तादृशोऽपि स्वभावश्चेदज्ञस्यापि भवेत्तथा
उक्तार्थसमर्थनम्
तादृशोऽपि स्वभावश्चेदज्ञस्यापि भवेत्तथा
सुधा
नन्वेते प्रागनुष्ठानकाले भयपूर्वं कृच्छ्रेणाशुभपरित्यागेनैवानुष्ठितवन्तः । अतस् तत्स्वभावा एव संवृत्ता इदानीमपि तत्स्वाभाव्येन तथैव कुर्वन्तीत्यङ्गीकारे को दोष इत्याशङ्क्याह तादृशोऽपीति ।
अनुव्याख्यानम्
तादृशोऽपि स्वभावश्चेदज्ञस्यापि भवेत्तथा ॥
भयपूर्वप्रवृत्त्यादिरूपोऽपि ।
वाक्यार्थचन्द्रिका
नन्वित्यादिशङ्कासमाधानग्रन्थः स्पष्टार्थः ।
श्रीनिवासतीर्थीया
संवृत्ताः सञ्जाताः ।