अपरीक्षितदृष्टिश्च कथमेवाक्षजं भवेत्
अपरीक्षितदर्शनस्याप्रामाण्यत्वम्
अपरीक्षितदृष्टिश्च कथमेवाक्षजं भवेत्
सुधा
द्वितीयं दूषयति अपरीक्षितेति ।
अनुव्याख्यानम्
अपरीक्षितदृष्टिश्च कथमेवाक्षजं भवेत् ॥
अक्षजं कथमेव भवेदिति प्रत्यक्षं प्रमाणतयाऽभिलषितार्थे नोद्भावयितुं शक्यते । न हि प्रमाणत्वेनानवधारितं प्रमाणत्वेनोद्भावयन्परीक्षकः स्यादिति भावः ॥ विपक्षे बाधकमाह यद्येवमिति ।
अनुव्याख्यानम्
यद्येवं देवदत्तादिभ्रमः किन्नाक्षजं भवेत् ॥
प्रमाणत्वेनापरीक्षितमपि यदि प्रत्यक्षतयोद्भाव्यत इत्यर्थः । देवदत्तादिभ्रम इति । यज्ञदत्तशुक्त्यादौ देवदत्तरजतादिभ्रम इत्यर्थः । बाधितत्वात्तन्नाक्षजं प्रमाणमिति चेत् । तत्किं बाधाभावमात्रं वस्तुव्यवस्ताहेतुः । तथात्वे निश्चायकप्रमाणवैयर्थ्यापत्तेः । अस्ति च प्रकृते वेदबाध इति ।
वाक्यार्थचन्द्रिका
प्रमाणत्वेनानवधारितस्य दोषप्रत्यक्षस्य दोषव्यवस्थापकत्वे तत्त्वेनानवधारितस्य देवदत्तादिभ्रमस्य स्वार्थव्यवस्थापकत्वमापादितम् । तदयुक्तम् । समानयोगक्षेमत्वाभिप्रायेण खल्वयमतिप्रसङ्गो वाच्यः । नान्यथा । व्याप्त्यभावात् । न च प्रकृते तदस्ति दोषदर्शनस्याबाधितत्वाद्देवदत्तादिभ्रमस्य च बाधितत्वात् । तथा च प्रमाणतयाऽनवधारितस्यापि दोषदर्शनस्याबाधितत्वाद्युक्तमेव स्वार्थव्यवस्थापकत्वं न त्वतादृशदेवदत्तादिभ्रमस्येति भावेन वैषम्यं शङ्कते बाधितत्वादिति । अस्तु तावत्प्रकृते बाधाभावः । तत एव वैषम्येण प्रतिबन्दीपरिहारोऽपि । तथाऽपि न तन्मात्रं वस्तुव्यवस्थापकं तथा सति स्वपक्षसाधनस्याकर्तव्यत्वापत्त्या तदर्थकनिश्चायकप्रमाणवैयर्थ्यापातात् । किन्तु बाधकाभावसहकृतसाधकसद्भाव एव । न च प्रकृतेऽसावस्ति । दोषप्रत्यक्षस्य प्रमाणतयाऽनवधारितत्वेन साधकाभावस्य सत्त्वात् । तथा च न विष्णोर्दोषत्वव्यवस्थापकत्वमक्षजस्येत्याशयेनाह तत्किमित्यादिना । अङ्गीकृत्यैव च प्रकृते बाधाभावं तन्मात्रस्य न वस्तुव्यवस्थापकत्वमिति वस्तुस्थितिरेवेयमुक्ता । इदानीमस्तु बाधाभावस्यैव वस्तुव्यवस्थापकत्वं तथाऽपि दोषग्राहिप्रत्यक्षस्य वेदबाधितत्वेन प्रकृते बाधाभावस्यैवाभावान्न प्रत्यक्षेण दोषसिद्धिर्नापि प्रतिबन्दीपरिहारः प्रमाणत्वेनानवधारितयोर्बाधितयोश्चैकस्यार्थव्यवस्थापकतायां तदविशिष्टद्वितीयस्यापि तदापत्तेरवर्जनीयत्वादित्याह अस्ति चेति । केचित्तु, किं बाधाभावमात्रं वस्तुव्यवस्थापकं, तत्सहितं साधकं वेति विकल्पं मनसि निधायाद्यं दूषयति तत्किमिति । बाधाभावमात्रं न वस्तुव्यवस्थाहेतुरित्यर्थः । तत्कुत इत्यत आह तथात्व इति । बाधाभावमात्रेणैव वस्तुव्यवस्थितेरिति भावः । द्वितीयं दूषयति अस्ति चेति । उपलक्षणं चैतत् । साधकमप्यत्रोक्तन्यायेन नास्तीत्यपि द्रष्टव्यम् । तथा च बाधाभावसहकृतसाधकस्य प्रकृतेऽभावान्न वस्तुव्यवस्थेति भाव इत्याहुः ।
**परिमल **
द्वितीयमिति । उतापरीक्षितेत्युक्तपक्षमित्यर्थः ॥ वेदबाध इति । ‘निरनिष्टो निरवद्य’ इत्यादिवेदबाध इत्यर्थः ।
वाक्यार्थरत्नमाला
समानयोगेति । अविलक्षणसामान्यव्याप्त्यभिप्रायेणेत्यर्थः । अन्यथेत्यस्य विव्याप्त्येत्यर्थः । तत्र हेतुर्व्याप्तीति । वि व्याप्तीत्यर्थः । तदित्यस्य समानयोगक्षेमत्वमित्यर्थः ।