०७ अनुमानेनापि शुभाशुभफलप्राप्तियोग्यत्वसमर्थनम्

तस्मान्निरयमानुष्यस्वर्गमुक्त्युपभोगिनः

अनुमानेनापि शुभाशुभफलप्राप्तियोग्यत्वसमर्थनम्

तस्मान्निरयमानुष्यस्वर्गमुक्त्युपभोगिनः

सुधा

युक्तिमप्याह तस्मादिति ।

अनुव्याख्यानम्

तस्मान्निरयमानुष्यस्वर्गमुक्त्युपभोगिनः ॥

मानुषोत्तममारभ्य ……. ……. ……

कर्तुः शुभाशुभफलसद्भावादेव मानुषोत्तममारभ्य देवपर्यन्ता दैत्यपर्यन्ताश्च निरयाद्युपभोगिन इति युज्यते नान्यथेत्यर्थः । उक्तस्यापवादमाह देवास्त्विति ।

अनुव्याख्यानम्

……….. देवास्तु निरयं विना ॥

असुरास्तु विना मुक्तिं तमोऽन्धमपि चाप्नुयुः ॥

इति तत्त्वविवेकोक्तं स्वयं भगवतो वचः ॥ ३४७ ॥

अन्यफलोपभोगिनः । न केवलमसुराणं मुक्त्यभावः किन्त्वन्धन्तम्रोपि चाप्नुयुः ।

एतदुक्तं भवति । मनुष्योत्तमास्तावन्निरयमानुष्यस्वर्गमुक्तीः प्राप्नुवन्ति । देवाश्च मानुष्यस्वर्गमुक्तीः । असुराश्च स्वर्गमानुष्यनिरयान्धतमसानि । न च निरयादीनि निर्निमित्तानि । न च स्वकृतपापादीनि विना निमित्तमस्ति । तस्मात्कर्तुरप्यस्ति शुभाशुभफलप्राप्तिरिति ज्ञायते । अन्यथा निरयाद्यभावप्रसङ्गात् । न च वाच्यं सुरासुराणां कर्तुत्वप्रयुक्तफलाभावेऽपि प्रेरणनिमित्तफलसदनभावान्मुक्त्याद्युपपत्तिरिति । देवानां मानुष्यप्राप्तेरयोगात् । दैत्यानां स्वार्गादिप्राप्तेरनुपपत्तेः । सर्वथा मनुष्याणां निरयादिप्राप्तेरसम्भवादिति । तदिदमुक्तं मानुषोत्तममारभ्येति, मनुष्योत्तमानामादित्वोक्त्या, निरयाद्यनेकफलोक्त्या च । वचोऽस्तीति शेषः ॥ ३४७ ॥

वाक्यार्थचन्द्रिका

ननु च मनुष्योत्तमादीनां निरयादिमत्त्वस्यैवासिद्धेः सिद्धौ वा निर्निमित्तकस्यैवोपपत्तेः सनिमित्तकत्वेऽपि वा स्वकृतपापादिव्यतिरिक्तयत्किञ्जिन्निमित्तप्रयुक्तत्वोपपत्तेः कर्तृत्वप्रयुक्तफलाभावेऽपि प्रेरणादिनिमित्तफलसद्भावादन्यथोपपत्तेश्च नानया युक्त्या कर्तुः फलसिद्धिरित्यत आह एतदुक्तं भवतीति । मानुष्यस्वर्गमुक्तीरित्यादौ प्राप्नुवन्तीत्यनुवर्तते । सकलप्रमाणप्रमितत्वादस्यार्थस्य नापन्हवः सम्भवतीति भावः ॥ न चेति । तथा सति कादाचित्कत्वानुपपत्तेरिति भावः ॥ न चेति । दृष्टादृष्टपरित्यागकल्पनाप्रसङ्गादिति भावः । अन्यथासिद्धिमाशङ्क्य निषेधति न चेति ॥ देवानामिति । मनुष्यप्राप्तेरशुभफलत्वाद्देवानां चाशुभफलाभावस्य ‘अशुभत्वं शुभेऽप्येषां स्वातन्त्र्यात्प्रीतितो हरेः । आज्ञया चान्यगं नैव भोगाय भवति क्वचिदि’त्यादिनोक्तत्वान्न देवानां मानुष्यप्राप्तिर्युक्तेत्यर्थः ॥ दैत्यानामिति । तेषां शुभकर्मप्रेरकत्वाभावेन तत्फलीभूतस्वर्गादिप्राप्तेरयोगादित्यर्थः ॥ सर्वथेति । तेषामन्यप्रेरकत्वस्यैवाभावादित्यर्थः । (कर्तृत्वेनैव फलमङ्गीकार्यमिति भावः) । मनुष्याणां निरयादिप्राप्तेः सर्वथाऽसम्भवस्य मूलाभिप्रेततां ज्ञापकोक्त्या परिहरति मनुष्योत्तमानामिति । तत्रैव ज्ञापकान्तरमाह निरयाद्यनेकेति । निरयादिचतुर्विधेत्यर्थः ॥ ३४७ ॥

***परिमल ***

मूले विवेकस्यास्फुटत्वादाह एतदुक्तं भवतीति ॥ मानुष्यप्राप्तेरयोगादिति । मानुषयोनिप्राप्तेर्विष्णुपूजादिरूपप्रेरणाफलत्वायोगादिति भावः ॥ दैत्यानां स्वर्गादीति । तत्प्राप्तेः शुभफलत्वेन दैत्यानां शुभप्रेरकत्वाभावादिति भावः ॥ सर्वथेति । अस्य पदस्यासम्भवादित्यनेनान्वयः। तेषां परपुरुषाप्रवेशनात् तत्प्रेरकत्वाभावादिति भावः ॥ फलोक्त्या चेति । उक्तमिति पूर्वेणान्वयः

॥ ३४७ ॥

यादुपत्यं

सर्वथा मनुष्याणामिति । तेषामन्यप्रेरकत्वाभावादिति भावः ॥ ३४७ ॥

श्रीनिवासतीर्थीया

सर्वथा मनुष्याणामिति । तेषां सर्वथा प्रेरकत्वाभावेन तत्प्रयुक्तफलाभावात्कर्तृत्वप्रयुक्तमेव फलमङ्गीकार्यमिति भावः ॥ ३४७ ॥

॥ इति फलश्रुत्यधिकरणम् ॥