वाचकत्वं हि तात्पर्यं
उक्तार्थसमर्थनम्
वाचकत्वं हि तात्पर्यं
सुधा
कथमिदं लभ्यते । अर्थशब्दो मुख्यं प्रतिपाद्यमाह । ‘सत एव पदार्थस्ये’ति यथा । स चैकवचनान्तः । तेन च तत्प्रतिपादकत्वं लक्ष्यत इति । कथमयं हातात्पर्यशब्दार्थ इत्यत आह वाचकत्वं हीति ।
अनुव्याख्यानम्
वाचकत्वं हि तात्पर्यं ….. ……
तत् परं प्रतिपाद्यं यस्य तत्तत्परम् । तस्य भावस्तात्पर्यमित्ये(वमर्थवा)वं वाचकत्वं प्रतिपादकत्वं हि तात्पर्यमुच्यते । तस्य च महच्छब्देन विणे योग्यतयैषोऽर्थो महातात्पर्यशब्दस्य भवतीति भावः । ततः किमित्यत आह यदर्था इति ।
अनुव्याख्यानम्
……. ….. यदर्था अखिला रवाः ॥
सोऽर्थः कथं परित्याज्य एकशब्दस्य संशये ॥
योऽर्थो येषां ते यदर्थाः । रवा आगमाः । एकशब्दस्य संशये एकवाक्यसम्बन्धिनि संशये सत्येकं सन्दिग्धं विरुद्धार्थं वाक्यमादायेत्यर्थः ।
एतदुक्तं भवति । सर्वाणि वाक्यानि सम्भूयानन्यार्थतया यमेकमर्थं प्रतिपादयन्ति तद्विरुद्धार्थं प्रतिपादयत्तदवान्तरवाक्यं यदुण्लभ्यते सावकाशं च तन्महावाक्यार्थविरोधादन्यथा क्रियते न तु तद्विरुद्धो महावाक्यार्तस्त्यज्यत इति तावतत्प्रसिद्धम् । महावाक्यस्य प्रधानत्वादुपक्रमादिभिर्निश्चितार्थत्वाच्च । अवान्तरवाक्यस्याप्रधानत्वात्सन्दिग्धार्थत्वाच्च । प्रकृते तु भक्तिरेव मुक्तिसाधनं न द्वेष इति सर्वैर्वाक्यैः सम्भूय प्रतिपादितोऽर्थः । अर्थाक्षि(आक्षि)प्तस्यापि प्रतिपाद्यस्येव तदर्थत्वात् । द्वेषान्मुक्तिं प्रतिपादयदेकं तदवान्तरवाक्यं सावकाशं चोक्तप्रकारेण । तस्मादिदमेव बाध्यत इति ।
वाक्यार्थचन्द्रिका
कथमिदमिति । सर्वार्थरूपं हीत्यत्र मुख्यत्वप्रत्यायकांशस्य तदेकत्वप्रत्यायकांशस्य तत्प्रतिपादकत्वप्रत्यायकांशस्य चाभावान्न तल्लाभ इत्याशयः । अर्थशब्दस्यैव मुख्यत्वप्रत्यायकत्वमेकवचनस्य तदेकत्वप्रत्यायकत्वं लक्षणया च तत्प्रतिपादकप्रत्यायकत्वमिति युक्तोऽनेन सर्वशास्त्राणामनन्यार्थतया यदेकार्थप्रत्यायकत्वं तद्रूपमहातात्पर्यसिद्धिरित्यभिप्रेत्यार्थशब्दस्य मुख्याभिधेयार्थतां तावदाह अर्थशब्दो हीति । तत्कुत इत्यत आह सत एव पदार्थस्येति यथेति । ‘सत एव पदार्थस्य स्वरूपावस्थितस्य यत् । कैवल्यं परममहान्निर्विशेषो निरन्तरः’ ॥ इति भागवतवाक्यस्थार्थशब्दस्य ‘मुख्याभिधेयस्त्वर्थः स्याद्वाच्यमन्यच्च भण्यते । अमुख्येष्वर्थशब्दस्तु नीचोपरिहितो भवदि’ति तत्तात्पर्योदाहृतब्रह्मतर्कवाक्यसम्मत्या सत्पदस्य यो मुख्याभिधेय इत्यनेन प्रकारेण मुख्याभिधेयार्थत्वसिद्धेस्तद्दृष्टान्तेनात्रापि तस्य तदर्थत्वसिद्धिरिति भावः ॥ अयमिति । सर्वेषामपि शास्त्राणामनन्यार्थतयैकार्थप्रतिपादकत्वरूप इत्यर्थः ॥ अर्थप्रतिपादकत्वं हि तात्पर्यमिति । अनेन शक्त्या शक्यसम्बन्धेन वाक्यस्य गुणयोगेन वाऽर्थप्रतिपादकत्वमेव तात्पर्यमित्युक्त्या मुख्यामुख्यवृत्त्यतिरिक्ततात्पर्याभावसूचनात्तात्पर्यवृत्तिस्तु नातिरिच्यत इत्याचार्यः स्वयमेव वक्ष्यतीत्यानुमानिकपादोक्तं विवृतं भवति । ननु यदि मुख्यामुख्यवृत्तिविषयत्वातिरिक्ततात्पर्यं नास्ति कथं तर्हि विषं भुङ्क्ष्वेत्यादेर्लौकिकवाक्यस्य निषिद्धभोजनवर्जनादौ तात्पर्यम् । न हि तत्रोक्तवृत्तिसम्भवः । न च तस्यार्थस्यानुमानिकत्वेनाशाब्दत्वाच्छाब्दार्थ एव च वाक्यतात्पर्याङ्गीकारात्तत्र वाक्यतात्पर्याभावो न दोषायेति वाच्यम् । ‘स्मर्तव्यो भगवान्नित्यमित्यर्थेनैव हि क्वचित् । द्वेषादिव गुणानाह पुराणे क्रुद्धवाक्यवत् । यथा क्रुद्धः पिता पुत्रं मरेत्याक्षेपपूर्वकम् । प्रोक्तस्यान्यस्य कृत्यर्थं वदत्येवं पुराणगम् । वाक्यमि’त्यनुव्याख्याने ‘वैरेण यन्नृपतय’ इत्यादेः ‘द्वेषाच्चैद्यादयो नृपाः’ इत्यादेश्च पुराणवाक्यस्य लौकिकवाक्यदृष्टान्तेन वाक्यलिङ्गकानुमानवेद्येऽपि विष्णुस्मरणकर्तव्यत्वे विष्णोः कृपालुत्वादौ च तात्पर्यस्योक्तत्वेन तद्विरोधात् । न च तत्र वक्तुरभिप्रायस्तत्रेत्येवोच्यते न तु वाक्यस्य तत्र तात्पर्यमुक्तमिति वाच्यम् । क्रुद्धवाक्यवत्पुराणवाक्यमिति वाक्यस्य ग्रहणात् । न च तत्रान्यार्थत्वमेवोक्तं वाक्यस्य न तात्पर्यमिति वाच्यम् । अर्थशब्दस्य वृत्तिलभ्यार्थपरत्वे बाधे तात्पर्यार्थपरत्व एव पर्यवसानात् । न चार्थशब्दो वृत्तिलभ्यार्थपरः । न वा तात्पर्यविषयपरः । किन्तु प्रयोजनपर इति वाच्यम् । तस्य वाक्यस्य यथा न पुत्रमरणविधाने तात्पर्यं किन्तु स्वविहितकरणे तथा द्वेषेण स्मरणे मुक्तिर्भवतीति पुराणवाक्यस्यापि न द्वेषस्य मुक्तिसाधनतायां तात्पर्यं किन्तु स्मरणस्य कर्तव्यतायामिति ।
इयं च व्यञ्जना वृत्तिरिति केचित् । तात्पर्यवृत्तिरित्यपरे वाक्यलक्षणानुमानं चेत्याचार्या इति पूर्वटीकाग्रन्थविरोधापातादिति चेन्न । भावानवबोधात् । न हि भगवत्पादानां टीकाकृतश्च वृत्तिव्यतिरिक्तं तात्पर्यं नास्तीत्याशयः । किन्तु योगादिरूपाया मुख्यवृत्तेर्गौण्यादिरूपाया अमुख्यवृत्तेश्चातिरिक्ततात्पर्याख्या वृत्तिर्नास्तीति । ततश्च वचनलिङ्गानुमानवेद्येऽर्थेऽशाब्दतयोक्ततात्पर्याख्यवृत्त्यभावेऽपि लोकवेदयोः साधारणस्य तदर्थप्रतिपत्त्यभिप्रायेण प्रयुक्तत्वरूपस्य पदवाक्यतात्पर्यस्य विद्यमानत्वान्न पूर्वग्रन्थविरोधः । अत एव कर्मनिर्णयटीकाकृता वाचनिकार्थातिरिक्तोक्तविधतात्पर्यसद्भावाभिप्रायेण, न च वाचनिकार्थस्तात्पर्यार्थ इति विशेष इत्याचार्यवाक्यमेतद्व्यतिरिक्तायां तात्पर्यवृत्तौ तद्विषये च मानाभावादित्यादिना तात्पर्याख्यवृत्त्यन्तरनिषेधपरत्वेनैव व्याख्यातम् । अत एव तात्पर्यवृत्तिस्त्वित्यादौ वृत्तिपर्यन्तधावनम् । अन्यथा तात्पर्यं तु नातिरिच्यत इत्येवावक्ष्यत् । न चैवं तत्परं मुख्यं शक्तिगोचरो यस्येत्यादितन्निरुक्तिविरोधः । उक्ततात्पर्यविषये तदभावादिति वाच्यम् । तस्य वाक्यसाधारणतात्पर्यातिरिक्तपदमात्रवृत्तिनिष्ठतात्पर्यविनिरुक्तिपरत्वात् । तथा च मुख्यामुख्यवृत्त्यतिरिक्तनिषेधस्यास्य ग्रन्थस्य वृत्तिव्यतिरिक्तसाधारणतदर्थप्रतीत्यभिप्रायेण प्रयुक्तत्वरूपतात्पर्याङ्गीकारेण पूर्वग्रन्थादिना विरोधशङ्कैव नास्तीति किमनुपपन्नमिति संक्षेपः । (महच्छब्देनेति । मुख्यत्वापरपर्यायानन्यत्वार्थकमहच्छब्देन तात्पर्यस्य विणे सतीत्यर्थः) ॥ एषोऽर्थ इति । सर्वेषामपि शास्त्राणामनन्यार्थतयैकार्थप्रतिपादकत्वरूप इत्यर्थः । अखिलागमानामर्थत्वाभावेन ये च तेऽर्थाश्चेति कर्मधारयस्य, यस्यार्था इति षष्ठीतत्पुरषस्य चासम्भवाद्बहुव्रीहिरेवायमित्याशयेन तं दर्शयति योऽर्थ इति । एकत्वसन्दिग्धत्वमात्रेणैव न द्वेषान्मुक्तिं प्रतिपादयतोऽस्य वाक्यस्य महातात्पर्ययुक्त्या बाध्यत्वं तत्प्रयोजकस्यानभिधानादित्याशङ्क्यैकत्वाद्युक्तेस्तदुपलक्षणत्वान्नानुपपत्तिरित्यभिप्रेत्यैकवाक्यस्य संशय इत्येतत्तात्पर्यमाह एकमिति । मूले एकत्वसन्दिग्धत्वाद्यभिधानस्य वैयर्थ्यमाशङ्क्य द्वेषान्मुक्तिं प्रतिपादयतो पुराणवाक्येनैव महातात्पर्ययुक्तेर्बाधोऽस्त्विति विपरीतबाध्यबाधकभावशङ्कापरिहारार्थत्वान्न तस्यानर्थक्यमिति भावेन तत्सूचितं प्रकारं दर्शयन्नुक्तशङ्कां परिहरति एतदुक्तं भवतीति ॥ प्रसिद्धमिति । अग्निहोत्रादेः स्वर्गसाधनत्वविधायकवाक्यविरोधिनि यद्यमुष्मिल्लोकेऽस्ति न वेत्यादितदवान्तरवाक्य इति शेषः । ननु भक्तिरेव मुक्तिसाधनमित्यस्यार्थस्य मोक्षप्रयोजनानां सर्वागमानां यद्भगवद्गुणेष्वेव यन्महातात्पर्यं तदन्यथाऽनुपपत्त्या गम्यमानत्वान्न वाक्यप्रतिपाद्यत्वमिति कथं तदुक्तिरित्यत आह अर्थाक्षिप्तस्यापीति ।
**परिमल **
कथमिदं लभ्यत इति । अर्थपदप्रयोगमात्रेणोक्तरूपं तात्पर्यं कथं लभ्यत इत्यर्थः ॥ सत एव पदार्थस्येति यथेति । ‘सत एव पदार्थस्य स्वरूपावस्थितस्य यत् । कैवल्यं परममहानविशेषो निरन्तर’ इति तृतीयस्कन्धद्वादशाध्यायस्थवाक्ये अर्थशब्दो यथामुख्यप्रतिपाद्यपरस् तथेति । उक्तं हि तत्र तात्पर्ये ‘मुख्याभिधेयस्त्वर्थः स्यादि’त्यादिना ॥ एषोऽर्थ इति । अनन्यार्थतयेत्यादिनोक्तोऽर्थ इत्यर्थः ॥ इति तावत्प्रसिद्धमिति । उपपादितमेतत् ‘प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे’ इत्येतद्व्याख्यावसर इति भावः । विष्णुमहिमोक्तिपरवाक्यानां कथं भक्त्यर्थकत्वमित्यत आह अर्थाक्षिप्तस्यापीति ॥ उक्तप्रकारेणेति । स्मर्तव्यो भगवानित्यादिनोक्तप्रकारेणेत्यर्थः ।
यादुपत्यं
सत एव पदार्थस्येति । ‘सत एव पदार्थस्य स्वरूपावस्थितस्य यत् । कैवल्यं परममहान्निर्विशेषो निरन्तर’ इति भागवतेऽर्थशब्दस्य मुख्याभिधेयो यस्तस्येति ‘मुख्याभिधेयस्त्वर्थस्याद्वाच्यमन्यत्र भण्यते । अमुख्येष्वर्थशब्दस्तु नीचोपरिहितो भवेदि’ति ब्रह्मतर्कसम्मत्या भगवत्पादैर्व्याख्यातत्वादिति भावः ।
श्रीनिवासतीर्थीया
एकवचनान्त इति । सर्वशास्त्राणां य एकोऽर्थ इत्येवमर्थशब्द एकवचनान्त इत्यर्थः ॥ महच्छब्देनेति । मुख्यत्वापरपर्यायानन्यत्वार्थकमहच्छब्देन तात्पर्यस्य विणे सतीत्यर्थः । तर्हि गुणोत्कर्षे कथं तात्पर्यमित्यत आह अर्थाक्षिप्तस्यापीति । भक्तेर् मोक्षसाधनत्वप्रतिपादनेऽर्थाद्गुणोत्क्रर्षप्रतिपादनमेव प्राप्तमित्यर्थः । यथोक्तं ‘भक्त्यर्थं हि भगवन्महिमोक्तिरि’ति । तदर्थत्वाद् वाक्यार्थत्वात् । अत एवाहुः । द्विविधो हि सूत्रार्थः श्रौत आर्थश्चेति ।
वाक्यार्थरत्नमाला
कथमिदमितीति प्रतीकोपादनम् । निरन्तर इति भागवतवाक्येति । तृतीयस्कन्धस्य द्वादशाध्यायगतं चेदम् । आनुमानिकेति ॥ ‘‘प्रयोगयुक्तसादृश्यं सम्बन्धो वाप्यमुख्यतः । वृत्तिहेतुरिति ज्ञेयः’’ इत्यनुव्याख्यानव्याख्यानावसर इत्यर्थः ॥ वृत्तिविचारस्थलीयकर्मनिर्णययाद्यनुसारेण वचनतः क्वचिदर्थतश्च प्रमेयमाह ॥ ननु यदि मुख्येत्यादि संक्षेप इत्यन्तेन । आनुमानिकपादीय विरोधपरिहारस्तु स्वयं कृतः । अत्र वृत्यतिरिक्तं तात्पर्यं नास्तीति पाठः सुगमः । अत एव परिवृत्तिव्यतिरिक्तं तात्पर्यं नास्तीत्याशय इत्यादिकमुक्तम् । विषयत्वपर्यन्तधावनं तु वस्तुतस्तत्रार्थे तात्पर्यं मुख्यामुख्यवृत्तिविषयत्वमर्थस्येति । नार्थान्तरमित्याशयेनेति ध्येयम् । तात्पर्यवृत्तिविचारस्थलं चित्तारूढं कृत्वा शोध्यमस्ति । पदान्तं च शोध्यमस्ति । वृत्तिलक्ष्यार्थपरत्वबाध इति पाठः । एकत्वसन्दिग्धमात्रेणैव नेत्यस्य बाध्यत्वमिति वक्ष्यमाणेनान्वयः । तदुपलक्षणत्वात्प्रयोजको लक्षणत्वादित्यर्थः ।