०६ साधनानुष्ठातुरपि फलयोग्यत्वम्

ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ ॥

साधनानुष्ठातुरपि फलयोग्यत्वम्

ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ ॥

सुधा

ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ ॥ ॐ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ ॥ एवं प्रपञ्चेन पूर्वपक्षमुक्त्वा सिद्धान्तसूत्रतात्पर्यमागमवाक्येनाह यद्यपीति ।

अनुव्याख्यानम्

ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ ॥

ॐ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ ॥

यद्यप्येवं सुराणां च दैत्यानां च महत्फलम् ॥

शुभाशुभेभ्य एवं च कर्तुश्च स्याद्यथोदितम् ॥

एवमुक्तप्रकारेण यद्यपि शुभाशुभेभ्यो ज्ञानादिभ्यो भवत्फलं सुराणां च दैत्यानां च भवतीत्युपपादितम् । एवञ्च तथाऽपि कर्तुर्देवदत्तादेरपि फलं स्यादेव । आगमेऽप्यस्यार्थस्य प्रकृतत्वाद्यद्यपीत्यादि युज्यते । एतदुक्तं भवति । देवासुराणां शुभाशुभफलमित्येतावदभ्युपगम्यते प्रमितत्वात् । तेषामेवेति तु न क्षम्यते । किन्तु कर्तुरपि भवतीति । कर्तुः फलाङ्गीकारे यदु किञ्चेमाः प्रजा इति सावधारणश्रुतिविरोध आत्रेयवचनविरोधश्च स्यादित्यत उक्तं महदिति । देवादीनां महत्फलं कर्तुस्त्वल्पम् । अल्पस्य चासत्त्वविवक्षा बहुलमुपलब्धेति भावः ।

कुतः कर्तुः फलाङ्गीकार इत्यत आह यथोदितमिति । श्रुतिस्मृतिसद्भावादित्यर्थः । ताश्च भाष्यादावुदाहृता द्रष्टव्याः ।

वाक्यार्थचन्द्रिका

ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ ॥ ॐ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ ॥ बहुलमुपलब्धेरिति । अनुदरा कन्या, अलोमिकैडिकेत्यादाविति शेषः ॥ भाष्यादाविति । ‘ज्ञानादिदानं देवानां विष्णुना साधु चोदितम् । वेदेषु तेषां विहितं तत्राचार्यो महत्तरम् । विहितः सहकारित्वे सहकार्यन्तरं प्रजाः । पातृत्वेन यथा राज्ञो यथा शिष्या गुरोरपि । तस्माच्छतं फलं तासामाचार्याणां महत्तरम् । ततो महत्तरं प्रोक्तमि’ति वाराहवचनं भाष्योदाहृतम् । ‘त्वरयैव मनुष्याणां सिद्धिरत्वरयैव तु । देवानां तत्प्रसादेन मुक्तिरेव सतां नृणमि’त्यादिपदोपात्तन्यायविवरणोदाहृतश्रुत्यादिवाक्यमित्येवमाद्याः श्रुतिस्मृतयो भाष्यन्यायविवरणोदाहृता द्रष्टव्या इत्यर्थः ।

***परिमल ***

एवं चेत्यनुवादः । तथापीति व्याख्या ॥ अस्यार्थस्येति । शुभाशुभफलं क्रमाद्देवासुराणां महदित्यस्यार्थस्येत्यर्थः । श्रुतीति । स्वामिन इत्यत्र भाष्योक्तश्रुतिविरोध इति भावः ॥ अल्पस्येति । लोके अल्प(स्वोनिः)स्वे निःस्व इति अल्पसु(खीन)खिनि न सुखीति अल्प(ज्ञोनवि)ज्ञानेऽविद्वानित्यादेर् वेदे च नाल्पे सुखमस्तीति नान्योऽतोऽस्ति द्रष्टेत्यादेर्दर्शनादिति भावः ॥ भाष्यादाविति । न्यायविवरणमादिपदार्थः ।

यादुपत्यम्

बहुलमुपलब्धेति । अल्पस्वादौ निःस्वादिप्रयोगदर्शनादिति भावः ।