०३ परीक्षानिरपेक्षसाक्षिवेद्यत्वमतनिरासः

न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते

परीक्षानिरपेक्षसाक्षिवेद्यत्वमतनिरासः

न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते

सुधा

एतेन साक्षिवेद्यतापक्षोऽपि प्रतिक्षिप्तः । औपनिषदज्ञानदृष्टिमात्रेण बाह्यैस्तत्प्रामाण्यस्यादर्शनात् ।

वाक्यार्थचन्द्रिका

एतेनेत्युक्तमेव विवृणेति औपनिषदेति । परीक्षानपेक्षसाक्षिमात्रेण ग्रहणं न सम्भवति । अन्यथौपनिषदज्ञानदृष्टिमात्रेण बाह्यानामपि तत्प्रामाण्यदर्शनप्रसङ्गान्न च तदस्तीत्याशयः । न च प्रसक्तमप्यपोद्यत इति वाच्यम् । तथा सत्यपवादनिरासाय परीक्षापेक्षावश्यम्भावप्राप्त्या प्रामाण्यस्यानपेक्षसाक्षिग्राह्यत्वसिद्धान्तभङ्गापातात् ।

**परिमल **

अपरे त्वित्यादिनोक्ततृतीयमतं निराह एतेन साक्षीति । परीक्षानपेक्षसाक्षिवेद्यतापक्ष इत्यर्थः । मूलं योजयति औपनिषदज्ञानदृष्टीत्यादि । ज्ञानदृष्टिपदेन ज्ञानगोचरसाक्षिग्रहः ॥ अदर्शनादिति । अन्यथा तन्निराकरणानुपपत्तेरिति भावः ॥

यादुपत्यं

साक्षिवेद्यतापक्षोऽपीति । सर्वथा परीक्षानपेक्षसाक्षिवेद्यतापक्ष इत्यर्थः ॥

श्रीनिवासतीर्थीया

साक्षिवेद्यतेति । परीक्षानपेक्षसाक्षिवेद्यतापक्ष इत्यर्थः ॥