०४ निर्विशेषत्वनिरासः

चिन्मात्रत्वं च नैवेष्टमविशेषत्ववादिनः

निर्विशेषत्वनिरासः

चिन्मात्रत्वं च नैवेष्टमविशेषत्ववादिनः

सुधा

मा भूत्तत्त्वदिना व्यावृत्तं ब्रह्मोपजीव्यम् । विज्ञानमानन्दं ब्रह्मेत्यादिश्रुत्या ब्रह्मलक्षणत्वेनोक्तेन चिन्मात्रत्वादिना तु भविष्यतीत्यत आह चिन्मात्रत्वं चेति ।

अनुव्याख्यानम्

चिन्मात्रत्वं च नैवेष्टमविशेषत्ववादिनः ॥**

मात्रशब्देन चितः सर्वविषयत्वादिकं व्यावर्तयति । आनन्दत्वादेरप्युपलक्षणमेतत् । ब्रह्मण इति शेषः ॥ चिन्मात्रत्वादिकं न ब्रह्मणो भिन्नम् अतो निर्वित्वाविरोधात्तदङ्गीक्रियत इत्यत आह तावन्मात्रमिति ।

अनुव्याख्यानम्

तावन्मात्रं यदीष्टं स्यात्सर्वज्ञत्वं कुतो न तत् ॥

तत्तर्हि तस्यापि श्रुतत्वादभिन्नत्वाच्चेति भावः । अभेदे कथं लक्षणत्वमिति चेत् । समं विज्ञानादावपि । उक्तश्च लक्ष्यलक्षणप्रकारो लक्षणसूत्र इति ।

वाक्यार्थचन्द्रिका

मा भूत्तत्त्वादिनेति । तत्त्वादिधर्माणामनभ्युपगमादभ्युपगमेऽपि तद्व्यावृत्तस्योपजीव्यतायां ज्ञातज्ञापकत्वप्रसङ्गादिति भावः ॥ चिन्मात्रत्वादिनेति । यद्यप्येतदुक्तन्यायेनैव परिहृतमत एववित्ववादिनेत्यत्राप्युक्तदोषाभिधानं तथाऽपि गूढाभिसन्धेरियमाशङ्काऽभिसन्ध्युद्घाटं तु ‘तावन्मात्रं यदीष्टं स्यादि’त्युत्तरग्रन्थ एव स्पष्टम् । चित्त्वं चेत्येतावता पूर्तेर्मात्रशब्दोऽनर्थक इत्यत आह मात्रशब्देनेति । आदिपदेन सर्वाज्ञानविरोधित्वादिपरिग्रहः । ननु यदि ब्रह्मणश्चिन्मात्रत्वं स्यात्तर्हि सर्वज्ञत्वादिकमपि स्यादिति प्रसङ्गो निर्मूलः । दृष्टान्ताभावेन व्याप्त्यसिद्धेरित्यतो विव्याप्त्यभावेऽपि यदविशिष्टस्येत्यविलक्षणसामान्यव्याप्तेः सत्त्वान्न निर्मूलत्वमिति भावेनाविमुपपादयति तस्यापि श्रुतत्वादित्यादिना ॥ कथमिति । प्रसिद्धेन ह्यप्रसिद्धं लक्षणीयम् । न च तदेव तदैव प्रसिद्धमप्रसिद्धं चेति युज्यत इति भावः ॥ उक्तश्चेति । समर्थितश्चेत्यर्थः । अभेदेऽपि विबलेनेति शेषः ॥ लक्षणसूत्र इति । ‘अतोऽनन्तगुणं ब्रह्मनि र्भेदमपि भण्यते’ इत्यादिनेति शेषः ।

**परिमल **

उक्तश्चेति । सविशेषाभेदाङ्गीकारेण जन्मादिसूत्रानुव्याख्याने उक्त इत्यर्थः ।

यादुपत्यं

लक्षणसूत्र इति । लक्षणसूत्रव्याख्यावसर इत्यर्थः ॥

श्रीनिवासतीर्थीया

व्यावर्तयतीति । अन्यथा मिथ्याभूतसर्वापेक्षत्वेन(सापेक्षत्वेन) मिथ्यात्वापातादिति भावः ।