युक्तयोऽपराः
अशुभफलाभावे युक्तयः
युक्तयोऽपराः
सुधा
व्यवस्थापकान्तरमाह युक्तय इति ।
अनुव्याख्यानम्
…….. ……. युक्तयोऽपराः ॥
अपराः पूर्वोक्ताभ्याम् । उक्तेऽर्थे मानमिति सम्बन्धः ।
कास्ता युक्तय इत्यतस्ता दर्शयितुमागमवाक्यं पठति उपासनेति ।
अनुव्याख्यानम्
उपासनाधर्मफलं यतो देहान्तरे स्थितिः ॥
वासुदेवाज्ञया चैव पूर्वकर्मानुसारतः ॥
प्रेरयन्ति हि ते जीवान्पुण्यपापेषु नित्यशः ॥
अरागद्वेषतश्चैव कथं दोषानवाप्नुयुः ॥
हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यते ॥
हरिपूजेति चोद्देशात्कथं न शुभमाप्नुयुः ॥
यतः कारणाद्देहान्तरे स्थितिः, परपुरं प्रविश्य तत्र पुण्यपापप्रेरणं, देवानां भगवदुपासनाजनितधर्मफलम् । अतः कथं पापादिकं प्रेरयन्तोऽपि दोषानवाप्नुयुः । न हि सात्त्विको धर्मो दुःखपर्यवसायी । तत्त्वव्याघातादित्यर्थः । परपुरे देवानां पापादिप्रेरणं न दुःखहेतुः । सात्त्विकधर्मफलत्वात्तत्त्वज्ञानवदित्युक्तं भवति । किञ्च ते देवा वासुदेवाज्ञयैव न तु स्वेच्छया तत्तत्कृतपूर्वकर्मानुसारत एव । अत एवारागद्वेषतो रागद्वेषौ विनैव नित्यशो जीवान्पुण्यपापेषु प्रेरयन्ति हि यस्मात्तस्मात्कथं दोषानवाप्नुयु; । प्रभोराज्ञयाऽपराधानुसारेण चोरशासकराजपुरुषवदिति भावः । पापादिप्रेरणेन देवानामशुभं न भवतीत्येव केवलं न, किन्तु हर्याज्ञाऽनुष्ठानाज्जयोतिष्टोमाद्यनुष्ठातृभिरिवैभिर्देवैः पुण्यमेवाप्यते । किञ्च स्वविहितपरप्रेरणे हरिपूजेयमिति चोद्देशात्कथं देवा न शुभमाप्नुयु; । अत इत्युपसंहारः ।
अनुव्याख्यानम्
अतो यथाक्रमं धर्मज्ञानयोः फलमञ्जसा ॥
सर्वप्राणिगतं देवाः प्राप्नुवन्त्याविरिञ्चतः ॥
धर्मज्ञानयोरेवेति योज्यम् । प्राप्नुवन्तोऽप्याविरिञ्चतो यथाक्रमं प्राप्नुवन्तीत्यपूर्वोक्तिर्नोपसंहारः । अन्यगतं ज्ञानादिफलं देवाः प्राप्नुवन्ति । देवगतं तु कथमित्यपेक्षायामुक्तं देवा इति ।
अनुव्याख्यानम्
देवा एव हि देवानां विशिष्टा विनियामकाः ॥
देवानामपकृष्टानाम् । अतस्तदीयज्ञानादिफलं तेषां भवतीति शेषः । ब्रह्मा त्विति आविरिञ्चत इत्युक्तस्य विवरणम् ।
अनुव्याख्यानम्
ब्रह्मा त्वखिलदेवानां नराणं च नियामकः ॥
अतः सर्वगुणानेव प्राप्नोत्यधिकमन्यतः ॥
देवादिग्रहणमुपलक्षणम् । अधिकमिति क्रियाविशेणम् ।
भवत्वन्यगतज्ञानादिफलप्राप्तिर्देवानाम् । तत्रापि तारतम्ये को हेतुरित्यत उक्तं द्रव्येति ।
अनुव्याख्यानम्
द्रव्यस्वातन्त्र्यविज्ञानप्रयत्नैरधिकं फलम् ॥
देवानामन्यगं चापि तेषु हि ब्रह्मणोऽधिकम् ॥
बृहत्तन्त्रोदितं वाक्यं हरिणा फलनिर्णये ॥
द्रव्याणीन्द्रियादीनि तेषु स्वातन्त्र्यं द्रव्यस्वातन्त्र्यं विज्ञानप्रयत्नौ धर्माद्युत्पादनिमित्ते । अधिकैरिति शेषः । चशब्दोऽनुक्तसमुच्चयार्थः । मध्यमैर्द्रव्यस्वातन्त्र्यादिभिर्मध्यमम् । अल्पैरल्पमिति । तेष्वपि देवेषु निरवधिकद्रव्यस्वातन्त्र्यमत्त्वादिति हिशब्दार्थः । फलनिर्णय इति तत्रापि प्रकरणविशेषोक्तिः ।
द्रव्यस्वातन्त्र्याद्यतिशयात्फलातिशय इत्युक्तस्य व्याप्तिं दर्शयति लोकेऽपीति ।
अनुव्याख्यानम्
लोकेऽप्येतादृशगुणैः फलाधिक्यं हि दृश्यते ॥
एतादृशगुणैरित्यधिकैर्द्रव्यस्वातन्त्र्यादिभिः समुदितायां कृषौ, यस्याधिकं क्षेत्रादिद्रव्यस्वातन्त्र्यं, यस्य चाऽऽवापादौ ज्ञानप्रयत्नाधिक्यं तस्य फलाधिक्यं दृश्यत इत्यर्थः । एवं मध्यल्पयोरप्युदाहर्तव्यम् । अनेन स्वातन्त्र्यतारतम्येनेत्युक्तमुपपादितं भवति ।
वाक्यार्थचन्द्रिका
तत्त्वव्याघातादिति । शुभमात्रपर्यवसायिन एव धर्मस्य सात्त्विकधर्मस्वरूपतया शास्त्रनिर्णीतत्वादित्याशयः । ज्ञानकर्मफलं चैष्वित्युक्तस्यैव पुनः प्रतिपादनात्पौनरुक्त्यमाशङ्क्याह अत इत्युपसंहार इति । ननु शुभफलमेव प्राप्नुवन्तिनाशुभफलमित्युक्तस्य कथमुपसंहार इत्यतः सावधारणत्वमाश्रित्य तदुपपादयति धर्मज्ञानयोरेवेति योज्यमिति । तर्हि प्राप्नुवन्त्याविरिञ्चत इत्युपसंहारः किमित्यत आह प्राप्नुवन्तोऽपीति ॥ अपूर्वोक्तिरिति । प्रतिज्ञोक्तिरित्यर्थः । अस्यार्थस्याग्रे उपपादयिष्यमाणत्वादित्यर्थः ॥ देवादिग्रहणमुपलक्षणमिति । देवानां चेत्येतदृषिगन्धर्वपितृपादानामप्युपलक्षणम् । न देवमात्रपरम् । आदिपदेन नराणं चेत्येतदपि दैत्यरक्षः पिशाचादेरप्युपलक्षणम् । न तु नरमात्रपरमित्यर्थः । अधिकमित्यस्य गुणविणतायां गुणानिति बहुवचनानुरोधेनाधिकानिति बहुवचनेन भवितव्यम् । अधिकमित्येकवचनं तु कथमित्यतोस्य साधनं परित्यज्य धात्वर्थमात्रविणत्वेन क्रियाविणत्वात्तेषां च क्रियाद्वारा स्त्रीलिङ्गत्वे प्राप्ते तद्बाधेन क्रियाव्ययविणानां क्लीबत्त्वैकवचनान्तत्वयोरनुशासनान्नानुपपत्तिरित्याशयेनाह अधिकमितीति ॥ तत्रापि तारतम्य इति । फलप्राप्तावपि तारतम्य इत्यर्थः । यद्यपि ‘स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेदि’ति तारतम्येन फलप्राप्तौ स्वातन्त्र्यतारतम्यस्य हेतुत्वेनोक्तत्वान्न पुनर्हेत्वाकाङ्क्षा युज्यते । तथाऽपि हेतुत्वेनोपन्यस्तं स्वातन्त्र्यतारतम्यमेवोपपादयितुमियमाशङ्का । अत एवानेन स्वातन्त्र्यतारतम्येनेत्युक्तमुपपादितं भवतीत्युत्तरत्र वक्ष्यतीति ध्येयम् । द्रव्यस्वातन्त्र्यविज्ञानप्रयत्नानां फलप्राप्तिहेतुत्वेऽपि तत्तारतम्यहेतुत्वासम्भवान्न तथोक्तिर्युक्तेत्यतोऽपेक्षितपूरणेन तदुक्तिमुपपादयति अधिकैरिति इति । मूले चशब्दानर्थक्यमित्याशङ्क्य तत्प्रयोजनमाह चशब्द इति । अनुक्तसमुच्चेयमेव दर्शयति मध्यमैरित्यादि । तथाऽप्यपिपदस्य वैयर्थ्यमित्यतो भिन्नक्रमतया तद्योजयति तेष्वपीति ॥ निरवधिकेति । यद्यपि भगवतो रमायाश्च तदवधिकत्वान्न निरवधिकद्रव्यस्वातन्त्र्यादिमत्त्वं तस्यास्ति तथाऽपि देवेषु निरवधिकद्रव्यस्वातन्त्र्यादिमत्त्वमप्रत्यूहमेव विद्याकर्मभ्यां प्राप्तदेवपदानामेव देवशब्देन विवक्षिततयाऽतादृशयोर्लक्ष्मीनारायणयोरदेवत्वादित्याशयात् ।
***परिमल ***
पूर्वोक्ताभ्यामिति । तरतमभावापन्नस्वामित्वहर्याज्ञारूपाभ्यामित्यर्थः । स्थितपदात्कर्मापि ग्राह्यमिति भावेनोक्तं तत्र पुण्यपापप्रेरणमिति ॥ तत्त्वव्याघातादिति । सात्विकधर्मत्वव्याघातादित्यर्थः । सुखपर्यवसायित्वस्वभावत्वात्तस्येति भावः । परपुरे परदेहे । आगमशेषं योजयति किञ्चेत्यादिना । प्रागनुक्तेराह नोपसंहार इति ॥ देवादिग्रहणमिति । देवानां नराणां चेत्युक्तिर्देवर्षिगन्धर्वाद्यप्राण्युपलक्षणमित्यर्थः ॥ तत्रापीति । बृहत्तन्त्रेपीत्यर्थः ।
यादुपत्यम्
ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ ॥ तत्त्वव्याघातादिति । सुखमात्रपर्यवसायिन एव धर्मस्य सात्विकधर्मस्वरूपतया शास्त्रे निर्णीतत्वादिति भावः ॥ देवादिग्रहणमिति । देवानां चेत्येतदृषिगन्धर्वपितृपादीनामप्युपलक्षणमित्यर्थः । आदिपदेन नराणां चेत्येतदपि दैत्यरक्षः पिशाचादेरुपलक्षणमित्यर्थः ॥ निरवधिकद्रव्येति । लक्ष्मीनारायणयोरवधिभूतयोः सत्त्वादिदमसिद्धमिति न वाच्यम् । देवेष्विति निर्धारणसप्तम्या हेतावपि विवक्षितत्वात् । लक्ष्मीनारायणौ च न देवौ । विद्याकर्मभ्यां प्राप्तपदानामेवात्र देवशब्देन विवक्षितत्वादिति भावः ।
श्रीनिवासतीर्थीया
अपूर्वोक्तिर् यथाक्रममित्यंशः ।
वाक्यार्थरत्नमाला
क्रियाव्ययविणानामित्यादिनेति ॥ इदं चेत्यादीक्रियाविणमित्याद्यानन्दमयाधिकरणादि मूलटीकाप्रपञ्चे निरूपितमवधेयम् ॥