न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते
प्राभाकरमतदूषणम्
न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते
सुधा
एवं मानसप्रत्यक्षादिज्ञानप्रामाण्यग्रहस्य परीक्षाधीनत्वेऽपि साक्षिप्रामाण्यग्रहस्य तदनपेक्षत्वान्न परीक्षाऽनवस्थेत्युक्तम् । तत्र किमनया द्विविधकल्पनया । साक्षिवत्प्रत्यक्षादिज्ञानस्यापि प्रामाण्यग्रहः परीक्षानपेक्ष एवोक्तविधया स्वतः किन्न स्यादित्याशङ्कां परिहरति नेति ।
अनुव्याख्यानम्
न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते ॥
ज्ञानस्य दृष्टिर्ज्ञानदृष्टिः । तस्य ज्ञानस्य ।
**परिमल **
उक्तविधयेति । अत्र केचिदाहुरित्यादिनोक्तप्रकारत्रयेणेत्यर्थः ।