न हि कश्चित्सुखाद्येषु संशयं कुरुते जनः
उक्तार्थपिण्डीकरणम्
न हि कश्चित्सुखाद्येषु संशयं कुरुते जनः
सुधा
उक्तमर्थं बुद्ध्यारोहाय सङ्क्षिप्याह न हीति ।
अनुव्याख्यानम्
न हि कश्चित्सुखाद्येषु संशयं कुरुते जनः ॥
न चैवाखिलमानानि निश्चिनोत्यखिलो जनः ॥
तस्मादनुभवारूढं किमर्थमपलप्यते ॥
यस्मात्सुखाद्येषु कश्चित्संशयं न करोति यस्माच्चाखिलानि वृत्तिज्ञानानि दर्शन एव प्रमाणतयाऽखिला जना न निश्चिनोति तस्मात्साक्षिप्रामाण्यं परीक्षानपेक्षेण साक्षिणैव गृह्यते । वृत्तिज्ञानानां तु तत्सापेक्षेणेत्यनुभवारूढं प्रमेयं किमर्थमपलप्यते । निर्निमित्तमपलपितुं न शक्यत इति ।
वाक्यार्थचन्द्रिका
नियमेन सुखाद्येष्वित्यादिनोक्तस्यैवोत्तरत्र प्रतिपादनात्पौनरुक्त्यमित्याशङ्क्य परिहरति उक्तमर्थमिति ।
श्रीनिवासतीर्थीया
परीक्षानपेक्षेणैवेति । सुखादिविषय इत्यर्थः ।
दोषाभावादिकं चैव साक्षी सम्यक् प्रपश्यति
दोषाभावादिकं चैव साक्षी सम्यक् प्रपश्यति
सुधा
‘न परीक्षाऽनवस्था स्यादि’त्युक्तमुपसंहरति दोषाभावादिकं चेति ।
अनुव्याख्यानम्
दोषाभावादिकं चैव साक्षी सम्यक् प्रपश्यति ।
साक्ष्येवेति सम्बन्धः । स्वस्य परीक्षायाश्च दोषाभावं प्रामाण्यं च परीक्षानिरपेक्षः साक्ष्येव सम्यक् प्रपश्यति । तस्मान्न काऽप्यनवस्थेति ।
वाक्यार्थचन्द्रिका
न काऽपीति । ग्राहकानवस्था परीक्षानवस्था वेत्येवं काऽपीत्यर्थः ।