अतः सर्वगुणैर्युक्तं ब्रह्माङ्गीकार्यमेव हि
उक्तार्थोपसंहारः
अतः सर्वगुणैर्युक्तं ब्रह्माङ्गीकार्यमेव हि
सुधा
सर्वं तदुपजीव्यैवेत्यादिनोक्तमर्थमुपसंहरति अत इति ।
अनुव्याख्यानम्
अतः सर्वगुणैर्युक्तं ब्रह्माङ्गीकार्यमेव हि ॥
अङ्गीकार्यं धर्मितयेति शेषः । तथा चोपजीव्यविरोधस्तत्त्वमस्यादिवाक्यस्य दुर्वार इति हेरर्थः ।
वाक्यार्थचन्द्रिका
नन्वत्र सर्वगुणैर्युक्तं ब्रह्माङ्गीकार्यमित्येतावदेवोच्यते न तु सर्वगुणैर्युक्तस्य धर्मितया अङ्गीकर्तव्यत्वं तत्कथमस्य ग्रन्थस्य सर्वं तदुपजीव्यैवेत्याद्युक्तोपसंहारत्वमित्यतोऽपेक्षितपूरणेन तदुपपादयति धर्मितयेति शेष इति ।