स्वशब्दोऽपि परापेक्षः
स्वरूपमात्रस्योपजीव्यत्वपक्षनिरासः
स्वशब्दोऽपि परापेक्षः
सुधा
किञ्चैवं वदता स्वरूपमात्रमुपजीव्यमित्यपि वक्तुं न शक्यते । तस्यापि स्वशब्देन परापेक्षताप्रतीतेरित्याह स्वशब्दोऽपीति ।
अनुव्याख्यानम्
स्वशब्दोऽपि परापेक्षः ………
परापेक्षः परापेक्षस्यार्थस्य प्रतिपादकः । कथमित्यत आह तस्मादिति ।
अनुव्याख्यानम्
……. ……. तस्माद्व्यावृत्तिरेव हि ॥
स्वशब्दार्थ इति प्रोक्तः ……. …….
परस्मात् । हिशब्दो हेतौ । अर्थः प्रवृत्तिनिमित्तम् । इति प्रोक्तः शब्दशक्तिज्ञैः । स्वं च तद्रूपं चेति हि स्वरूपम् । रूपशब्दश्च स्वपरसाधारणः । तेन स्वस्मिन्प्राप्तेऽप्युच्यमानः स्वशब्दः परिसङ्ख्यान्यायेन परव्यावृत्तिमेव प्रतिपादयतीति ज्ञायते ।
वाक्यार्थचन्द्रिका
एवं वदतेति । मिथ्याभूतपरसापेक्षत्वान्न सर्वज्ञत्वादेरुपजीव्यत्वमिति वदतेत्यर्थः ॥ परापेक्षतेति । मिथ्याभूतपरापेक्षतेत्यर्थः । स्वशब्दस्य परापेक्षताया बादितत्वादाह परापेक्षस्यार्थस्य प्रतिपादक इति ॥ कथमिति । स्वशब्दार्थभूतस्य स्वस्य परानपेक्षत्वान्न परापेक्षार्थप्रतिपादकत्वमपीत्यर्थः । भवेदेतद्यदि परस्माद्व्यावृत्तिः स्वशब्दार्थः स्यात्सैव कुतः । स्वशब्दस्य स्वमात्रवाचकत्वोपपत्तेरित्यत आह स्वं च तदित्यादि ॥ स्वपरेति । रूपशब्दस्याभिधेयवचनत्वात्स्वपरयोश्चाभिधेयत्वाविशेषात्स्वपरसाधारणत्वं तस्येति भावः ॥ परिसङ्ख्यान्यायेनेति । द्वयोः शेषिणोरेकस्य स्य वैकस्मिन् शेषिणि द्वयोर् योर्वा नित्यप्राप्तौ शेष्यन्तरस्य शेषान्तरस्य वा निवृत्तिफलको विधिः परिसङ्ख्याविधिः । उदाहरणं तु पञ्च पञ्चनखा भक्ष्या इत्यादि । अत्र पञ्चानां पञ्चनखानाभक्षणं न विधीयते । तस्य रागत एव प्राप्तत्वेन विध्यनपेक्षत्वात् । अप्राप्ते च शास्त्रस्यार्थवत्त्वात् । किन्तु तदितरनखा न भक्ष्या इतीतरपरिसङ्ख्यानमेव (इतरवर्जनं) विधिप्रमेयम् । यथा वाऽग्निचयने इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्त इति । तत्राग्निचयने गर्दभरशनाग्रहणमश्वरशनाग्रहणं चेति द्वयमनुष्ठेयम् । तत्राश्वरशनाग्रहणे इमामगृभ्णन्निति मन्त्रो लिङ्गादेव रशनाग्रहणप्रकाशनसामर्थ्यरूपान्नित्यं प्राप्नोतीति न तत्प्राप्त्यर्थः । तदप्राप्तांशपूरणार्थो वा विधिः । किन्तु लिङ्गविशेषाद्गर्दभरशनाग्रहणेऽपि मन्त्रः प्राप्नोतीति तन्निवृत्त्यर्थः । यथा वा चातुर्मास्यान्तर्गतेष्टिविशेषे गृहमेधीये आज्यभागौ यजतीति । अत्र गृहमेधीयस्य दर्शपूर्णमासप्रकृतिकत्वात्प्रकृतिवद्विकृतिः कर्तव्येत्यतिदेशादेवाज्यभागौ नित्यं प्राप्नुत इति न तत्र विधितत्प्राप्त्यर्थः । तन्नियमार्थो वा । किन्त्वतिदेशात्प्रयाजादिकमपि प्राप्नुयादिति तन्निवृत्त्यर्थः । तथेह रूपशब्देन स्वप्राप्तावप्युच्यमानः स्वशब्दो न स्वप्राप्त्यर्थस्तन्नियमार्थो वा किन्तु रूपशब्देनैव प्रसक्तस्य परस्य व्यावृत्त्यर्थ एव । अत एव रूपशब्देन प्रसक्तस्य बाह्यार्थस्य व्यावृत्त्यर्थं स्वं रूपं शब्दस्येत्यत्र स्वमिति विणं सङ्गच्छत इति भावः ।
**परिमल **
तस्मादित्यस्यार्थः परस्मादिति । अर्थ इत्यनुवादः । प्रवृत्तिनिमित्तमिति व्याख्या । तथाच स्वशब्दार्थः स्वशब्दप्रवृत्तिनिमित्तमित्युक्तं भवति ॥ रूपशब्दश्च स्वपरसाधारण इति । अर्थपर्यायो रूपशब्दः ॥ परिसङ्ख्यान्यायेनेति । पूर्वतन्त्रे प्रथमाध्यायद्वितीयपादीयान्तिमाधिकरणे परिसङ्ख्येति सिद्धान्तगुणसूत्रम् । तस्यायमर्थः । कर्मप्रयोगे उच्चार्यमाणा मन्त्रा विवक्षितार्थतया दृष्टार्था उताविविक्षितार्थाः सन्तो ऽदृष्टार्था इति सन्देहे ‘इमामगृभ्णन् रशनामृतस्ये’त्यादिमन्त्रप्रतिपाद्यार्थप्रतिपादकस्येमामगगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्त इति ब्राह्मणवाक्यरूपशास्त्रस्य सत्त्वादविविक्षितार्था मन्त्राः । विविक्षितार्थत्वे मन्त्रेण वक्तव्यार्थस्यानेनोक्तिरयुक्ता स्यात् । अन्धो हि अन्येन नीयते न तु चक्षुष्मानित्येवं तदर्थशास्त्रादिति सूत्रेण पूर्वपक्षयित्वा परिसङ्ख्येति सूत्रेणाश्वाभिधानीम् अश्वसम्बन्धिनीं रशनाम् आदद्यादित्यर्थोक्त्यर्थं ब्राह्मणवाक्यं न प्रवृत्तम् । येन मन्त्रगतशब्दशक्तिपर्यालोचनयैवास्यार्थस्य प्राप्तत्वाद् ब्राह्मणवाक्यसार्थक्याय मन्त्राणां विषहरमन्त्रस्योवोच्चारणमात्रेणादृष्टार्थतयोपकारकत्वं कल्प्येत किन्तु परिसङ्ख्या इतरपरिवर्जनं ब्राह्मणवाक्यस्यार्थः । चयनोपयुक्तेष्टकाधारशकटाकर्षणार्थं युगवाहकतया विनियुक्तयोरश्वरासभयोर्द्वयोरपि सम्बन्धिरशनाग्रहणे मन्त्रपदशक्त्या प्राप्ते सति गर्दभरशनां नादद्यादिति वक्तुं ब्राह्मणस्य प्रवृत्तिरिति तस्यानर्थक्याप्राप्तेर्मन्त्रा विविक्षितार्था इति सिद्धान्तः कृतस् तेन न्यायेनेत्यर्थः । ‘उभयत्र प्राप्तावन्यत्र विवर्जनं परिसङ्क्ये’त्युक्तेरिति भावः ।
यादुपत्यम्
परिसङ्ख्यान्यायेति । परिसङ्ख्यान्यायस्य चेदमुदाहरणम् । इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्तव इति ब्राह्मणवाक्येन ऋतस्य पशोर्नाश्वाभिधान्यादानं विधीयते । तस्येमामगृभ्णन् रशनामृतस्येति मन्त्रेणैव सामान्यतः प्राप्तत्वात् । किन्त्वनेन मन्त्रेण सामान्यतः प्राप्तगर्दभरशनापरिसङ्ख्यानं वर्जनमेव विधीयते ॥ गर्दभरशना नादातव्येति । ‘तत्र चान्यत्र च प्राप्तौ परिसङ्ख्या विधीयत’ इति वचनात् । एवं पञ्च पञ्चनखा भक्ष्या इत्येतदपि परिसङ्ख्यान्यायस्योदाहरणम् । अत्रापि पञ्चानां पञ्चनखानां भक्षणं न विधीयते । तस्य रागत एव प्राप्तत्वात् । किन्तु पञ्चेतरे पञ्चनखा न भक्ष्या इतीतरपरिसङ्ख्यानमेव विधीयत इति ।
वाक्यार्थरत्नमाला
सर्वव्यावृत्तये यस्मात्स्वशब्दोऽयं प्रयुज्यत इत्येतत्तत्वनिर्णयटीकायां रूपशब्दो हि वस्तुपर्याय इत्युक्तिमवगाह्यानवगाह्यरूपमिति प्रथमभागगीताभाष्यटीकायां रूपशब्दोभिऽधेयार्थ इत्युक्तिं हृदि कृत्वाह ॥ रूपशब्दस्येति ॥ परिसंख्याविधेरुदाहरणानि तु सिद्धान्तलेशसङ्ग्रहानुसारेण चन्द्रिकाटीकोक्तरीत्या च तत्राधिकरणे स्पष्टानि । स्वरूपं शब्दस्येत्यत्रेति । एतच्च जिज्ञासाधिकरणीयमूलोदाहृतनवेतिविभाषेत्येतद्विचारावसरे टीकायां तद्विवरणे चोक्तरीत्योपपाद्यम् । गीताभाष्यटीकाव्याख्याने टीकाकृता विशदीकृतमेतत्तदनुसारेणास्मदीयतद्-व्युत्पादनानुसारेण चोपयुक्तमत्र लेख्यमस्ति ।