिरिक्तविषयं भवेत् । अतः कुतो विरोध इति भावः । इयं च व्यवस्था पूर्वव्यवस्थयोपस्कर्तव्येत्यत्रेयं व्यवस्था प्रतिबन्धके सति ज्ञानात्पुरुषार्थो न भवतीति प्रतिबन्धकनिरसनाय कर्मैव कर्तव्यमिति व्यवस्था । पूर्वव्यवस्थया पूर्वोक्तसामान्यविशेषरूप व्यवस्थयोपस्कर्तव्या । व्यासेन तु सामान्यत एव पुरुषार्थसाधनत्वमुक्तम् । एतैस्तु प्रतिबन्धके सति ज्ञानं पुरुषार्थसाधनं न भवतीत्युच्यते । अतः को विरोधः । विशेषमतानुसारेण सामान्यमतस्याप्यप्रतिबद्धज्ञानविषयकत्वकल्पनोपपत्तेः । अत एव भाष्यकृता ‘‘प्रारब्धस्यानतिक्रमा’’दिति तत्रैवोक्तम् । यद्यपि ज्ञानिनां पुरुषार्थान्तरे रागो नास्ति । सारासारविवेकवत्त्वात् । भगवतोऽन्यत्र दृढनिरूढवैराग्यसद्भावाच्च । तथाऽपि ज्ञानिभिरेवास्माभिः सत्य स्वर्गादिलोकपरिपालनव्याजेन सतां रक्षणेऽसतां शिक्षणे भगवद्धर्मपरिपालने च कृते सति निरुपाधिसेवाख्यसत्कर्मणा तुष्टो भगवान् मुक्तावानन्दवृद्धिं करोतीत्याशया पुरुषार्थसाधने ज्ञाने उपसर्जनतया प्रतिबन्धककर्मनिवर्तकतया वा सत्कर्मकरणसम्भवात् । मानुषाणां तु स्वर्गस्थितज्ञानिभिः सहवासेन ज्ञानस्थिरीकरणार्थं स्वोत्तमदेवगन्धर्वादीनां सदा दर्शनार्थं च स्वर्गसाधनकर्मकरणोपपत्तेरिति ॥ ३४१,२,३ ॥

अथ स्तुतेयधिकरणं

स्तुतयेऽनुमतिर्वेत्यत्र ज्ञानिना स्वकामानुसारेण पुण्यस्य वा पापस्य वा यदाचरणमुक्तं तज्ज्ञानिनां स्तुतयेऽनुमतिर्वा अनुमतिराज्ञामात्रं वेति सूत्रार्थपर्यालोचनया सत्कर्मैव कर्तव्यं न त्वसत्कर्मेति सूत्रार्थपर्यवसानादिति भावः । प्रतियोगिपरम्पराविकृतिः प्रमाणवतीत्यत्र प्रतियोगिपरम्परा अधिकपरम्परायाः समपरम्पराया हीनपरम्परायाश्च विकर्मकर्तृदेववद् विकृतिप्रमाणवती येन पुनर्विकर्मकर्त्रा साम्यादिकं घटत इत्यर्थः । अन्येषां विक्रियायां स्वरूपे आधिक्यसमत्वन्यूनत्वरूपविकार इत्यर्थः । भार्यायां प्रेमातिशयेन स्वासाध्यतदुद्धरणाय भर्तुः कूपे पतनवद् भगवति प्रेमातिशयेन लक्ष्मणादीनां दिवा स्वयमुपोष्य रामार्थे कन्दमूलानयनस्य रात्रौ नित्यं जागरणस्य च दर्शनेनाधिकसेवां कारयित्वा कृष्णावतारे स्वनमनादिना तत् ह्रासयिष्यामीति भगवत्सङ्कल्पेन च अधिकयत्नभावसम्भवादिति भावेनोक्तं कथञ्चिदधिके यत्ने इति । शापादिनिमित्तानामापदामित्यत्र माण्डव्यशापेन यमस्य शूद्रयोनिप्राप्तेः । उर्वशीशापेनार्जुनस्य च शिखण्डित्वप्राप्तेरहल्यागमनेन चेन्द्रस्य सहस्राण्डत्वदर्शनात् । वृत्रहननेन प्राप्तब्रह्महत्ययेन्द्रस्य कमलनालान्तःप्रवेशनादित्यादि ज्ञेयम् । तदभावापातादित्यलमिति चोपलक्षणम् । वृत्रहत्यादीनां ज्ञानोत्तरकृतत्वेनाप्रारब्धत्वात् । ज्ञानात्पूर्वं कृतानि कर्माणि हि प्रारब्धानीत्युच्यन्ते । एवं च ज्ञानोत्तरकृतकर्मणां कथं लोपः । ‘‘उत्तरपूर्वाघयोरश्लेषविनाशा’’विति सूत्रस्य निर्विषयत्वापाताच्च । अतः प्राचीनकर्मफलान्येव शिखण्डित्वसहस्राण्डत्वादीनि । उर्वशीशापादिकं तु तस्य सूचकमेव । अत एव ‘इन्द्रो वृत्रं हत्वा महानभवदि’त्यत्याद्या इत्यपि द्रष्टव्यम् । दृशिग्रहणसामर्थ्याद्धातोरन्तलोप इत्यस्यान्तो जकारः । इङ् अध्ययन इत्यस्मात् ण्वुलिप्रत्यये सतीत्यत्र णित् करणमहिम्ना उकारस्यैवाकाररूपवृद्धौ कृतायां तस्य चायादेशे कृते आध्यायक इति भवति । स्वार्थे कप्रत्यय इति भावः । र ऋतो हलादेर्लघोरित्यत्र हलादेऋकारस्य रेफो भवतीत्यर्थः । परम आनन्द इत्यत्र त्रेतायुगे सप्तद्वीपपतीनां चक्रवर्तिनामानन्दा अपि बहुसङ्ख्याकाः सन्ति । अत एक इत्यस्य परमानन्द इति व्याख्यानम् । शतं शतसङ्ख्याका ये मानुषा आनन्दाः स तादृशः मनुष्यगन्धर्वाणामेकः प्रधान आनन्दः । मनुष्यगन्धर्वाणां ये शतं शतपरिमितानन्दाः स देवगन्धर्वाणामेकः प्रधान आनन्दः । एवमुत्तरत्रापि योजना ।

दृष्टं वृष्ट्यादिकमदृष्टं धर्मादिकमित्यत्र दृष्टं वृष्ट्यादिकम् अदृष्टं पुण्यादिकं तदुभयमजानानः कृषीवलः स्वयोग्यबहुसाधनानुष्ठानेऽपि फलमलभमानो दृश्यते इति भावेनोक्तं दृष्टमिति । इरयोर इत्यत्र ददृशिर इत्यत्र विद्यमानयोरिकाररेफयो रेफ एव स्यादित्यर्थः । दुर्ज्ञेयं घोररूपस्येत्यत्र सङ्कोचे कारणाभावान्मानुषोत्तमानामप्युक्तभयादिदोषप्रचुरत्वात्तेषामपि सङ्ग्रहे देवादिषूक्तसाधनसम्पद्वैधुर्यस्य कैमुत्येन स्मृतावेवोक्तत्वाच्च मुक्तियोग्यजीवेष्वेव तारतम्यं सिद्धमिति भावः । इयं विसृष्टिरित्यत्र मूले ‘‘योऽस्याध्यक्षः’’ इति ब्रह्मणः सर्वोत्कृष्टत्वकथनादिन्द्रादिभ्य आधिक्येनेति लभ्यते, तथापि न वेदेत्युक्तया कार्त्स्न्येन न जानासि चेति सिद्ध्यति । आधिक्यं च तेषां ज्ञानित्वे सत्येव । न घटादधिकं सुखं चेतनस्येति कोऽपि ब्रूत इति भावः । प्रकृत्यान्तः पादमव्यपर इत्यत्र अव्यपरे व्यपरत्वाभावे अन्तःपादं पादमध्ये छन्दसि प्रकृत्या भवतीत्यर्थः । नाहं नभस्वानिति मुख्यप्राणस्यापि स्वकक्ष्यायां निवेशादुभयोः साम्यं च गम्यते । यत्काष्ठां नाहं वेदापरे कुत इत्यस्य सर्वथा न वेदेत्यस्य बाधितत्वात् सम्यक् न वेदेति लभ्यते । ततश्च दिङ्मात्रं वेदेति लभ्यत इति भावः । काष्ठायास्थितेर् दुरधिगमत्वबोधनाय योग्यतया सदिति विशेषणं लभ्यत इति भावेनाह सत् काष्ठामिति । सतीं निरवधिकामित्यर्थः। मद्भक्तेष्वभिधास्यतीत्यनेन व्याख्यातुरिति लभ्यते । अध्येष्यत इत्यनेन अध्येतुरिति विभज्य नामान्यभिप्रेत्योक्तं व्याख्यातुरिति । पूर्वपूर्वदृष्टेभ्यो दृष्टानामिति निर्धारणे षष्ठी । पूर्वपूर्वदृष्टानां गुणांशानां मध्ये इत्यर्थः । स्वरवर्णपदवाक्यात्मकानन्तवेदोक्तगुणानां द्रष्टा ब्रह्मा सरस्वती च बहुतरानन्तांशान् वित्त इत्यर्थाल्लभ्यते । अनन्तक्रियाणां त्रिविक्रमत्वकंसहननादीनां ब्रह्मणा विशिष्य दृष्टानां सरस्वत्या सामान्यक्रियासु शक्तिरूपक्रियासु वा अन्तर्भाव्यैव दर्शनाभावाच्च तयोर्दर्शनेऽपि तारतम्यम् । रुद्रस्य तु सरस्वतीदृष्टभावरूपगुणानामपि केषाञ्चिद्दर्शने शक्तयभावात् तद्दृष्टबहुतरानन्तांशानां मध्ये कतिपयानन्तांशानेव पश्यति । उमा तु रुद्रदृष्टबहुलानन्तांशानां मध्ये एकमेवानन्तांशं पश्यति । न त्वनन्तसङ्ख्यातो न्यूनां पश्यतीति उमा यावदनन्तांशान् पश्यतीत्यस्य भावः । एवं च सर्वेषामनन्तांशदर्शित्वेऽपि उक्तविधयाऽवान्तरविभागोऽप्यस्ति । अन्यथा ज्ञानतारतम्यभङ्गप्रसङ्गादिति भावः । उत्तरोत्तरतः शतगुणत्वेन तारतम्यं तु श्रुत्युक्तरीत्या संसारे मुक्तौ च तद्भोग्यसुखाख्यफलतारतम्यमेव । तत्साधनव्याप्त्यादिगुणज्ञानतारतम्यं तु यथायथा श्रुत्योक्तं तथैवेति भावः ।

अत्रापि तैत्तिरीयोपनिषद्युक्तं शतपदमुपनिषदन्तरपर्यालोचनया योग्यस्यैव संख्याविशेषस्य वाचकम् । न यथाश्रुतशतस्यैव । तथा हि । छन्दोगोपनिषदि विष्णुस्मरणाभिमानितया स्मरणशब्दोक्तरुद्राद्विष्णुभक्तयादिसाधनाशायास् तत्साध्यमोक्षाशायाश्चाभिमानितया आशाशब्दवाच्यभारत्याः ‘‘आशावावास्माद्भूयसी’’ति भूयस्त्वमुक्तवा तस्यास्सकाशादपि ‘‘प्राणो वा आशाया भूयानि’’ति प्राणस्य भूयस्त्वमुच्यते । प्राणवादिनोऽतिवादिन्या श्रुत्या ‘‘इयदामननादि’’ति मोक्षाधिकारिणां प्राणपर्यन्ततां निर्णयता सूत्रकारेण च प्राणस्यैवाधिकारिकमण्डलेश्वरत्वमुक्तम् । आशायाश्च प्राणादवरत्वं रुद्रादधिकत्वं चोक्तम् । तैत्तिरीयोपनिषदि च ‘‘सैषाऽऽनन्दस्य मीमांसा भवती’’ति मीमांसां प्रस्ताव्य कथितत्वाद् ब्रह्मण एवाधिकारिकमण्डलेश्वरत्वमुदितम् । स च ब्रह्मा न प्राणादवरत्वार्हः । श्रुतिसूत्रविरोधात् । नापि तदाधिक्यार्हः । किंतु प्राणसमान एवेत्यर्थाल्लभ्यते । अतः श्रुत्युक्तसमयोस्तयोरेकतरपरित्यागः न श्रुतिद्वयस्याप्युचित इति छन्दोगश्रुतौ ‘‘वायुर्ह्येव प्रजापतिः । तदुक्तमृषिणा पवमानः प्रजापति’’रिति । ऋक्शाखाब्राह्मणस्यानुशासनात्पूर्वकल्पे प्राणत्वात् प्राणपदेन तत्समो ब्रह्मापि ग्राह्यः । तैत्तिरीयश्रुतौ च तत एव भविष्यद्ब्रह्मत्वाद् ब्रह्मपदेन प्राणोऽपि गृहीत इति गम्यते । तद्वदेवाशापदोदितौ ब्रह्माणीभारत्यौ । तैत्तिरीयशाखायामेकस्याप्यनुक्तेरुभे अपि अध्याहर्तव्ये इति च समाख्याबलादेव लभ्यते । एवं च प्रजापतिशब्दोक्तरुद्रात् शताधिकानन्दायास्सरस्वत्या अपि शतानन्दाधिकस्य ब्रह्मणो रुद्रादपि शतानन्दाधिकत्वमयुक्तमिव प्रतीयते । न च श्रुतिरयुक्तवादिनी भवितुमर्हति । अत एव ‘‘दशदश तच्छतं दश शतानि तत्सहस्रं तत्सर्वमि’’त्यैतरेयोपनिषदि शतशब्दस्य कयाचन विवक्षया द्विशतमारभ्य सहस्रपर्यन्तवाचित्वस्य कयापि विवक्षया च नवतिमारभ्य दशपर्यन्तवाचित्वस्य च श्रुतत्वात्तदनुसारेण शतश्रुतिरियं द्विशतवाचिनीति च सिद्ध्यति । एवमन्यत्रापीति । तस्मात् श्रुतिमीमांसानिपुणेन मध्वमुनिना यद्यदुक्तं तत्सर्वं श्रुतीनां हृदयमिति गम्यते । ते वैषम्यनैर्घृण्ये इत्यत्र ते वैषम्यनैर्घृण्ये विद्याधीशेन वारिते इत्येतावतैव पूर्ते दूषणे इत्यस्याध्याहारकारणाभावादित्यर्थः । ताविति पुल्लिङ्गप्रयोगे तु पूर्वोक्तनपुंसकघटनाय दोषावित्यध्याहारस्याप्यावश्यकत्वादिति भावः । उपपद्यत इत्यपीत्यत्र स्वदत्तपारिपत्यवशात् कृतमहाद्रोहस्य स्वमनुष्यस्यैव शिक्षके राज्ञ्यवैषम्यदर्शनेन साधने कथञ्चित् स्वाधीनताया अदोषत्वात् । यद्वा तत्तत्स्वरूपभूतानादियोग्यतामादाय विषमसाधनदानेऽपि न वैषम्यम् । न च योग्यताया अपि तदधीनत्वात्पुनर्वैषम्याद्यनिस्तारः । योग्यतामन्यथीकर्तुं शक्तत्वात्तस्या अपि स्वाधीनत्वं सत्यसङ्कल्पतयातां नान्यथीकरोतीत्यर्थः। तदुपेक्षया विषमसाधनानि कारयितुरीश्वरस्य न वैषम्यम् । यद्यपि तेषां योग्यतामपेक्ष्य तेषामिष्टानिष्टफलस्यैव दानेऽपि न वैषम्यम् । तथापि ‘‘तमेवं विद्वानि’’ति ‘‘पुण्येन पुण्यं लोकं नयति पापेन पापम् ॥’’ ‘‘मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूचयकाः’’ इत्याद्यागमप्रामाण्यरक्षणाय साधनानुसारेणैव फलं दिशतीति भावः । मोक्षेऽपीत्यनेन मुक्तं पक्षीकृत्येत्यत्र मोक्षेऽपीति विशेषणं मुक्तपक्षीकरणसूचनायैव । अनुमानं तु मुक्तस्तारतम्योपेत इति द्वितीयः पक्षः । तृतीयस्तु मुक्तो मोक्षेऽपि तारतम्योपेत इति भावः । सामान्यत एव व्याप्तिरभिधातव्येत्यत्र यो यादृशस्वरूपः पूर्वमभूत्स उत्तरत्रापि तादृशस्वरूप एव यथा कल्यादय इति व्याप्तिरभिधातव्येत्यर्थः ॥ ३४४ ॥

अथ उभयलिङङ्गाधिकारिकाधिकरणे

वेदव्यतिरिक्तेदानीन्तनत्वरहितपौरुषेयवानित्यत्र पुरुषकृतो ग्रन्थः कर्तरि पुरुषे, पुरुषश्च काले इति परस्परासम्बन्ध इत्यर्थः । सख्यापरावृणक्तीत्यनेन सत्संसर्गवशादयोग्यैः कदाचिद्विष्णुभक्तयादिसाधनेऽनुष्ठितेऽपि तेषां साधनच्छेदमेव करोति न तु तदुत्तमतां सहत इति सूचितम् । पूर्वीरिन्द्रः शरदस्तर्तरीतीत्यत्र पूर्वीरित्युक्तया अतरदिति क्रियाध्याहारोऽवगम्यते । तर्तरीतीति वर्तमानार्थकलटाऽतीतसम्बन्धायोगात्तर्तरीतीति क्रिययेदानीमिति गम्यते । एवं च यथापूर्वमिति श्रुतेरुपरि तरिष्यतीत्यपि ग्राह्यम् । अतः कालत्रयेऽपि विद्यमानाऽधमता उत्तमता मध्यमता च स्वभावस्य योग्यतैवेति भावः । सुप्तः सुप्तस्थो वायुरिति देवगुरोर्वायोर्भूतिरित्युपास्तौ निदर्शितायां तच्छिष्याणां देवानामपि निदर्शितप्रायमिति भावः । अधमजीवेषु सुप्तेष्वभूरिति स्वर इति मन्दजना वदन्ति । तन्न ग्राह्यम् । तत्रापि श्वासजपस्य वायुना क्रियमाणत्वादिति न तत्र श्रुतिर्निदर्शनमदर्शयदिति भावः । पित्र्यं वेत्यारभ्य ब्राह्मं वेत्यन्तेन विष्णुभक्तानामेव ग्रहणात्तत्प्रायपठितो भूतशब्दोऽपि मनुष्योत्तरपर इति पट्यते । दानवीयं वा राक्षसीयं वेत्याद्यनुक्तेर्न तेषां मुक्तिरित्यपि सूचितम् । रतिः स्मृतिश्च विष्णोः शिवस्य चेति शेष इत्यत्र विष्णुपूजारतिः स्मृतिरित्यत्र विष्णोः शिवपूजारतिः स्मृतिरित्यत्र शिवस्येति विवेकः। परेणादृष्टस्य निष्कारणताया अनङ्गीकारादित्यत्रानाद्यदृष्टपरम्पराया अदृष्टनिरपेक्षत्वाङ्गीकारेऽपि कतिपयादृष्टानामदृष्टनिरपेक्षत्वानङ्गीकारादसङ्गतोऽयं प्रसङ्गः स्यादिति भावः । अत आकस्मिको विशेषश्चेददृष्टे क्वचिदिष्यत इत्यादिना विवृत इति भावः । अत्र सर्वत्रादृष्टशब्देन पुण्यमेवोच्यते । एवं चेदानीन्तनभाग्यस्य पूर्वतनपुण्यसाध्यत्वात्तस्य च ततः पूर्वतनपुण्यसाध्यत्वात् । एवं तस्यापीत्यनादिकालमारभ्य विशिष्टपुण्यकर्तारः ब्रह्माद्या कथं न विशिष्टयोग्यतावन्तः स्युरिति समुदायार्थः । एवमिदानीं नियमेन पापकर्तृषु दैत्येषु अनादिपापकर्तृत्वसिद्ध्याऽधमयोग्यतासिद्धिः । इदानीमुभयस्वभावेषु मानुषेषु चोक्तरीत्याऽनादिकालमारभ्य तत्स्वभावसिद्ध्या मध्यमयोग्यताऽपि सिद्धेति भावः । सहस्ररूपी भूत्वा दूषणादीनां वधं कुर्वति रामे पुनस्तैरूपैरेकत्वस्यैव सर्वैर्दर्शनात् । जाम्बवता च ‘‘प्राज्ञाय देहविकृतिं निजनाथदेवं सीतापतिं त्रिनवहान्यमुना ह्ययुध्यत् । ज्ञात्वाऽपराधकृदि’’त्यादि भागवतोक्तया कृष्ण एव रामत्वप्रत्यभिज्ञानात् । अक्रूरेण च रथस्थस्यैव रूपस्याघमर्षणकाले जले दर्शनात् । अर्जुनेन च स्वदृष्टविश्वरूपस्यैव स्थस्थकृष्णमूर्त्यैकीभावदर्शनात् । गरुडेन चानन्तासनस्थमहामूर्तेः शिरःकिरीटस्य कृष्णशिरस्यपि साम्यदर्शनेनैक्यस्यैव दृष्टत्वात् । महाबलिना च वामनस्यैव त्रिविक्रमत्वदर्शनात् । ‘‘मत्स्याश्वकच्छपनृसिंहवराहहंसराजन्यविप्रविबुधेषु कृतावतारः । त्वं पासि नस्त्रिभुवनं च तथाऽधुनेश भारं भुवो हर यदूत्तम वन्दनं त’’ इति गर्भस्तुतौ सर्वदर्शिभिर्देवैर्मत्स्याद्यनेकरूपाणां त्वमिति कृष्णरूपेणाभेदप्रत्यभिज्ञानाच्चेत्यादिकमनुसन्धाय तद्दर्शिनामपीत्यादिकम् ।

आकारविशेषदर्शनादित्यस्याभिन्नानामपि मृद्घटादीनामाकारविशेषदर्शनादिति भावः । ‘‘एकधैवानुद्रष्टव्यः । यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योस्समृत्युमाप्नोति य इह नानेव पश्यति’’ । ‘नेह नानास्ति किञ्चने’त्यादिवेदानामुद्धर्ता वेदव्यासः स्वपुराणेषु वेदविरुद्धं भगवद्रूपभेदं न कुत्रापि कथयेदिति भावेनाह न च निश्चितभेदस्येति यदा भगवद्भक्तस्य प्रह्लादस्यापि प्रासादान्निपतनेनास्त्रशस्त्राद्यभिघातेन च न रोममात्रस्यापि छेदः । तदा तस्य हरेर्वधं छेदं वा कः प्रेक्षावानुत्प्रेक्षते । कथमन्यथा वेधकारी भीष्मोऽपि ‘‘विभिद्यमानत्वचि विलसत्कवच इति तं स्तौति । नहि कवचच्छेदाभावे तदन्तर्गतभगवदङ्गच्छेदः शक्यसम्भावनः । तर्हि विभिद्यमानत्वचीत्यस्य कोऽर्थ इति चेत् ‘‘विनिषेधे पृथग्भाव’’ इत्यभिधानादभिद्यमानत्वचीति ब्रूमः । तस्मादेव स्वनिशितशरैरप्यभिद्यमानत्वक्तवात् स्तुतिः । ‘‘हरिरिव हन्तुमिभं गतोत्तरीय’’ इति गजाद्यभेद्यसिंहनिदर्शनं च ‘‘तदीक्षयैवाशुगतायुधव्यथ’’ इति सूतपुराणिकोक्तौ यस्येच्छया परेषामायुधव्यथा गच्छति न तस्यासुरजनमोहनाय वक्ष्यमाणायुधव्यथेत्युपक्रम एव युक्तिसूचनं च । वेदैकसमधिगम्ये भगवत्युक्तसमस्तयोजनायाः ‘‘निरनिष्टो निरवद्य’’ इति श्रुतिरेव महामूलम् । वेधे सत्यनिष्ठस्यापरिहारेण निरनिष्ट इत्यस्य भङ्गप्रसङ्गात् । अनिष्टमूलावद्यं निरवद्य इति निवारयन्त्या श्रुत्याऽक्षिणी निमील्य तथापि भगवत्यनिष्टं वदन्तं प्रति अकारणकार्योत्पत्तिरूपव्याख्यानस्य सूचितत्वाच्च वेधादिशङ्कैव नोचिता । ‘‘व्याघातावधिराशङ्के’’ति हि प्राञ्चः । अत एव ‘‘शितविशिखहत’’ इत्यत्रापि । हता विशिखा येन स इति समासः । विशीर्णानां मध्ये मार्गपतितानां भटानां दंसेभ्यः कवचेभ्य उत्सिच्यमानं यत् क्षतजं तेन परिप्लुते मार्गे मामभिससारेत्येव योजना । अन्यथा ‘‘विलसत्कवच’’ इत्यनेन पूर्वोत्तरविरोधस्स्यात् । किञ्च स्वमरणकाले भगवन्तं स्तुवन् कथं तद्वर्मोद्धातनं कुर्यात् । अतोऽपि छेदभेदादिकम् असुरजनमोहनाथमेव दर्शितम् । न वस्तुस्थितिदर्शनायेति गम्यते । किञ्च पार्थेनापि व्यर्थीकर्तुमशक्यं भगदत्तप्रयुक्तममोघास्त्रं यः स्वोरसा बभार कथमस्य छेदादिकमिति भावेनाह अपरीक्षतमेवेति । गुरोश्च हल इत्यत्र गुरोर् हलः संयुक्ताक्षरत्वाद् गुरोर् हलः क्षकारादकारप्रत्ययो भवतीति सूत्रार्थः । महतां दर्शनं दोषग्राहि नैवेत्यनेन ‘‘क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः । क्व चाखण्डितविज्ञानज्ञानैश्वर्येश्वरो हरिरि’’ति कृष्णयुद्धद्रष्टॄणां सिद्धानां वचनं गृह्यते । प्रमाणविरोधाच्चेत्युपलक्षणम् । इदमहं जानामीति त्रिपुटीप्रत्यक्षवादिना त्वयाऽपि अहंशब्दोक्तजीवस्यैव जानामीति ज्ञानज्ञातृत्वस्यैवोच्यमानत्वेन स्वव्याहतत्वात् । नहि ज्ञानमेवाहं मां जानामीति तवापि व्यवहारोऽस्ति । येन स्वप्रकाशत्वं स्यात् । किं चायं घट इत्यादिरूप एव व्यवसायः । तत्र च ज्ञानप्रसङ्गस्यैवाभावात्कथं स्वप्रकाशत्वम् । किन्तु घटमात्रप्रकाश इति शक्यते वक्तुम् । घटमहं जानामीति तु व्यवसायोत्तरकालीनानुव्यवसायरूपं ज्ञानमेवेत्यपि द्रष्टव्यम् ।

तत्र प्रामाण्यवद् भेदस्येत्यत्र यदि ज्ञानधर्माणां भेदानुभवत्वस्मृतित्वादीनां दोषवशादग्रहणम् । अतिदूरत्वादिदोषे ज्ञानग्रहेऽपि प्रामाण्याग्रहोऽस्तीति भावः । दोषाभावस्य साक्षिणा निश्चितत्वं क्वचिदिति वदता समीपस्थघटपटादिदर्शने देशविप्रकर्षत्वाख्यातिदूरत्वादिदोषाभावस्य साक्षिणा प्रागेव निर्णीतत्वात् । ज्ञानं गृह्णन् साक्षी तत्प्रामाण्यं सहैव गृह्णाति । अतिदूरत्वादिदोषे सति तु दोषाभावे प्रमाणमिति सम्मुग्धतया गृह्णाति । परीक्षायां तु प्रामाण्यमपि निश्चिनोति । काचादिदोषाभावे समीपगमनमेव परीक्षा । काचादिदोषे सति तु जलपानजन्यसुखपर्यन्तं परीक्षा । इदमेवाभिप्रेत्य परीक्षयेति शेष इति टीका । अतिप्रसङ्गादित्यत्र वस्तुगत्या घटे इदं द्रव्यमिति ज्ञानाद्घटत्वस्यापि सिद्धिप्रसङ्गात् । घटत्वाग्रहणे तत्र प्रतीयमानं द्रव्यं वस्तुगत्या तस्य घटत्वाद्यथा घटे पर्यवस्यति तथा विष्णुत्वाज्ञानेऽपि तत्र प्रतीयमानो दोषस्तस्य विष्णुत्वात्तत्रैव पर्यवस्यतीति चेन्न । तथासति विष्णोर्दोषत्वग्रहो यौक्तिक एव न प्रत्यक्ष इति त्वयैवोक्तम् । युक्तिश्च स्वतो दुर्बला । स्वलिङ्गग्राहकतयोपजीव्यवेदविरुद्धत्वेन सुतरां दुर्बलेति न त्वदभिलषितसिद्धिरिति सन्तोष्टव्यम् । उपजीव्यत्वमस्त्वलमिति वदता प्रतिभटशिरश्छेत्तुर्वीरभटस्य छेद्यस्य ग्रीवोपस्थापकः हन्यमानोऽप्युपजीव्य इत्युच्यते । तथा सति निषेधशास्त्रस्यैवानुत्थानप्रसङ्गात् । अतस्ततोऽन्यदेव धर्मिग्राहकादिकमुपजीव्यं कर्तव्यम् । इदं तूपजीव्यत्वं पारिभाषिकमेव न कार्यकारीति सूचितम् । रजतज्ञानस्येवापरीक्षितत्वादित्यनेन हि सार्वज्ञादीनामपरीक्षितत्वं परोऽभिप्रैति । न च तद्युक्तम् । अपौरुषेयतया निर्दोषवेदप्रमितत्वान्निरवकाशत्वादपूर्वत्वाज्जगत्सृष्ट्युपयोगितयाऽवश्यकत्वाच्च । अतः शङ्कैवेयं निर्मूलेति ज्ञेयम् । अप्रतिभासनादित्यत्र त्वमेव चिदसीत्येवकाराभावेन त्वदतिरिक्तचिन्मात्रं नास्तीत्यस्याप्रतिभासनादित्यर्थः । तस्य वियदादिसर्वसापेक्षत्वादित्यत्र व्यावहारिकवियदादिविषयतया सार्वज्ञ्यादेर् ब्रह्मस्वरूपत्वाभावं वदन् प्रातिभासिकशुक्तिरजतविषयसाक्षिणः प्रत्यगात्मस्वरूपतां कथं वदेत् । अतः स्वप्रक्रियाविरुद्धेयमाशङ्केत्यूह्यम् । परिसङ्ख्यान्यायेनेत्यस्य सङ्ख्याशब्देन सामान्यतः प्राप्तायामप्येकत्वसङ्ख्यायां पुनरेकत्वसङ्ख्येति विशेषणे द्वित्वादिसङ्ख्याव्यावृत्तिवदित्यर्थः । स्वार्थे प्रत्यय इत्यत्र तल्प्रत्ययः ष्यञ्प्रत्ययो वा । गुणवचनब्राह्मणादिभ्यः कर्मणि चेत्यत्र एतेभ्यः स्वार्थेऽण्प्रत्ययस्तेन न वृद्धौ चिदेव चैतन्यमिति भवतीत्यर्थः । शक्तिः कारकमिति पक्षस्य स्थितत्वाद्वचनक्रियायास्सर्वदाऽभावान्नित्यो वक्तेति कथमिति शङ्कायां वचनशक्तिरेव कारकम् । न तु वचनक्रियाऽपीत्यतो नित्यो वक्तेति घटत इति भावः । सर्वमिथ्यात्वस्याभावे व्याघातादित्यत्र अर्थाभावे वाक्यत्वमपि न स्यादिति व्याघातः । किञ्चिदर्थप्रतिपादनाय वक्तुं योग्यं हि वाक्यमिति भावः । विनाशेन जगन्नाशेनेत्यर्थः । बहुजीववादिनामिवेति । बहुजीवमतेऽमुक्तजीवान्तरदृश्यजगतस्सद्भावेऽपि तददर्शनादेव हि मुक्तस्य मुक्तत्वमिति भावः ।

अदर्शनेनाप्युपपत्तेरित्यत्र पूर्वं नाशेन मोक्षोपपत्तिरित्युक्तम् । अस्तु जगत् । तथाऽपि तददर्शनेन मोक्षोपपत्तिरित्याह सङ्गतिस्तूक्तसङ्गतिसमाहारेण द्रष्टव्येत्यत्र उक्तसङ्गत्या तर्हि निरवकाशवाक्यमप्रमाणं प्रसज्य इत्युक्तसङ्गत्येत्यर्थः । अन्यथाऽर्थान्तरकथनस्यासङ्गतिप्रसङ्गात् । यः पुरुषस्स स्थाणुरित्यारोप्यस्य व्यावर्तकत्वे यन्निदर्शनमुक्तं तदनानुभाविकं यद्रजतं सा शुक्तिरित्यादिव्यवहारस्य क्वाप्यदर्शनात् । यद्रजतत्वेन प्रतीतं सा शुक्तिरिति रजतत्वप्रकारकप्रतीतिविशेष्यत्वमेव व्यावर्तकतयोच्यते । तर्हीहापि यस्सर्वज्ञतया प्रतीतस्स त्वमसीति प्रतीतिविशेष्यतैवोप जीव्याऽस्त्विति चेन्न । प्रतीतशब्दस्य क्वापि वाक्येऽनुपलम्भात् । अतः श्रौतसार्वज्ञ्येनैव व्यावृत्तिर्वक्तव्या । व्यावर्तकस्य घटत्वादेस्सत्त्वमप्यावश्यकमिति विरोधापरिहार एव । अस्य चोपर्युपयोग इत्यत्र ‘‘तारतम्यं विमुक्तिगमि’’ति वक्ष्यमाणतारतम्योपयोग इत्यर्थः । पुरुषार्थोऽतः शब्दादित्यादिना ज्ञानस्य मोक्षसाधनत्वमुक्तमित्यत्र पुरुषार्थपदस्य सकलपुरुषार्थवाचकत्वात्स्वर्गसाधनत्वं मोक्षसाधनत्वमुभयमप्युक्तमिति भावः । दशामात्रं दत्तमिति यथेत्यत्र दशापदेन तन्तुरुच्यते । गभीरः पुरुषः पछोटिकां दत्वाऽपि दशामात्रं दत्तमित्येकदेशिनं यथोपलक्षयति तद्वदित्यर्थः । मुक्तिश्च द्विविधेत्यत्र यद्यपि मध्यमजीवानां लिङ्गशरीरभङ्गोऽस्ति । तथापि तदनन्तरं संसार इव स्वरूपभूतयोर्नित्यसुखदुःखयोः पुनरप्यनुभवाद् दृढसंसारितैवेति न सा मुक्तित्वेन शङ्किता । संसारान्मोक्षो हि मोक्ष इति ज्ञेयम् । स्वविरोधेन चाञ्जसेति वदता इदं सूचितम् । ‘‘गोप्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादयो नृपाः । सम्बन्धाद्वृष्णयः स्नेहाद्यूयं भक्तया वयं विभोरि’’ति भागवतवाक्ये गोपीनां कामाच् चैद्यादीनां द्वेषान्मोक्ष उच्यते । न च ताः केवलं कामान्धाः । ‘‘न खलु गोपिकानन्दनो भगवानखिलदेहिनामन्तरात्मदृक् । विखनसार्चितो विश्वगुप्तये सख उदेयिवान् सात्वतां कुल’’ इति तासु ज्ञानस्य सखे इति सस्विपदोक्तभक्तस्नेहस्य च तत्रैवोपलम्भात् । शिशुपालदन्तवक्रयोर्जयविजयापरनाम्नोर्भगवद्द्वारपालकत्वेन भागवत एवोक्तयोर्बहुकालं हरिसेवादिरूपभक्तिज्ञानादिगुणानामपि सूचितत्वात् । अत ईषत्कामसहितज्ञानभक्तयादिगुणादसुरावेशनिमित्तेषद्द्वेषसहित ज्ञानभक्तयादेरेव मुक्तिरित्यर्थो वाच्यः । अन्यथा ‘‘कतमोऽपि न वेनस्य पञ्चानां पुरुषं प्रती’’त्युत्तरवाक्ये केवलभक्तयभावस्य स्वतस्सिद्धत्वात् पञ्चानां साधनानां कतमोऽपि नेति निषेधः क्रियते । द्वेषपदस्य केवलद्वेषवाचकत्वे ‘‘भगवन्निन्दया वेनो द्विजैस्तमसि पातित’’ इति पूर्ववाक्ये द्वेषोद्रेकनिमित्तनिन्दया तमःप्राप्तिश्रवणात् । द्वेषोऽपि परिपूर्ण इति गम्यते । अतः पूर्वोत्तरवाक्ययोः परस्परविरोधस्स्यात् । ईषद्द्वेषसहितभक्तयादिगुणादित्यर्थकथने ‘‘कतमोऽपि न वेनस्ये’’त्युत्तरवाक्यनिषेधोऽपि घटते । ‘‘भगवन्निन्दये’’ति केवलद्वेषाभिधायकपूर्ववाक्यं च घटते । अत आपातार्थग्रहणे पुराणवाक्ययोः पूर्वोत्तरविरोधः ।

किञ्च स्वसम्बन्धिनो राज्याधिपतेरलङ्कृतमन्दिरस्यापि दुर्योधनस्य गृहे पानीयमात्रमप्यस्वीकृत्य शूद्रीपुत्रस्यापि भक्तिमतो विदुरस्य गेहेऽल्पमपि बह्वीकृत्य स्वीकृतवतः कृष्णस्य द्वेषान्नैव प्रसादः किंतु भक्तयैव प्रसीदतीति सर्वानुभसिद्धं वाक्यशतेनापि नान्यथयितुं शक्यते । नहि गङ्गापदप्रयोगेऽपि तीरमतीरं कर्तुं शक्यम् । किंतु गङ्गापदमेव मुख्यवृत्त्यसम्भवेऽमुख्यवृत्त्या योज्यते । तथाऽत्रापि किमपूर्वमिति । एतेनालौकिकत्वाद्विद्विषोऽपि भगवान् प्रसीदतीति च निरस्तम् ।

सत एव पदार्थस्येति यथेत्यत्र सत एव मुख्यस्यैव पदार्थस्यैवेत्यर्थः । तेन घटशब्दस्य घट एव मुख्यार्थः । लाक्षणिकादिस्त्वमुख्यार्थ इति भावः । मातुरन्नं दीयते तथा शिशोरपीत्युक्ते मातुस्तथैव दातव्यं शिशोस्तु मृद्वीकृत्य दातव्यमिति तत्तद्योग्यतानुसारेणेति यथा लभ्यते तथेति भावेनाह यथा देवे देवयोग्येति । राज्ञि धनकनकादिना यत्सन्माननं क्रियते ततोऽपि किञ्चिदूनं राज्ञोऽतिप्रियायां राज्ञ्याम् । ततोऽपि किञ्चिदूनं तदनन्तरप्रिये राजकुमारे । ततोऽपि किञ्चिदूनं राजमत्र्यादिष्वित्यादेरर्थस्य लोके बहुलमुपलम्भात् । भगवद्भक्तेष्वपि भगवद्भक्तयनुसारेणैव भक्तिः कार्येत्याह विष्णुप्रसादानुसारादिति

॥ ३४५,६ ॥

अथ फलश्रुत्यधिकरणं

न च देवासुराणां कर्तृत्वनिमित्तफलाभावेऽपीत्यत्र स्वैः क्रियमाणं कर्म सुकृतं दुष्कृतं वा तत्तत्कर्तृत्वनिमित्तफलाभावेऽपीत्यर्थः । तर्हि देवानां मानुष्यं पापफलं मानुषाणां तिर्यक्तवमिव नीचपदवीत्वात् पापफलम् । असुराणां वीरस्वर्गादिकं च धर्मयुद्धादिपुण्यफलम् । एवं च स्वकृतपापफलाभावे पुण्यप्रेरकाणां पापप्रेरणेऽपि विष्ण्वाज्ञाकरणेन पुण्यरूपत्वान्मनुष्यादि कृतपापलेपरहितानां मानुष्यं कथं स्यात् । असुराणां च पापमात्रप्रेरकाणां स्वर्गोपभोगोऽपि केन स्यात् । मनुष्याणां च कर्तृत्वाविशेषाद् देववद् असुरवच्च स्वकृतपुण्यपापालेपोऽपि स्यात् । नापि प्रेरणनिमित्तपुण्यपापलेप इति सर्वथा मानुषाणां निरयादिप्राप्तेरसम्भवादिति समुदायार्थमभिप्रेत्योक्तं देवानामित्यादि ॥ ३४७,८,९ ॥

इति श्रीमद्वादिराजपूज्यचरणविरचितायां गुर्वर्थदीपिकायां तृतीयाध्यायस्य चतुर्थः पादः ॥

तृतीयाध्यायः समाप्तः