१५ अनुमानैरुक्तार्थसमर्थनम्

हरिद्वेषो न शुभदः सद्द्वेषत्वाद्यथा गुरोः

अनुमानैरुक्तार्थसमर्थनम्

हरिद्वेषो न शुभदः सद्द्वेषत्वाद्यथा गुरोः

सुधा

उक्तार्थेष्वनुमानान्तराण्याह हरीति ।

अनुव्याख्यानम्

हरिद्वेषो न शुभदः सद्द्वेषत्वाद्यथा गुरोः ॥

क्रमाद्भक्तिर्हरिप्रतीतिकारणं तत्प्रियोपगा ॥

भक्तिर्यतो यथा स्वस्मिन्नित्याद्या युक्तिरत्र च ॥

सद्द्वेषत्वाद् उत्तमपुरुषद्वेषत्वात् । वैष्णवैर्दैत्यादिषु क्रियमाणे द्वेषे व्यभिचारं वारयितुं सदित्युक्तम् । गुरोर्द्वेषः । प्राग्द्वेषस्य भगवत्प्रसादसाधनत्वाभावे सामान्यव्याप्तिमाश्रित्य भगवद्द्वेषत्वं हेतुरुक्तो ऽत्र तु शुभमात्रसाधनत्वाभावे विव्याप्तिमेवाश्रित्य सद्द्वेषत्वमिति महान्भेदः ॥ क्रमाद्भक्तिरिति । क्रममनुसृत्य रमादिषु भक्तिर्धम्रिणीत्यर्थः ॥ तत्प्रियोपगा भक्तिर्यत इति । हरिप्रियविषयभक्तित्वादित्यर्थः । तत्प्रियानुपगच्छति विषयीकरोतीति तत्प्रियोपगा । या यत्प्रियविषया भक्तिः सा तत्प्रीतिकारणम् । यथा स्वस्मिन्भक्तिः । अत्र स्वशब्देन देवदत्त उच्यते । यथा राजप्रिये देवदत्ते भक्ती राजप्रीतिकारणमित्यर्थः । इह क्रमादिति प्रतिज्ञायां विणप्रक्षेपेण भगवद्भक्तभक्तेः कर्तव्यत्वं तत्तारतम्यस्य चावश्यकत्वं सिध्यति । यद्वाऽनेन प्रयोगद्वयं सूचयति । भागवतभक्तिर्भगवत्प्रीतिकारणं भगवत्प्रियभक्तित्वादिति । भगवान्रमादिषु तारतम्योपेतभक्त्यैव प्रसीदति । तारतम्येनैव तद्विषयप्रीतिमत्त्वादिति च । युक्तिश्चेति सम्बन्धः । अत्र प्रागुक्तेऽर्थे ।

किं सामान्यव्याप्त्या, विव्याप्तिरप्यस्तीत्याशययेन प्रयोगान्तरमुच्यते प्राधान्येति ।

अनुव्याख्यानम्

प्राधान्यतारतम्यानुसारिणी भक्तिरुत्तमा ॥

प्रीतिदैव हरेर्यस्माद्भक्तिः सा स्वोपगा यथा ॥

इति वा ॥ ३४५,६ ॥**

उत्तमत्वतारतम्यानुसारिणी रमादिषु भत्तिर्हरेः प्रीतिदैव । यस्मात्सोत्तमा भक्तिः ॥ शास्त्रविहितभक्तित्वादित्यर्थः । स्वोपगा सा विष्णुविषया भक्तिर्यथेत्यर्थः । इति वा अनुमातव्यमिति शेषः । अत्रापि पूर्ववद्विशिष्टसाधनात्पृथक्प्रयोगद्वयेन वा साध्यद्वयसिद्धिः ॥ ३४५,६ ॥

वाक्यार्थचन्द्रिका

‘न हि प्रसादमाप्नोति द्वेषादि’त्यादिपूर्वग्रन्थेनास्य पौनरुक्त्यमाशङ्क्य प्रमेयभेदोपदर्शनेन तत्परिहरति प्रागित्यादिना । ननु रमादिषु प्रीतिर्भगवत्प्रीतिकारणमित्येतावतैव भगवद्भक्तभक्तेः कर्तव्यत्वसिद्धेः किं प्रतिज्ञायां क्रमादिति विणेनेत्यतस्तन्मात्रेण तद्भक्तभक्तेः कर्तव्यत्वसिद्धावपि प्राक्प्रतिज्ञातस्य तारतम्येन कर्तव्यत्वस्यासिद्धेस्तस्यापि सिद्ध्यर्थं तदुपादानमित्याह इहेति । ननु च रमादिषु प्रीतिर्हरेः प्रीतिदैवेत्येतावतैव तत्कर्तव्यत्वसिद्धेः किमुत्तमत्वतारतम्यानुसारिणीति प्रतिज्ञायां विणेनेत्यतस्तावता तत्कर्तव्यतासिद्धावपि तारतम्येन कर्तव्यतायाः प्राक् प्रतिज्ञातायास्तावताऽसिद्धेः प्राचीनानुमाने क्रमादिति विणवदेतद्विणस्यापि तत्तारतम्येन कर्तव्यत्वसिद्ध्यर्थत्वादवैयर्थ्यमिति भावेनाह अत्रापीति । इह टीकायां पूर्ववद्विशिष्टसाधनादित्येव मूलपाठः । तस्य चोत्तमत्वतारतम्यानुसारिणीति विरविशिष्टे रमादिविषयभक्तिरूपे धर्मिणि हरिप्रीतिदत्वसाध्यस्य साधनाद्भक्तेः कर्तव्यत्वस्य तत्तारतम्यस्य चावश्यकत्वसिद्धेर्न प्रतिज्ञायां विणवैयर्थ्यमित्यर्थः ॥ पृथक् प्रयोगद्वयेनेति । रमादिषु भक्तिर्हरिप्रीतिदा शास्त्रविहितभक्तित्वाद्विष्णुभक्तिवत् तारतम्योपेता च तत एव तद्वदेवेति प्रयोगद्वयेन साध्यसिद्धेस्तत्सूचकत्वान्न विणवैयर्थ्यमित्यर्थः ॥ ३४५,६ ॥

**परिमल **

ल्यब्लोपे पञ्चमीत्युपेत्याह क्रममनुसृत्येति ॥ धर्मिणीति । तत्तत्प्रीतिकारणत्वरूपसाध्यं प्रति धर्मिभूतेत्यर्थः ॥ भगवद्भक्तभक्तेः कर्तव्यत्वमिति । क्रमादित्यस्य क्रममनुसृत्य रमादिष्विति व्याख्यानादिति भावः ॥ इति चेति । प्रयोगद्वयमितिपूर्वेणान्वयः ॥ विशिष्टसाधनादिति । उत्तमत्वानुसारिणी रमादिषु क्रियमाणेत्येवमुत्तमत्वानुसारित्वविणयुक्तभक्तिं धर्मीकृत्य साधनादित्यर्थः ॥ पृथक् प्रयोगद्वयेनेति । भगवद्भक्तेषु रमादिषु भक्तिर् भगवत्प्रीतिदा शास्त्रविहितभक्तित्वात्, रमादिषु तारतम्येन क्रियमाणैव भक्तिर्भगवत्प्रीतिदा उक्ताद्धेतोरित्येवंरूपेणेत्यर्थः । देवतादिभक्तेः कर्तव्यत्वे तारतम्येन कार्यत्वे चागमयुक्त्योरुक्तिः ॥ ३४५,६ ॥

यादुपत्यं

विशिष्टसाधनादिति । उत्तमत्वतारतम्यानुसारिणीति विणविशिष्टे रमादिविषयभक्तिरूपे धर्मिणि हरिप्रीतिदत्वरूपसाध्यस्य साधनादित्यर्थः । उत्तमत्वतारतम्यानुसारिणीति विणविशिष्टस्य हरिप्रीतिदत्वस्य साधनादिति वाऽर्थ । सर्वोत्तमतया कृताया एव विष्णुभक्तेर्हरिप्रीतिदत्वान्न दृष्टान्ते साध्यवैकल्यम् ॥ प्रयोगद्वयेन वेति । रमादिषु भक्तिर् हरिप्रीतिदा शास्त्रविहितभक्तित्वाद्विष्णुभक्तिवत् । रमादिषु भक्तिरुत्तमत्वतारतम्यानुसारेण कर्तव्या तारतम्योपेतशास्त्रविहितभक्तित्वात्तद्वदेवेति प्रयोगद्वयेन वेत्यर्थः ॥ ३४५,६ ॥

॥ इति उभयलिङ्ग–आधिकारिकाधिकरणे ॥