न चात्रोपासकस्यैव फलमक्षयमुच्यते
उदाहृतवाक्यानामुपासककर्मपरत्वशङ्कानिरासः
न चात्रोपासकस्यैव फलमक्षयमुच्यते
सुधा
स्यादेतत् । नैतानि वाक्यानि ज्ञानिकर्मणां साफल्यं प्रतिपादयन्ति । स य आत्मानमित्यत्र तावदुपासककर्मणामक्षयफलत्वश्रवणात् ॥ इतरत्र च ज्ञानविद्याशब्दयोः परोक्षज्ञानार्थत्वस्याप्युपपत्तेरित्याशङ्कां परिहरति न चेति ।
अनुव्याख्यानम्
न चात्रोपासकस्यैव फलमक्षयमुच्यते ॥
अत्र वाक्येषु । फलं कर्मणाम् । तथा ज्ञानादिपदं परोक्षज्ञानार्थतया न व्याख्येयमित्यपि ग्राह्यम् ॥ कुतो नेत्यत आह न हीति ।
अनुव्याख्यानम्
न हि ज्ञानं विना क्वापि फलस्याक्षयता भवेत् ॥
ज्ञानं ब्रह्मसाक्षात्कारम् । क्वापि मोक्षेऽन्यत्र च । फलस्य कर्मणाम् ।
इदमुक्तं भवति । ब्रह्मसाक्षात्काररहितेनोपासकेन कृतानि कर्माण्यक्षयफलानि केन प्रकारेणेति चिन्त्यम् । किमक्षयं मोक्षं कुर्वन्तीति । उत स्वर्गादिकम् । नाद्यः । नान्यः पन्था इति श्रुतिविरोधात् । न द्वितीयः । पुण्यचितो लोकः क्षीयत इति स्वर्गादिफलानां क्षयित्वश्रवणात् । ‘अनेवंविन्महत्पुण्यं कर्म करोति’ ‘तदेव वीर्यवत्तरं भवती’त्युदाहृतश्रुतिविरोधश्च पक्षद्वयेऽपि । तदेवमज्ञपक्षे वाक्यार्थानुपपत्तेरुपासकपदस्य ज्ञान्युपलक्षकत्वमेव युक्तम् । तथा ब्रह्माभ्येतीति श्रवणाज्ज्ञानपदस्य साक्षात्कारवाचित्वमेव युक्तमिति । अत एव वाक्यसामर्थ्यादित्युक्तम् । यद्यपि पश्यन्नपीममात्मानमित्याद्याः स्पष्टार्थाः श्रुतयोऽत्र सन्ति । तथाऽपि मीमांसार्थमेतासामुदाहरणम् ।
वाक्यार्थचन्द्रिका
एतानि वाक्यानीति । निष्काममित्याद्युदाहृतस्मृतिश्रुतिरूपाणीत्यर्थः॥ इतरत्र चेति । उक्तवाक्यातिरिक्तस्मृत्यादिवाक्येष्वित्यर्थः । ब्रह्माभ्येतीति श्रवणादित्युपलक्षणम् । वीर्यवत्तरं भवतीति श्रवणादित्यपि द्रष्टव्यम् । ज्ञानपदस्येत्युपलक्षणम् । विद्यापदस्येत्यपि द्रष्टव्यम् ॥ अत एवेति । उदाहृतवाक्यानामागमतया विवक्षितार्थगमकत्वाभावादेवेत्यर्थः ।
**परिमल **
पक्षद्वयेऽपीति । मोक्षं कुर्वन्ति इति पक्षे स्वर्गं कुर्वन्तीति पक्षे चेत्यर्थः । आद्ये ‘अनेवंविदि’ति श्रुतिविरोधो वक्तव्यः । ‘तद्धास्यान्ततः क्षीयत’ इति वाक्यशेषाद् अपरोक्षज्ञानिकृतकर्मणामक्षयफलकत्वान्मोक्षस्याक्षयत्वादिति भावः । द्वितीये ‘यदेव विद्यया करोति तदेवेतिश्रुतौ विद्यापूर्वकृतकर्मणैवोत्पन्नफलस्य वीर्यवत्तरशब्देनाक्षयत्वोक्तेस्तद्विरोध इति भावः ॥ वाक्यार्थेति । अक्षयकर्मफलवत्त्वरूपवाक्यार्थानुपपत्तेरित्यर्थः ॥ इत्याद्या इति । अत्रैव पादे विहितत्वाच्चाश्रमकर्मापीत्यादिसूत्रे भाष्योक्ता इत्यर्थः ।
श्रीनिवासतीर्थीया
इतरत्र च ज्ञानविद्याशब्दयोरिति । ‘निष्कामं ज्ञानपूर्वन्त्वि’ति वाक्ये, ‘यदेव विद्यये’ति च वाक्ये इत्यर्थः ॥ उदाहृतश्रुतिविरोधश्च पक्षद्वयेऽपीति । अक्षयं मोक्षं कुर्वन्तीति पक्षे ‘यदि ह वा अनेवं विदि’ति तत्कृतकर्मणो वैयर्थ्योक्तेस्तद्विरोधः । स्वर्गादिकं कुर्वन्तीति पक्षे ‘यदेव विद्यये’ति मोक्षफलकत्वोक्तेस्तद्विरोध इत्यर्थः ।