न हि नित्योऽपि वक्ताऽस्ति वाक्यवाच्यविवर्जितः
उक्तार्थोपसंहारः
न हि नित्योऽपि वक्ताऽस्ति वाक्यवाच्यविवर्जितः
सुधा
ज्ञस्यापि नित्यत्वेन ज्ञेयादिरहितत्वशङ्कैवमेव परिहार्येत्याह न हीति ।
अनुव्याख्यानम्
न हि नित्योऽपि वक्ताऽस्ति वाक्यवाच्यविवर्जितः ॥
ज्ञानज्ञेयविहीनश्च ज्ञोऽप्येवं नैव विद्यते ॥
नित्योऽपि वक्ता परमेश्वरो वाक्यवाच्यविवर्जितो नास्ति । यस्मात्तस्मादेवं नित्योऽपि ज्ञो ज्ञानज्ञेयविहीनो नैव विद्यते । शक्तिः कारकमिति पक्षस्य स्थितत्वान्नित्यो वक्तेति युज्यते । अनेनोभयत्र व्याप्त्यभावेन व्यापकविरुद्धोपलब्धिरसिद्धेत्युक्तं भवति ।
वाक्यार्थचन्द्रिका
ननु नित्यो वक्तेति वचनक्रियाकर्तुर्नित्यत्वमुच्यते तदयुक्तम् । कर्ता हि कारकवि कारकं च क्रियाविशिष्टमेव वा कार्यानुकूलव्यापारविशिष्टं वा । न च विणीभूतक्रियाया व तदनुकूलपरिस्पन्दादिव्यापारस्य वा नित्यत्वं सम्भवति । ततश्च तद्विशिष्टस्याप्यनित्यत्वमेवेति कथं तन्नित्यत्वं स्यादित्यतो भवेदेतदेवं यदि क्रियाविशिष्टं वा तदनुकूलव्यापारविशिष्टं वा कारकमिति स्यान्न चैवं किन्नाम शक्तिरेव कारक तस्याश्च नित्यत्वान्नानुपपत्तिरित्याह शक्तिः कारकमितीति । ननु च द्रव्यव्यतिरेकेण शक्तिरेव नास्ति । तत्र मानाभावात् । न तावत्प्रत्यक्षं द्रव्यव्यतिरिक्तशक्तिस्वरूपपरिच्छेदि समुपजायते । द्रव्यस्वरूपातिरेकेण शक्तिस्वरूपानुपलम्भात् । प्रत्यक्षाप्रवृत्तौ च तत्पूर्वकस्यानुमानस्यापि नास्ति शक्तिसद्भावे प्रवृत्तिः । कार्यं च द्रव्यरूपायत्तमेवेति कार्यव्यतिरेकादपि नास्ति शक्तिसद्भावावगमः । तत्कथं शक्तेः कारकत्वाभिधानमिति चेत् । उच्यते । न तावद्द्रव्यं कारकमिति पक्षो युक्तः । तथा सति द्वयोः क्रिययोः कारकमधिकरणं यत्रैकं तत्र विभक्त्यभावप्रसङ्गाद्विभक्तिविधावनभिहिताधिकारादनभिहित एव तत्र सप्तमी वाच्या । अनभिहित इति चाभिहिते न भवतीति प्रसज्यप्रतिषेधो न भवति किन्त्वभिहितान्यस्मिन्निति पर्युदास एवेत्यन्यदेतत् । न च द्रव्यकारकतायां प्रसज्यप्रतिषेधपर्युदासयोरस्ति सम्भवः । तथा हि । यदि तावदनभिहित इति प्रसज्यप्रतिषेधः स्यात्ततो द्वयोः क्रिययोः कारकेऽन्यतरेणाभिहिते विभक्त्यभावप्रसङ्गः । प्रासाद आस्त इत्यत्र सदिक्रियाया आसिक्रियायाश्चैकमधिकरणं प्रासादाख्यं तच्चान्यतरेण सदिप्रत्ययेन घञाऽभिहिते प्रसीदन्त्यस्मिन्निति प्रासाद इति तत्राभिहिते न भवतीत्युच्यमाने सप्तमी न प्राप्नोति । अस्तु तर्ह्यभिहितादन्यस्मिन्नभिहितसदृशे भवतीति पर्युदासः । आसिप्रत्ययेनानभिधानादभिहितान्यत्वस्य सदिप्रत्ययेन चाभिधानादभिहितसदृशत्वस्य च प्रासादे सम्भवेन तत्र विभक्त्युपपत्तेरिति चेन्न । एकस्य प्रासादद्रव्यस्याधिकरणकारकत्वात्तस्य च सदिप्रत्ययेनाभिहिततया तदन्यत्वानुपपत्तेः । न ह्येकमेव वस्त्वभिहितमनभिहितं चेति सम्भवति । तत्कस्य हेतोर् अन्योन्याभावस्य व्याप्यवृत्तित्वनियमात् । ततश्च न सप्तमी स्यात् । तदेवं द्रव्यस्य कारकतायां प्रसज्यप्रतिषेधपर्युदासयोरनुपपत्तेर्न तत्कारकत्वपक्षो न्याय्यः । किन्तु शक्तिकारकत्वपक्ष एव । शक्तेर्नानात्वेनाभिहितत्वानभिहितत्वसम्भवात्प्रासाद आस्त इत्यत्र सदिक्रियाशक्तेरप्यभिधानेऽप्यासिक्रियाशक्तेरनभिहितत्वात्तदाश्रयणेन सप्तम्युपपत्तेः ।
अथ सत्यभिधानेऽनभिधाने चानभिहिताश्रया सप्तमी भविष्यति न पुनरभिहिताश्रयः प्रतिषेध इत्येतत्कुत इति चेच्छणु । अनभिहिते सप्तमीविधानेऽप्यभिहिते तदप्रतिषेधात् । न च मानाभावे शक्तेरेवासिद्धौ न तन्नानात्वकल्पनया पर्युदाससमर्थनमुपपन्नमिति वाच्यम् । अन्यथाऽनुपपत्त्यैव तत्सिद्धेः । तथा हि । एवं हि कन्चित्कञ्चित्पृच्छति । क्व देवदत्त इति । स तस्मा आचष्टे । असौ वृक्ष इति । अन्यस्त्वाह कतरस्मिन्बहवो वृक्षाः । अपर आह यस्तिष्ठतीति । स वृक्षोऽधिकरणं भूत्वाऽन्येन शब्देनाभिसम्बध्यमानः कर्ता सम्पद्यते । द्रव्ये पुनः साधने सति यत्कर्म कर्मैव स्यात् । यत्करणं करणमेव स्यात् । यदधिकरणमधिकरणमेव स्यात् । पदार्थस्य नियतरूपत्वात् । अयमर्थः । यदि द्रव्यं साधनं स्यात्तदा तस्यैकत्वात्तत्त्वनिबन्धनाबाधितप्रत्यभिज्ञाविषयत्वात् । नानार्थक्रियाकारकसम्बन्धनिबन्धनो नानाव्यपदेशभेदो न स्यात् । दृश्यते चासाविति तदन्यथाऽनुपपत्त्या नानाशक्तिसद्भावशक्तिः (सिद्धिः) । न चैवं प्रसज्यप्रतिषेधेऽपि या शक्तिरभिहिता तत्र मा भूद्विभक्तिर्यात्वनभिहिता तत्र भविष्यत्येव विभक्तिरिति पर्युदासाश्रयणमनर्थकमिति वाच्यम् । अनभिहिते कर्मणीत्येकत्वादीनामाधारनिर्देशः । सङ्ख्या च द्रव्यधर्मः । अतोऽनभिहिते कमणीत्यादिभिरपि शक्तिद्वारेण द्रव्यमेवोच्यते । अनभिहितायाः कर्मादिशक्तिस्तदाधारभूतं यद्द्रव्यं तस्यैकत्वादिषु विभक्तय इति । एवं च प्रसज्यप्रतिषेधः स्यात् । ततोऽभिहितशक्तिद्वारेण द्रव्यस्याभिहितत्वात्प्रतिषेधः स्यात् । पर्युदासे त्वनभिहितशक्तिद्वारेण विधिरिति स्पष्ट एव फलभेदः ।
भवेदेतद्यत्र शक्तिभेदः स्याद्यत्र तु शक्तिभेदो नास्ति तत्र कथमासने आस्ते शयने शेत इति । मैवम् । अत्राप्यासनशयनादिशब्दैरासनादिक्रियायोग्यं वस्तुमात्रमनुद्भूतशक्तिकमभिहितमिति । ततश्च शक्त्याऽविर्भावप्रतिपादनाय विभक्तिर्भविष्यतीति को दोषः । यदि तर्हि पर्युदासो निर्णीयते इह पक्त्वा भुज्यते ओदनम् इति भुजिप्रत्ययेनाप्यभिहिते ओदने क्त्वाप्रत्ययेनानभिधानमाश्रित्य द्वितीया प्राप्नोति । भावे हि क्त्वाप्रत्ययः । प्रसज्यप्रतिषेधे तु भुजिप्रत्ययेनानभिधानमाश्रित्य प्रतिषेधो भविष्यति । उच्यते । नात्रौदनस्य युगपदुभाभ्यां शाब्द एवान्वयः । सकृच्छतस्य युगपदुभयसम्बन्धस्याव्युत्पन्नत्वात् किन्त्वेकेनैव शब्दान्वयो वाच्यः । स च प्रधानन्यायात्प्रधानेन भजिनैव वाच्यः । पचिना तु सन्निधानादार्थः । केवलं शब्दव्यापारनिरूपणे किमिष्टकाः पक्त्वौदनो भुज्यते उतौदनमेवेति न ज्ञायते । अतः शब्दव्यापारापेक्षयाऽनभिधानमेवेति न द्वितीयाप्रसङ्गः । तदेतत्सर्वमभिसन्धायोक्तम् इति पक्षस्य स्थितत्वादिति । अनभिहितसूत्रभाष्यादाविति शेषः ।
उभयत्रेति । ज्ञात्रादिमत्त्वे ज्ञानादिमत्त्वे चेत्यर्थः ॥ व्यापकेति । ज्ञेयादिमत्त्वरूपसाध्यव्यापककार्यत्वरूपोपाधिविरुद्धस्याकार्यत्वस्योपलब्धिरसिद्धेत्यर्थः । कथमसिद्धत्वमित्यतस्तत्र हेतुमाह व्याप्त्यभावेनेति । साध्यद्वये उपाधिव्याप्त्यभावेनेत्यर्थः । अकाङ्क्षानिमित्तप्रतिसम्बन्ध्य(न)न्वितत्वस्याकार्येऽप्युपपादितत्वेन तत्र ज्ञेयादिमत्त्वेऽपि कार्यत्वाभावेनोपाधेः साध्यव्यापकत्वान्न तद्व्यावृत्त्या ज्ञात्रादिमत्त्वरूपसाध्यविपर्ययसिद्धिरिति समुदायार्थः ।
**परिमल **
ननु वचनक्रियाया अनित्यत्वात् कथं नित्यो वक्तेति उक्तिरित्यत आह शक्तिरिति । तथा च वचनस्यानित्यत्वेऽपि तच्छक्तेरपि कारकत्वान्नित्यत्वाच्च वचनक्रियाशक्तिमानीश्वरो नित्यवक्तेति नित्यवचनं प्रति कर्तृकारकतयोक्तिर्युज्यत इति भावः ॥ उभयत्रेति । ज्ञानं नित्यं चेन्न कारकापेक्षं ज्ञो नित्यश्चेन्न क्रियाज्ञेयापेक्षः किन्तु कार्यमेव कारकापेक्षमिति प्रसङ्गद्वये वेदवाचि ईश्वरे च व्यभिचारात् कारकापेक्षत्वे प्रयोजकत्वेन शङ्कितस्य कार्यत्वस्य व्याप्त्यभावेन तत्प्रतिव्यापकत्वाभावात् । ब्रह्मरूपज्ञाने कार्यत्वाभावोपलम्भेऽपि व्यापकविरुद्धोपलब्धिरसिद्धेति नित्यवागपीत्यादिग्रन्थेनोक्तं भवतीत्यर्थः ॥ मिथ्यावस्तुसापेक्षत्वे ब्रह्मणश्चेतनत्वाभावोक्तिः ॥
यादुपत्यं
ननु वचनक्रियाया अनित्यत्वात्तद्विशिष्टरूपो वक्ताऽप्यनित्य एव । अतः कथं नित्यत्वोक्तिर्युज्यत इत्यत आह शक्तिः कारकमिति । पक्षस्येत्यनन्तरं व्याकरणशस्त्र इति शेषः । तथा हि । यदि द्रव्यमेव कर्तृकर्मकरणादिकारकरूपं स्यात्तदा क्वचित्तस्यैव नानाक्रियासम्बन्धनिबन्धनः कर्तुकर्मकरणादिरूपभेदव्यपदेशोऽनुपपन्नः स्यात् । वर्तते चासावतो द्रव्यगता नानाशक्तय एव कर्त्रादिकारकरूपा न द्रव्यम् । तस्य प्रत्यभिज्ञाबलेनाभिन्नत्वात् । न चैवं वभिक्तिवाच्याया एकत्वादिसङ्ख्यायाः कारकान्वयानुपपत्तिः । तस्या द्रव्यधर्मत्वेन शक्त्यन्वयासम्भवादिति वाच्यम् । सङ्ख्यायाः शक्तिद्वारैव द्रव्यान्वयाभ्युपगमात् । कर्त्रादिकारकभूता या शक्तिस्तदाधारभूतं यद्द्रव्यं तस्यैकत्वादिषु विभक्तय इति । एवं च वक्तेत्यत्रापि कर्त्रर्थकेन प्रत्ययेन साक्षाच्छक्तेरेवाभिधानम् । द्रव्यस्य तु तद्द्वारैव । ततश्च या वचनक्रियां प्रति कर्तृकारकरूपा शक्तिस्तदाधारभूतो यः स नित्य इत्युक्ते न कोऽपि विरोधः । वचनक्रियाविशिष्टरूपद्रव्यस्य कर्त्रर्थकप्रत्ययवाच्यत्वानभ्युपगमात् । शक्तेश्च तद्वाच्याया यावद्धर्मिभावित्वादिति ॥ व्याप्त्यभावेनेति । व्याप्त्यभावेन व्यापकत्वासिद्धौ तद्विरुद्धोपलब्धिरसिद्धेत्यर्थः ।
श्रीनिवासतीर्थीया
उभयत्र व्याप्त्यभावेनेति । ज्ञानस्य कर्त्राद्यन्विततायाः कार्यत्वं व्यापकं ब्रह्मस्वरूपज्ञानस्य चाकार्यत्वात्कर्त्राद्यन्वितत्वं नास्तीत्ययुक्तम् । वेदवाचि व्यभिचारात् । तथा ज्ञातृत्वापरपर्यायज्ञस्यापि ज्ञानज्ञेयसापेक्षत्वस्यानित्यत्वं व्यापकम्, अस्य च नित्यत्वान्न ज्ञेयादिसापेक्षत्वमित्यप्ययुक्तम् । नित्यवक्तरीश्वरे व्यभिचारादित्येवं व्याप्त्यभावेन कार्यत्वस्य कर्त्राद्यन्वितताव्यापकत्वस्य तथाऽनित्यत्वस्य ज्ञानज्ञेयादिसापेक्षत्वव्यापकत्वस्य चाप्यभावेन तद्विरुद्धोऽपलब्धिरसिद्धेत्यर्थः ।
वाक्यार्थरत्नमाला
यदि क्रियाविशिष्टं वेति पाठः । किन्नाम शक्तिरेवेति । शक्तेरेव कारकत्वेऽपि शक्तिद्वारा द्रव्याभिधानाद्द्रव्यगतैकत्वादिषु विभक्तयुत्पत्तिरित्यादिकं ग्रन्थकृदेव विभावयिष्यति ॥ कथं शक्तिः कारकमिति पक्षस्य स्थितत्वमित्यतस् तत्पक्षस्थितिमनभिहिते इत्येतदधिकारसूत्रीयभाष्याद्युक्तरीत्या वक्तुं तत्पक्षोपक्षेपरूपे ‘‘ननु च प्रासादस्य द्रव्यस्य कारकत्वादभिहितादन्यत्वं नास्ती’’ति मञ्जर्युक्तरीत्या द्रव्यातिरिक्तशक्तिसद्भावमाक्षिप्य नैष दोषः शक्तिः कारकमित्यादिमञ्जर्याद्यनुसारेण तत्समर्थनार्थं ननु चेत्यारभ्येतिपक्षस्य स्थितत्वादितीत्यन्तो ग्रन्थः । तथा हि तत्र तावन्ननु च प्रासादस्येत्यादिमञ्जरीव्याक्यान रूपायमाशयः । द्रव्यमेव कारकमभ्युपगन्तव्यम् । न शक्तिरूपं वैयाकरणकुलकुहरप्रसिद्धमित्यादि कुसुमविकासं मनसि कृत्वा द्रव्यातिरिक्तशक्तिसद्भावमाक्षि पेति ॥ ननु च द्रव्यतिरेकेणेति ॥ कथं मानाभाव इत्यत उपमानादेरत्रासम्भावितत्वाद् द्रव्यत्वं सम्भावितं प्रत्यक्षानुमानार्थापत्तिरूपं प्रमाणत्रयं निराकर्त्तुं तत्तदसम्भवे हेतूनाह ॥ न तावत्प्रत्यक्षमित्यादिना ॥ अनुपलम्भादिति ॥ ततश्च प्रत्यक्षप्रमाणं न सम्भवतीति शेषः । तत्कथमिति । शक्तिस्वरूपस्यैवासिद्धौ तत्कारकत्वस्य दूरापास्तत्वादिति भावः । द्वयोः क्रिययोः कारकेऽन्यतरेणाभिहित इत्यादि भाष्यमनभिहित इति यदि प्रसज्यप्रतिषेधः स्यादित्यादिमञ्जरीं च मनसि कृत्वा द्रव्यकारकतापक्षं तावदपाकरोति । न तावदिति । शक्तिकारकतापक्षस्योत्तरत्रोपपादनापेक्षया तावच्छब्दः ।
यत्रैकमिति । प्रासादरूपमिति शेषः । भाष्यादौ प्रसज्यप्रतिषेधार्थकमनभिहित इत्येतदित्यादिपक्षे दूषणाभिधानात्तत्पक्षप्रसक्तये तावदधिकारसद्भावमाह । विभक्तिविधाविति । द्वितीयादिविभक्तिविधावित्यर्थः । अनभिहितसूत्रस्याधिकारसूत्रत्वादिति भावः । सप्तमी वाच्येति ॥ सप्तम्यधिकरणे चेति सूत्रेणेति शेषः । नन्वनभिहितपदे पर्युदासपक्षस्यैवकारसंमतत्वात्पक्ष एव द्रव्यकारकताया निराकर्तव्यत्वे प्रसज्यप्रतिषेधपक्षेऽपि तन्निराकरणं वक्ष्यमाणमसङ्गतमित्यतः शक्तिकारकतापक्षेऽनुपपत्यन्तरपरिहाराय पर्युदासपक्षपरिस्यावश्यकत्वेऽपि द्रव्यकारकतापक्षदूषणं पर्युदासपक्ष इव प्रसज्यप्रतिषेधपक्षेऽप्यवशिष्टमेवेति तत्पक्षद्वयेऽपि तद्दूषणं क्रियत इति नात्रासङ्गतिरित्याशयेनाह ॥ अनभिहित इति चेति ॥ अन्यदेतत् । इत्येतदन्य इति सम्बन्धः । विचारान्तरमित्यर्थः । प्रकृते तदनुपयोगादुभयमप्यस्विति शेषः । अस्त्वनभिहिताधिकारस्तस्य च प्रसज्यप्रतिषेधपर्युदासरूपोभयार्थत्वं च ततः किं प्रकृत इत्यतोऽर्थद्वयपक्षेऽपि द्रव्यकारकतापक्षे सप्तम्यनुपपत्तिरित्याशयेन तत्पक्षद्वयस्य द्रव्यकारकतापक्षेऽसम्भवं प्रतिजानीते ॥ न च द्रव्येति ॥ उदाहृतभाष्याद्यनुसारेणोपपादयति ॥ तथाहि यदीति ॥ मुख्यार्थानुग्रहायेति शेषः । द्वयोः क्रिययोरिति । क्रियाद्रव्यस्येत्यर्थः । कुसुमविकासे तु द्वयोः कारक इति मञ्जरीपाठमुपादाय द्वयोरितीति प्रतीकोपादानानन्तरं क्रिययोरित्यर्थ इति व्याख्यातम् । भाष्यमञ्जर्यां च द्वयोः क्रिययोरित्येव पाठोऽस्ति । तदनुसारेण टीकायां पाठः । द्वयोरित्येव पाठपक्षेऽपि तदनुवादेन क्रिययोरिति व्याख्यानमित्यप्याहुः । कारके । अधिकरणादावित्यर्थः । अन्यतरेणेति । क्रियाद्वयवाचिप्रकृतिभ्यामुत्तरयोः प्रत्ययोरन्यतरेणेत्यर्थः । एतदेव विशदयन्कारकमधिकरणं यत्रैकमिति प्रागुक्तमधिकरणं चोदाहरणत्वेनाविष्करोति ॥ प्रासाद इति ॥ सदिप्रत्ययेनेति ॥ सदेरुत्तरः प्रत्ययः सदिप्रत्यय इति मध्यमपदलोपी समासः । घञा प्रसीदन्त्यस्मिन्निति प्रासाद इत्यभिहितमिति सम्बन्धः । घञो कर्त्तरि च कारक इति सूत्रेण कर्त्तृव्यतिरिक्तेऽधिकरणेऽपि विधानादिति भावः । तत्रेति । उक्तविधिप्रासादरूपाधिकरण इत्यर्थः । ननु सद्युत्तरप्रत्ययेन घञाधिकरणस्याभिधानेऽप्यस्युत्तरतिङाऽनभिधानादनभिहितमस्त्येवेत्यनभिहिताधिकारविहिता सप्तमी सम्भवत्येवेति चेन्न । अभिधानानभिधानयोस्तुल्य समर्थाकत्वेनानभिधानमाश्रित्य तदुपपादनेऽभिधानमाश्रित्य तदभावस्याप्यापत्तेः । विनिगमकाभावेऽन्यतरमात्राश्रयणायोगादित्युक्तदोषात् । किंचास्त इत्यत्र सप्तम्यनुपपत्तिप्रसंजनं चेत्तदधिकरणस्य सदिप्रत्ययेनाभिधानेऽपि आसिप्रत्ययेनानभिधानमस्तीति प्रतिपादनमुपयोज्या न चैवम् । तत्र सप्तमीरूपकार्यस्यैवाभावात् । ततश्चाप्रत्ययेन तत्राधिकरणानभिधानमनर्थमेव । किंतु प्रासाद इत्यत्रैव सप्तमीरूपकार्यस्य सद्भावेन तत्रैवाधिकरणस्य प्रत्ययेनाभिधाननिमित्तकार्ययोगप्रसञ्जनम् । तत्र चासिप्रत्ययेनाभिधानेऽपि सदिप्रत्ययेनाभिधानात्कार्ययोग इत्यस्य परिहारोपायाभावः । प्रसज्यं यत्तत्र प्रतिषेधार्थमेवैतच्छास्त्रप्रवृत्तेर्विध्यर्थं तदप्रवृत्यानभिहिते भवतीति न प्रतिपाद्योऽर्थः । अपि त्वभिहितेन भवतीति । तथा च विद्यमानमप्यनभिधानमनादृत्य सदिप्रत्ययाश्रितमभिधानमाश्रित्य प्रतिषेध एव प्राप्नोतीति भावः ।
अतः पर्युदासपक्षासम्भवं दर्शयितुं शक्तिः कारकमिति पक्षे पर्युदासाश्रयणेन परिहारोऽस्ति तन्न्याये द्रव्यकारकतापक्षेऽपि पर्युदासाश्रयणेन सप्तम्युपपत्तिमाशङ्कते ॥ अस्तु तर्हीति । अभिहितादन्यस्मिन्नित्यादि । पर्युदासपक्षे नञिवयुक्तन्यायेन तावतोऽर्थस्य लाभादिति भावः । नञिवयुक्तमन्यसदृशेऽधिकरणे तथाह्यर्थगतिरिति नञ्सूत्रीयभाष्ये परिभाषोदाहरणादिति ज्ञेयम् । अभिहितादन्यत्वादिकमुपपादयति ॥ आसिप्रत्ययेनेति ॥ आस्युत्तरतिङ्रूपप्रत्ययेनेत्यर्थः । अन्यत्वस्य सम्भवेनेति वक्ष्यमाणेनान्वयः । विभक्तयुपपत्तेरिति । विभक्तिविध्युपपत्तेरित्यर्थः । सदिप्रत्ययेनाभिधानस्याभिहितसदृशत्वांशोपपादकतयाऽभिहितेन भवतीति निषेधाभावेन च सदिप्रत्ययेनाभिहितेऽप्यासिप्रत्ययेनानाभिहितत्व प्रयुक्तविभक्तेरनिवारणादिति भावः । तदन्यत्वानुपपत्तेरिति ॥ एतेन तत्सदृशत्वोपपादकमभिहितत्वमित्यपि निरस्तम् । न हि तदेवान्येनाभिहितमभिहितसदृशं भवति । किं त्वन्यदभिहितं तेन च रूपान्तरेण सदृशमेवाभिहितं सदृशं भवतीत्युच्यते । ततो न सदिप्रत्ययेनाभिधानमनुकूलमिति सूचनादिति ज्ञेयम् । अत्रोपपादिकां युक्तिं स्वयमाह । अन्योन्याभावस्येति ॥ स्वविरोधिभूताभिहितत्वलक्षणप्रतियोगितावच्छेदकधर्मसमानाधिकरणत्वाभावनियमादित्यर्थः । ततश्चेति ॥ यतोऽभिहितान्यस्मिन्नधिकरणे सप्तमीति सूत्रार्थः । प्रासादाख्यमधिकरणं तु नाभिहितान्यतत्त इत्यर्थः । एवं मञ्जर्याद्युक्तरीत्या प्रसज्यप्रतिषेधपक्षपर्युदासपक्षयोर्द्रव्यकारकतापक्षे दूषणमुपपाद्योपसंहरति ॥ तदेवमिति ॥ यदि द्रव्यकारकतापक्षो न युक्तस्तर्हि किं कारकतापक्ष उपादेय इत्याशङ्कते । किंत्विति ॥ उत्तरमाह ॥ शक्तीति ॥ उक्तं हि भाष्ये ॥ किं पुनर्द्रव्यं साधनमाहोस्त्विगुण इति । किं चातः । यदि द्रव्यं नैतदन्यद्भवत्यभिहितात् । अथ गुणः भवत्येतदन्यदभिहितादित्यादीति भावः ।
ननु द्रव्यकारकतापक्ष इव शक्तिकारकतापक्षेऽप्यभिहिततयाऽभिहितादन्योन्यमनुपपन्नमेवेति कथं तदाश्रयणमित्यतो भवत्येतदन्यदभिहितादिति भाष्योक्तमाविष्कुर्वन्नाह ॥ शक्तेर्नानात्वेनेति ॥ नानत्वमेवोपपादयति ॥ प्रासादे आस्त इत्यत्रेति ॥ सप्तम्युपपत्तेरिति ॥ विभक्तिश्चानभिहितशक्तिद्वारा द्रव्य एवेत्यनुपदमेव व्यक्तीभविष्यति । यश्च द्रव्यकारकतापक्षेऽनभिधानवदभिधानस्यापि सत्वात्तदाश्रयणे सप्तम्यनुपपत्तिर्भाष्योक्तरीत्या दोषः, सोऽत्र नास्तीति वक्तुं तमाशङ्कते ॥ अथ सत्यभिधान इति । अभिधानानभिधानयोः साम्ये विनिगमकाभावे चेत्यर्थः । प्रसज्यप्रतिषेधपक्ष एव तत्र तदभिधानाश्रयणात्पर्युदासस्यैव वाश्रयणान्न तत्पक्षोक्तदोषप्रसङ्ग इत्याशयाद् बोधयति ॥ अनभिहित इति । अभिहितान्यस्मिन्सप्तमीविध्यङ्गीकारादभिहितेन भवतीति निषेधशास्त्रत्वानङ्गीकारादित्यर्थः ।
भवेदेवं शक्तिनानात्वमुपेत्याभिहिततदन्यत्वसमर्थनेन सप्तम्युपपादनम् । यदि शक्तिरेव सिद्धा स्यात् । प्रत्यक्षादिप्रमाणाभावेन तस्या एवाभावे तन्नानात्वस्य दूरनिरस्तत्वादित्युक्तत्वादित्याशयेन शङ्कते । न च मानाभावेनेति । प्रत्यक्षानुमानयोः प्रमाणयोरभावेऽप्यर्थापत्तेरेव सत्वान्न प्रमाणाभाव इत्याह ॥ अन्यथाऽनुपपत्यैवेति ॥ व्यपदेशभेदान्यथानुपपत्यैवेत्यर्थः । कथं व्यपदेशभेद इत्यतः किं पुनः साधनं वाच्यं न्यायम् । गुण इत्याहेत्याह । एवं हि कश्चिदित्यादिभाष्यं मनसि निधाय व्यपदेशे भेदाभेदमुपपादयति । तथाह्येवं हीति ॥ असौ वृक्ष इतीति ॥ असौ देवदत्तो वृक्षेऽस्तीत्यर्थः । कतरस्मिन् वृक्षेऽस्तीति प्रश्नवाक्यार्थः । प्रश्नबीजमाह ॥ बहवो हीति । तेषु कतरस्मिन्निति प्रश्नाशय इत्युक्तं भवति । एवं व्यपदेशभेदं प्रदर्श्य तल्लब्धमर्थमाह ॥ स वृक्ष इति ॥ अन्येन शब्देनेति ॥ तिष्टतीति शब्देनेत्यर्थः । सोऽयं व्यपदेशभेदशक्तिसाधनत्वशक्तेर्वाच्यत्वपक्षे युक्तः । तस्या अनेकत्वेन प्रागधिकरणभूतायाः पश्चात्कर्त्तृत्व संपत्युपपत्तेरिति मनसि निधाय द्रव्यपक्षे तु न युक्तः । तस्यैकत्वेन नियतैकप्रकारतयाऽधिकरणकर्त्तृत्वयोरयोगादित्याह । द्रव्ये पुनः साधन इति । उक्तमेव विशदयन्नाह । अयमर्थ इति ॥ तत्वनिबन्धनेति ॥ एकत्वेन निबन्धनेत्यर्थः । अनेन क्रियाकारकसम्बन्धनिबन्धनो व्यपदेशभेदो न स्यादिति पाठः । नानाव्यपदेशेति पाठे व्यपदेशद्वयं व्यपदेशभेदेनोच्यते । तस्य नानात्वे उक्ते अधिकरणत्वकर्त्तृत्ववत्कर्मत्वकरणत्वादिरूपेणापि व्यपदेशोऽस्तीत्येवमनेके व्यपदेशा न स्युरित्यर्थो फलितः । अत एवोक्तमनेकक्रियाकारकसम्बन्धनिबन्ध इति । तदेवम् । व्यपदेशभेदस्य द्रव्ये अनुपपत्या तदुपपत्यर्थमवश्यं स्वीकर्त्तव्या शक्तिर्धर्मिग्राहकप्रमाणेन नानात्वेनैव सिद्ध्यतीति युक्तं नानाशक्तिसमाश्रयणेनाभिहितादन्यत्वमभिहितत्वं चेत्याशयेनोपसंहरति ॥ तदन्यथाऽनुपपत्त्येति ॥ व्यपदेशभेदान्यथानुपपत्येत्यर्थः । सिद्धरित्यनन्तरमितिशब्दः पूरणीयः । इत्ययमर्थ इति सम्बन्धः । इतिशब्दयुक्तपाठस्तु स्वरस एव । यद्वा दृश्यते चासावितीत्यत्रेत्येति शब्दस्यावृत्तेरभिप्रेतत्वात्पूर्वस्येत्ययमर्थ इति सम्बन्धः । द्वितीयस्य हेत्वर्थस्योपसंहाराङ्गत्वमिति ज्ञेयम् । ननु यदि शक्तिः कारकमिति पक्षात्तर्हि किमनभिहितपदे पर्युदासपक्षग्रहेण । प्रसज्यप्रतिषेधोऽपि युक्त आश्रयितुम् । द्रव्यकारकतापक्षे हि प्रसज्यप्रतिषेधो न भवति । सद्यासि क्रिययोरधिकरणं प्रासादाख्यं यदेकं द्रव्यं तस्य सदिप्रत्ययेन घञाभिहिततयाऽभिहितेन भवतीति निषेधशास्त्रप्रवृत्या सप्तम्यनुपपत्तिप्रसरात् । शक्तिकारकतापक्षे तु प्रतिक्रियां शक्तिभेदेन सदिप्रत्ययेनाभिहितशक्तयाश्रये प्रतिषेधे अनभिहितशक्तयाश्रयविभक्तेः सुलभतया सप्तम्यनुपपत्तेरभावेन प्रसज्यप्रतिषेधोपपत्तेरिति शङ्कते ॥ न चैवं प्रसज्येति ।
उच्यते । अनभिहिते कर्मणीत्यादिमञ्जर्यनुसारेण पर्युदास एवाश्रयणीयो न तु प्रसज्यप्रतिषेध इत्याह ॥ अनभिहिते कर्मणीत्यादि । अत्र कर्मणीत्युपलक्षणं कर्त्तृकरणयोरित्यादीना । ततश्चकर्मणीत्यादिभिरित्यर्थः । अत एवोत्तरवाक्ये इत्यादिभिरिति वक्ष्यतीति ज्ञेयम् । आधारनिर्देश इति ॥ न पुनरभिधेयनिर्देश इत्यर्थः । तावता किमित्यत आह ॥ सङ्ख्या चेति ॥ ततोऽपि किमित्यत आह ॥ अत इति । सङ्ख्याद्रव्यधर्मत्वादेवेत्यर्थः । कर्मणीत्यादिभिरपि द्रव्यमेवाभिधीयते । कर्मादिपदानां शक्तिपरत्वस्य व्यपदेशभेदादिरूपोक्तन्यायेन सिद्धत्वात्कथं द्रव्याभिधानमित्यत उक्तं शक्तिद्वारेणेति ॥ शक्तिद्वारकद्रव्याभिधानं दर्शयन्कर्मणीत्यादिविषयसङ्ख्याश्रयेण विभक्तिविधानं च दर्शयति ॥ अनभिहिताया इति ॥ एवं च यदि प्रसज्यप्रतिषेधः स्यादिति पाठः । यदि पदाभावो लेखकागतः । तथैव मञ्जरीपाठश्च । एवं चेति । अनभिहितकर्मादिशक्तयाश्रयभूतं द्रव्यं यत्र शक्तिद्वारेणानभिहितं तद्ज्ञतैकत्वादिषु विभक्तयर्थ सिद्धावित्यर्थः । प्रतिषेधः स्यादिति ॥ अभिहितेन भवतीति निषेधस्यैव शास्त्रतयाऽभिधानप्रयुक्तनिषेधस्यैव प्राप्तेरिति भावः ॥ अनभिहितशक्तिद्वारेणेति ॥ द्रव्यस्यानभिहितत्वादिति शेषः । विधिरिति । अभिहितान्यस्मिन्विभक्तिर्भवतीत्युक्तेऽस्य निषेधशास्त्रत्वं नायाति । किंतु विधिशास्त्रत्वमेवेति भावः । तथा च यदि शक्तिकारकतापक्षमुपेत्यपि प्रसज्य प्रतिषेधाश्रयणम् । तर्हि द्रव्यकारकतापक्ष इव शक्तिकारतापक्षेऽपि शक्तिद्वारेण द्रव्यस्याभिहिततयाऽभिहितेन भवतीति निषेधो दुर्वार इति सप्तम्यनुपपत्तिरेव । ततो नानात्वेऽपि शक्तेस्तदाश्रयतयाऽभिहितद्रव्ये सप्तम्युपपत्यर्थं पर्युदासाश्रयणमेव श्रेय इति फलितोऽर्थः । पर्युदासपक्षेऽपि दोषमाशङ्कते ॥ भवेद्वातदिति । यत्र शक्तिभेदो भवेत्तत्रानभिहितशक्तिद्वारकमनभिधानमाश्रित्य सप्तम्युपपादनं भवेदित्यर्थः । यत्र शक्तिभेदो नास्तीत्युक्तं यत्रेति स्थलं दर्शयति ॥ आसने आस्त इत्यादि ॥ आसने आस्त इत्यत्र ह्यासनक्रियाधिकरणपीठाद्युत्तरलुटाऽभिहितमित्यभिहितान्यत्वाभावात्तत्र सप्तम्यनुपपत्तिः । प्रासाद अस्त इत्यत्रेव क्रियाभेदाभावेन तन्निमित्तकशक्तिभेदस्याभावेनाभिहितशक्तिद्वारकमपि द्रव्यस्यानभिहितत्वं न सम्भवतीति भावः । एवमासने आस्ते इत्युक्तक्रिययोरेकतयाऽभिधानानभिधानयोस्तत्क्रियाशक्तिभेदमाश्रित्यायोग इति प्राप्ताशङ्काया भाष्ये परिहारो उक्तः । तद्यथा । अत्राप्यन्यत्वमस्ति । कुतः साधनभेदात्कालभेदाच्च । एकस्यात्रासेरासिः साधनं सर्वकालश्चप्रत्ययः । अपरस्य त्वसाधनम् । वर्त्तमानाच्च प्रत्यय इति । तस्यायमर्थः । आसने आस्त इत्यत्राभिन्नपदप्रत्याप्येभिन्ने एव स च क्रियासाधनसम्बन्धेऽनभिहित इति सूत्रेण विभक्तयो निवार्यन्ते न तु वाक्योपात्तेन रूपेक्रिये विवक्षिते । एकपदोपात्ते क्रियासाधनसम्बन्धे । एवं चासनमित्यत्र प्रतीता या सिक्रिया तस्या आस्ते इत्यत्र प्रतीताया आसिक्रियासाधनं भवति ॥
नन्वासिक्रियाया एकत्वात्कथं पदभेदेन भेद इति । उच्येते । आस्तेऽस्मिन्निति ह्यासनमुच्यते यद्यासक्रियापाठादावास्ते सन्निधीयते तत आसिक्रियापेक्षं तत्पाठाद्यासनमुच्यते, एवं सामर्थ्यादासेरासिर् भर्त्ता भवति ल्युटः कालविशेषानुपादानेन विधानात्सर्वकालश्चासनक्रियाप्रत्ययः । तदेवमासने आस्त इत्यत्र पदद्वयोपात्तयोरासनरूपयोः क्रिययोर्भेदानभिहिताधिकारविहित सप्तम्युपपत्तिरिति । अयं चासङ्गतः परिहारः । आसनमित्यत्र या आसिक्रिया तस्याः साधनमास्त इत्यासिक्रियेति तदा वाच्यम् । यद्यास्त इत्यासिक्रियायारासनमित्यासिक्रियासाधनत्वं स्यान्न चैवं किंत्वासनमित्यासिक्रियाया एवास्त इत्यासिक्रियां प्रति साधनत्वस्य प्रतीत्या वैपरीत्यायोगात् । अतो भाष्यतात्पर्यमाह ॥ अत्रापीति ॥ अयमत्र निष्कर्षः । आसनशयनकरणापादानसंप्रदानादिशब्दैरासनादि क्रियायोग्यं वस्तुमात्रमनुद्भूतादिकरणादिशक्तिकर्माभिधीयते । तत्र शक्तयुद्भव प्रतिपादनाय विभक्तिरवश्योत्पाद्या । ततश्चासिः साधनमिति साधनान्तरनिरासः क्रियते । शब्दव्युत्पत्तये केवलमत्रासिक्रियोपादीयते यथा तैलपाधिकादाविति भावः । पर्युदासे बाधकमाशङ्कते । यदि तर्हीति । उपलक्षणं चैतत् । स्वादुङ्कारं भुङ्क्ते देवदत्त इत्यत्र णमुला कर्त्तुरनभिहितत्वात्कर्त्तरि तृतीया कस्मान्न भवति । स्वादुङ्कारं यवागूर्भुज्यते देवदत्तेनेत्यत कर्मणिद्वितीया कस्मान्न भवतीत्यपि द्रष्टव्यम् । उक्तस्थले देवदत्त इत्यनेन भुज्यत इत्यनेन च कर्त्तृकर्मणोरभिधानेऽपि स्वादुङ्कारशब्दयवागूशब्दाभ्यां तयोरनभिधानेनानभिहितत्वाश्रयणेन पर्युदासपक्षे तृतीयाद्वितीययोः प्रसङ्ग इति भावः । णमुलादीनां प्रत्ययानां कर्त्तरि कर्मणि वा विधानमङ्गीकार्यम् । तत्र पक्वेत्यादौ कर्त्तरि विधानपक्षे पक्वा ओदेनो भुज्यते देवदत्तेनेत्यत्र क्त्वा प्रत्ययेन कर्त्तुरभिधानाद्देवदत्तेनेति तृतीया न स्यात् । यदि चक्त्वाप्रत्ययेनाभिधानेऽपि भुज्युत्तरप्रत्ययेनानभिधानमाश्रित्य देवदत्तेनेति तृतीयेत्युच्यते तर्हि भुजिप्रत्ययेनाभिधानेऽपि क्त्वाप्रत्ययेनानभिधानादोदनरूपे कर्मणी द्वितीया स्यात् । कर्मणिविधानपक्षे च पक्त्वोदनं भुङ्क्ते देवदत्त इत्यत्र पत्केत्यनेन कर्त्तुरभिहिततया देवदत्तशब्दात् तृतीया स्यात् । तेन कर्मणश्चाभिहिततयौदनशब्दात्प्रथमा च स्यात् । ततश्च पक्त्वोदनो भुङ्क्ते देवदत्तेनेति न प्रयोगापातः । एवमन्यत्राऽप्येवं जातीयकेऽतिप्रसङ्गोऽबोध्य इत्येवं शङ्कनीयत्वात्कथं भुजिप्रत्ययेनाभिधानेऽपि क्त्वाप्रत्ययेनानभिधानाश्रयणेनातिप्रसङ्गचोदनमित्यतो भवेदेवं यदि यत्क्त्वेत्यादौ कर्त्तरि कर्मणि वा क्त्वादयः स्युर्न चैवमित्याह ॥ भावे हीति । सयादिसूत्रे तुमर्थग्रहणात्तुमुन्भावे भवतीति ज्ञापितम् । तदेव चतुर्थग्रहणं शङ्कधृषेति यावदनुवर्तते । ततो भावे साध्यमानरूपे धातुवाच्ये क्त्वादय इति सिद्धेरिति भावः । ननु तुमर्थग्रहणेन भावलाभायोगः । कर्त्तरि कृदिति स्मरणेन तुमर्थस्य भावादिति चेन्न । उक्तसूत्रे तुमर्थवचनसामर्थ्यात्कर्त्तुः सकाशादस्यापनयोपपत्तेः । किंचास्मिन्नर्थेऽनिर्दिष्टानां प्रत्ययानां स्वार्थिकत्वस्य ‘‘अनिर्दिष्टाश्च प्रत्ययाः स्वार्थ’’ इति परिभाषासिद्धतया धातोश्च भावादिति रिक्तस्वार्थाभावेन भावरूपत्वं तुमर्थस्य युज्यत इत्याशयात् । पर्युदासपक्षीयोदाहृतप्रयोगानुपपत्तिः प्रसज्यप्रतिषेधपक्षे नास्तीत्याह । प्रसज्येति । सकृच्छतस्येत्यादि कुसुमविकासानुसारेणाह ॥ सकृदित्यादि ॥ केवलं शब्दव्यापारेति ॥ अनभिधानमेवेति । वस्तुतस्त्वभिधानमेवेत्यर्थः । अभिधानमेवेति पाठस्तु स्वरस इति विचार्यम् । कृतस्य चर्चस्योद्ग्रन्थत्वपरिहाराय स्थितत्वोक्तिलभ्यत्वमाह । तदेतदितीति सकलमकलङ्कम् । उभयव्याप्त्यभावेनेत्यस्य न यथाश्रुतसम्बन्धः किंतूभयत्रेत्यस्योपलब्धिरित्यत्रेति सूचयन्नाकाङ्क्षाक्रमेण आचष्टे ॥ ज्ञात्रादीति ॥