शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः
श्रुतिभिर्योग्यतासाधनम्
शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः
सुधा
एवं ब्रह्मादिजीवेष्वनादिनित्यां नानाविधां योग्यतां प्रसाध्येदानीमागमेनापि साधयन्नादौ तावत् श्रुतीः पठति शृण्वे वीर इति ।
अनुव्याख्यानम्
शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ॥**
एधमानद्विुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥
वीरोऽध्यवसितान्तगामी । इन्द्रः परमेश्वरः । उग्रमुग्रं सर्वान्दुष्टप्रकृतीन्दमयन्नित्यनरकं प्रापयन्नन्यमन्यं सर्वान्सत्स्वभावानतिनेनीयमानः संसारं भृशमतिक्रमयन् । स्वयोग्यतातिरेकेणैधमानं द्वेष्टीत्येधमानद्विट् । शृण्वे श्रूयते । कुत उभयस्य देवतासुरवर्गस्य राजा यतः । किञ्च मनुष्यान्विशः प्रजाश्चोष्कूयते नित्यं परिवर्तयति ।
अनुव्याख्यानम्
परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।
अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति ॥
परा पूर्वेषाम् । अतीतमन्त्रे पूर्वेषां पूर्वनिर्दिष्टानामुग्राणां सख्या सख्यानि परावृणक्तिपरित्यजति । अपरेभिरपरैः साधुभिः सह सख्यानि वितर्तुराणोऽतिशयेन त्वरमाण एत्यानानुभूतीः सम्यगनुभवरहितानवधून्वानोऽवमे संसारे वर्तयन्निन्द्रः पूर्वीः शरदोऽतीतान्संवत्सरांस्तीर्णो वर्तमानांश्च तर्तरीति । आगामिनश्च तरिष्यतीति । अत्र मन्त्रद्वयेऽसुराणामनादितो भगवद्भजनाभावो नित्यनरकावाप्तिश्च श्रूयते । देवानां सदा भगवद्भजनं मोक्षावाप्तिश्च । मनुष्याणां सर्वदा संसार इति ॥
अनुव्याख्यानम्
दिवे दिवे सदृशीरन्यमर्धं कृष्णा असेधदपसद्मनो जाः ॥
अहन् दासावृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥
दिवे दिवे वर्षणाद्वृषभः परमेश्वरो दिवे दिवे सर्वदा सदृशीश्चेतनत्वमात्रेण कृष्णास्तमोमयीर्जाः प्रजाः कास्ता देवेभ्योऽनमर्धं स्वीयात्सद्मनोपासेधत् । निवर्तयति । किञ्च दासौ दस्यू वस्नयन्ता जगच्छायदन्तौ वर्चिनं शम्बरं चोदव्रजे जलराशौ समुद्रतीरेऽहन्हिंसितवानिति । अत्र दैत्यानां कदाऽपि न मोक्ष इति प्रतीयते ॥
अनुव्याख्यानम्
तं भूतिरिति देवा उपासाञ्चक्रिरे ते
*** बभूवुस्तस्माद्धाऽप्येतर्हि सुप्तो***
भूर्भूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः ॥
तद्यथा पेशस्कारी पेशसो मात्रामुपादायान्यन्नवतरं
*** कल्याणतरं रूपं तनुते ॥***
एवमेवायमात्मेदं शरीरं निहत्याविद्यां
*** गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते ॥***
पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं
*** वा ब्राह्मं वान्येषां भूतानाम् ॥***
तं भूतिरिति । तं परमेश्वरम् । भूतिरश्वर्यरूपः । बभूवुर्मुक्ता इति शेषः । एतर्हीदानीं सुप्तः सुप्तस्थो वायुः । पराबभूवुर्नित्यनिरयं प्राप्ताः । अत्र देवासुराणां सभ्यग्विपरीतोपासनाभ्यां मोक्षतमसोः प्राप्तिः श्रूयते । तेन देवत्वमसुरत्वं च सहजमिति ज्ञायते ॥ तद्यथा तद्वक्ष्यमाणं निदर्शनं यथा । पेशस्कारी सुवर्णकारः पेशसः सुवर्णस्य मात्रामंशम् । अन्यदिव नवतरं प्रागननुभवात् । कल्याणतरं मलापकर्षात् । रूपं रुचकादिकम् । आत्मा परमात्मा । अन्येषां भूतानां मनुष्योत्तमानाम् । अत्र सुवर्णस्यैव यथा रुचिकादिभावः सुवर्णकारेण क्रियते न यस्य कस्यचिद्द्रव्यस्य तथा मुक्तियोग्यानामेवेश्वरेण मुक्तत्वं क्रियते नान्येषामिति प्रतीयते ।
वाक्यार्थचन्द्रिका
प्रसाध्येति । अनुमानेनेति शेषः । प्रयान्तीत्यादिना स्मृतीनामप्युत्तरत्रोदाहरणात्तावच्छब्दः ॥ इन्द्रः परमेश्वर इति । ‘इन्द्रः स परमैश्वर्यादि’ति ऋग्भाष्योक्तेरिति भावः । उग्रमुग्रमिति वीप्सायां नित्यवीप्सयोरिति द्विर्वचनमिति भावेनाह सर्वानिति । अन्यमन्यमित्यपि पूर्ववद् द्विर्वचनमितिभावेनाह सर्वानिति । नयतेर्धातोरेकाच इति भृशार्थे यङि सन्यङोरिति द्विर्वचने गुणो यङ्लुकोरिति गुणे यङन्ताल्लटः शानचि आने मुगिति भावेनाह संसारमित्यादि ॥ द्वेष्टीतीति । क्विप्चेति कर्तरि क्विप्प्रत्यये कृदन्तत्वात्तद्धितेति प्रातिपदिकत्वे कित्त्वाद्गुणाभावे चैतद्रूपसिद्धिरिति भावः । श्रु श्रवण इत्यस्मात्कर्मण्यात्मनेपदं पुरुषव्यत्ययो यगभावश्च श्रुवः ृचेति शपोपवादः श्नुः ृभावश्च ऋवर्णान्नस्य णत्वमिति णत्वम् । उवङि प्राप्ते हुश्नुवोः सार्वधातुक इति यणादेशश्चेत्यभिप्रेत्य व्याख्याति ृण्वे श्रूयत इति । स्कुञ् आप्रवणे धातोरेकाच इति यङ् अकृत्सार्वधातुकयोरिति दीर्घः । द्विर्भावः शर्पूर्वाः खय इति सकारलोपेन ककारशेषः । कुहोश्चुरिति चुत्वम् । गुणा यङ्लुकोरिति गुणः । सुषामादित्वात् षत्वम् । यङन्ताल्लडात्मनेपदमिति भावेन व्याचष्टे नित्यं परिवर्तयतीति । सुपां सुलुगिति सुपो डादेशः । टिलोपश्चेत्यभिप्रेत्य व्याचष्टे सख्या सख्यानीति । वृजी वर्जन इत्यस्माल्लट् प्रथमपुरुषैकवचनमिति रुदादिभ्यः श्नमिति शषोऽपवादः श्नं नित्यत्वाच्चायं गुणात्पूर्वं भवति मित्वादचोन्त्यात्परश् चोःकुरिति कुत्वम् ऋवर्णान्नस्य णत्वं वाच्यमिति णत्वे च वृणक्तीत्येतद्रूपनिष्पत्तिरित्यभिप्रेत्य व्याख्याति वृणक्ति परित्यजतीति । बहुलं छन्दसीति वचनाद्भिस ऐसादेशाभाव इत्यभिप्रेत्याह अपरेभिरपरैरिति । विपूर्वकात्तरतेर्धातोरेकाच इति यङि यङोऽचि चेति तल्लुकि च सत्यन्तरङ्गत्वात्सन्यङोरिति द्विर्भावे उरदित्यभ्यासऋवर्णस्यात्वे रपरत्वे हलादिशेषे प्रत्ययलक्षणेन धातुत्वात् शप्तिबाद्युत्पत्तौ चर्करीतं चेत्यदादिवद्भावात् शपो लुकि ऋदन्तत्वेऽपि छन्दस्त्वादभ्यासस्य नुगागमे बहुलं छन्दसीति धातो रुत्वे रपरत्वे लटः शतृशानचाविति शानजादेशे च वितर्तुराण इति शब्दनिष्पत्तिमभिप्रेत्य तद्व्याचष्टे अतिशयेन त्वरमाण इति ॥ एतीति । इण् गतावित्यस्मात् शप्तिबाद्युत्पत्तावदादित्वाच्छपो लुकि सार्वधातुकार्धधातुकयोरिति गुणे चैतन्निष्पत्तिरिति भावः । चेतनस्यानुभवशून्यताया बाधितत्वादनानुभूतीरिति तथोक्त्यनुपपत्तिमाशङ्क्या तत्तात्पर्यमाह सम्यगिति । धूञ् कम्पन इत्यस्माल्लडात्मनेपदप्रथमपुरुषैकवचने परतः शपोऽपवादेन स्वादिभ्यः श्नुरिति श्नुप्रत्यये लटः शतृशानचाविति लडात्मनेपदस्य शानजादेशे च सति धूनत इति धुन्वान इति रूपनिष्पत्तिरित्यभिप्रेत्यावशब्दार्थकथनपूर्वकं तत्तात्पर्यमाह अवम इत्यादिना । अतीतसंवत्सरतरणस्यातीतत्वात्तर्तरीति तद्वर्तमानत्वोक्तेरनुपपत्तिमाशङ्क्योभयस्योपलीणतामाश्रित्य व्याचष्टे पूर्वीः शरद इत्यादिना ॥ तीर्ण इति । श्युकः कितीतिट्निषेधः । निष्ठायामित्वरपरत्वदीर्घत्वेषु रदाभ्यामिति णत्वमिति भावः ॥ तर्तरीतीति । तरतेर्यङि तल्लुकि च सति द्विर्भावे हलादिशेषे धातुत्वाच्छप्तिबाद्युत्पत्तौ छान्दसेऽभ्यासस्य रुगागमेऽदादित्वाच्छपो लुकि गुणरपरत्वयोः सतेर्यङो वेतिति यङ्लुङन्तात्परस्य तस्य हलादेः पितः सार्वधातुकस्य इडागमविध्यनादिटि सति तर्तरीतीति रपूनिष्पत्तिरिति ज्ञेयम् ।
वर्षणादिति । वृष सेचन इत्यस्माद्वर्षतीति वृषभ इति कर्तर्यौणादिकेऽभक्प्रत्यये तस्य कित्त्वाद्गुणाभावे वृषभ इति रूपनिष्पत्तिरिति भावः । नित्यवौप्सयोरिति वीप्सायां दिवे दिव इति द्विर्भाव सत्यभिप्रेत्याह सर्वदेति ॥ दासौ दस्यू इति । दास दान इत्यस्माद्दासन्तेऽस्मै इति व्युत्पत्त्या दासशब्दस्य भृत्यवाचकत्वेऽपि दसु उपक्षय इत्यस्माद्दस्यत इति व्युत्पत्त्या दस्युवाचकत्वमप्यस्तीति भावेनैवं व्याख्यातम् ॥ जगदाच्छादयन्ताविति । वस आच्छादन इति धातोरिति भावः ॥ अहन्निति । हन्तेर्लुङ् प्रथमपुरुषैकवचने तिपि शपि अदादित्वात्तल्लुकि इतश्चेतीकारलोपे हलङ्याप्भ्य इति तकारलोपेऽडागमे चाहन्निति रूपसिद्धिरिति भावः ।
‘स एव भूतिनामाऽपि ज्ञानैश्वर्यादिभूतिदः । अज्ञानादिप्रदातृत्वात्स एत्ताभूतिनामकः । सुखज्ञानादिगुणदं पूर्णं सर्वगुणैः प्रभुम् । उपासते तं वाय्वाद्या देवास्तस्माच्च तेऽखिलाः । बभूवुः सुखसज्ज्ञानपूर्वैः सर्वगुणैर्युताः । देवानामपि सर्वेषां प्रधानोऽद्यापि मारुतः । स्थित्वा सुप्तेषु विष्णुं तं भूर्भूरित्येव शंसति । भूः शब्दार्थो भूतिरिति वैपरीत्येन चासुराः । अभूतिकारकोऽस्माकमैश्वर्यादिगुणोज्खितः । इत्येवोपासते तस्मात्पराभूताश्च सर्वशः । ज्ञानैश्वर्यादिभिर्हीनाः पेतुरन्धे तमस्यथ’ इत्यैतरेयभाष्योदाहृतप्रमाणानुरोधेन श्रुतिं सङ्क्षेपतो व्याचष्टे तं परमेश्वरमित्यादिना । पूर्वमविद्यमानस्वरूपप्राप्तेरभावान्नवतरत्वोक्त्यनुपपत्तिमाशङ्क्या पूर्वाननुभूतत्वान्नवतरं च भवतीति बृहद्भाष्यं मनसि निधाय तदुक्तिं समर्थयते नवतरमिति ॥ आत्मा परमात्मेति । जववपरत्वे आत्मशब्दस्य शरीरं निहत्याविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतरं रूपं कुरुत इत्यादेरयोगादिति भावः ॥ मनुष्योत्तमानामिति । अत्र मनुष्यशब्दश्चक्रवर्तिपरः । स मनुष्याणां परम आनन्द इति पूर्वब्राह्मणे मनुष्यशब्देन चक्रवर्तिनामुक्तत्वात् । उत्तमशब्दश्च मनुष्योत्तमपरः । अत एव बृहद्भाष्येऽन्येषां वा भूतानामित्येतन्मनुष्यादीनामिति व्याख्यातम् । पूर्वब्राह्मणे यद्यपि चक्रवर्तिभ्यो नीचा मनुष्योत्तमा नोक्तास्तथाऽपि ‘अन्येभ्योऽपि विमुक्तेभ्य आनन्दश्चक्रवर्तिनामि’ति प्रमाणबलात्तत्रापि ग्राह्या एवेत्यभिप्रेत्य भाष्ये आदिपदप्रयोगः । नन्वस्य वाक्यस्य कथमनादियोग्यतागमकत्वमित्यत आह अत्रेति ।
**परिमल **
वीप्सायां द्विर्वचनमिति भावेनाह सर्वानिति । संहितायां दैर्घ्येऽपि न पदे अतो दमयन्नित्यनुवादः ृण्व इत्यात्मनेपदोत्तमपुरुषैकवचनं व्यत्ययेनेति भावेनाह श्रूयत इति ॥ कुत इति । देवासुराणां सदसद्गती कुतः करोतीत्यर्थः ॥ किञ्चेति । न केवलं सदसद्गतिप्रापणमन्योऽपि व्यापारोऽस्तीत्यर्थः । तमाह मनुष्यानिति । विश इत्यस्यार्थः प्रजा इति । चोष्कूयत इति यङन्तत्वान्नित्यमित्युक्तम् । परा पूर्वेषामिति श्रुतिप्रतीकग्रहणम् । सख्येति सुपां सुलुक् पूर्वसवर्णाच्छेयाडाड्यायाजाल इति सूत्रेण प्रथमाबहुवचनस्य डादेश इति भावेनाह सख्यानीति । वृजी त्यागे श्नम्विकरणमित्युपेत्याह वृणक्ति परित्यजतीति । अतो भिस ऐस् इत्यत्र बहुलं छन्दसीत्युक्तेराह अपरेभिर् अपरैरिति । तर्तरीति तरतीत्यर्थः । सख्यत्यागोपादानतात्पर्योक्तिः ‘असुराणामनादित’ इत्यादि । नित्यनरकेत्यादि फलोक्तिः । पूर्वमन्त्रार्थः । मनुष्याणामिति मन्त्रद्वयोक्तार्थः दिवे दिवा इति मन्त्रप्रतीकम् । अन्यमर्धमित्यत प्रतियोगिनमाह देवेभ्य इति । दासेत्यस्य प्रतिपदं दासाविति तस्यार्थः दस्यू इति । वस्नयन्तेत्यस्य वस्नयन्ताविति विभक्तेर्डादेशः । वस आच्छादने वासयन्तावित्यर्थे छान्दसं रूपमित्युपेत्याह जगदाच्छादयन्ताविति । जगदिति योग्यतयाऽन्वयः । वर्चिनं वर्चिनामकमसुरं शम्बरासुरं चेत्यर्थः । तमित्यैतरेयश्रुतिः । रुचकादिकं कण्ठभूषणादिकम् । इयं तु काण्वश्रुतिः ॥ अनादिनित्ययोग्यतायां श्रुत्युक्तिः ॥
श्रीनिवासतीर्थीया
नन्वन्यमर्धमिति कथं पुल्लिङ्गप्रयोगः । अर्धं नपुंसकमिति सूत्रादन्यदर्धमिति वक्तव्यत्वादिति चेत् । सत्यम् । यत्रोभयोरर्धयोः साम्यं तत्रैवार्धं नपुंसकमिति सूत्रप्रवृत्तिः । यथोक्तममरकोशकारेण । अर्धं समेंऽशकमिति । अंशके भागे समे सत्यर्धमिति नपुंसकं भवतीत्यर्थः । प्रकृते च देवभागादसुरभागस्य बहुत्वेनोभयोरर्धयोः साम्याभावादन्यमर्धमिति पुल्लिङ्गोपपत्तिरित्याशयः । भेदाभेदसद्भावादन्यदिवेत्युक्तम् ।
वाक्यार्थरत्नमाला
नित्यवीप्सयोरितीति ॥ नित्यं प्रहसितो नित्यं जल्पित इत्यादौ पौनःपुन्यरूपाभीक्ष्णे नित्यशब्दः प्रयुज्यते ततश्चाभीक्ष्ण्ये वीप्सायां द्विर्वचनं भवतीति सूत्रार्थः । सर्वस्य द्वे इत्यधिकारात् । ततश्च वृक्षं वृक्षं सिंचतीत्यादाविव प्रकृतेऽपि व्याप्तुमिच्छायां द्योत्यायां द्विर्वचनमित्यर्थः । पूर्ववद् वीप्सायाम् ।
ननु पचति भुत्क्वेत्यादाविवाभीक्ष्ण्येऽप्यत्र द्विर्वचनमिति कुतो नोक्तमिति चेन्न । आभीक्ष्ण्यस्य तिङव्ययकृत्स्वेवोक्तत्वेनोणादिशब्दे तदप्रसङ्गादिति भावः । नयतेरिति । नयतोर्धातोरित्यर्थः । भृशार्थ इति । क्रियासमभिहारो नाम पौनः पुन्यं भृशार्थश्च तत्र भृशार्थ इत्यर्थः । सन्यङोरितीति ॥ सनि यङि च परतो ऽनन्यासस्यधात्ववयवस्यैकाचो द्वित्वविधायकेनेत्यर्थः । गुणो यङिति । यङितल्लुङिच परतोऽभ्यासस्य गुण इति सूत्रार्थः । यङन्ताल्लट इति ॥ यङन्तत्वे सनाद्यन्ताघातव इत्यनेन धातुसंज्ञायां लट् तस्य लटः शतृशानचावित्यनेन शानचि अदन्ताङ्गस्याने परतो मुग्विधायकेनाने मुगित्यनेन मुकि सति विवक्षितरूपसिद्धिरित्यर्थः । कर्मणीति ॥ भावकर्मणोरित्यनेन भावकर्मणोरर्थयोरात्मने पदनियमविधानादिति भावः । श्रूयन्त इति प्रयोगस्थाने ृण्व इति प्रयोगं छान्दसत्वादिनोपपादयति ॥ पुरुषव्यत्यय इत्यादि ॥ श्रु श्रवण इत्यस्माद्धातोरात्मनेपदतङस्त इत्येतत्प्रथमपुरुषैकवचनस्य स्थाने इटि व्यत्ययेन प्राप्ते सार्वधातुके यगिति भावकर्मवाचिनि सार्वधातुके परतः प्राप्तस्य यक्प्रत्ययस्य बाहुलकाभावे तस्माद्धातोः श्रुव इत्यनेन शबपवादे श्नौ श्रु इत्यस्य ृ इत्यादेशे ऋवर्णास्यन्न णत्वेऽचिश्नुधात्वित्यनेनोवङि प्राप्ते हु श्नुवोः सार्वधातुक इति तदपवादेन यणि सति ‘‘टित आत्मने पदानामि’’त्यनेन लट आत्मनेपदस्येत एत्वे च सति विवक्षितरूपसिद्धिरित्यर्थः ।
स्कुञ् आप्रवण इति । आप्रवणम् । आगमनं युद्धे वैरिभयेन प्रत्यागमनमिति यावत् । स्कुञ्धातोः पौनःपुन्यार्थे यङि कृत्सार्वधातुकभिन्ने यकारे परतोऽचो दीर्घविधायकेनाकृत्सार्वधातुकयोर्दीर्घ इति सूत्रेणाचो दीर्घ ‘‘सन्यङोरि’’ति द्वित्वे शपूर्वाः खञित्यनेनाभ्यासस्य शपूर्वकस्य कु इत्यस्य शेषेण सकारलोपे कुहो श्चुरित्यनेनाभ्यासककारस्य चुत्वे ‘‘गुण’’ इत्यनेन यङिपरतोऽभ्यासस्य गुणे सुषामादेराकृतिगणत्वेन सुषामादिषु चेत्यनेन सूत्रेण सस्य षत्वे सनाद्यन्तया तधातुत्वादिकमित्यर्थः । गुणात्पूर्वमिति शेषीकृतोक्तम् । गुणं बाधत इति नवीनेन । श्नमः प्रत्ययतया प्रकृतिपरत्वं न वाच्यम् । अचोंत्यादिति विशेषादित्याशयेनोक्तम् । मित्वादिति । ततश्च रुणद्धीति षद्गुणक्रीतिरूपमित्यर्थः । यङो चि चेति तल्लुकीति । तत्र सूत्रे चादऽसरत्वाभावेऽप्यन्यत्र बहुलं लुग्भवतीति प्रतिपादनादत्र तल्लुगित्यर्थः । अन्तरङ्गत्वादिति । एतच्च शेषीकृतैव व्याख्यातम् । अनुत्पन्नेष्वेव लङादिषु प्रथमापन्नतयाऽङ्येतरत्वाद्वित्वं लादिभ्योन्तरङ्गमित्यर्थ इति । अत्र नवीनोक्तयनुसारेण प्रत्ययलक्षणेनेति पूरणीयम् । उरदित्यभ्यासेति ॥ अत्राप्यन्तरङ्गत्वमपेक्ष्यते । प्रत्ययलक्षणेन धातुत्वादिति । यङो लेपे प्रत्ययलक्षणेनेति न सनाद्यन्ताधातव इत्यनेन धातुत्वमित्यर्थः । एतच्च साधुत्वासाधुत्वविचारेण किमस्माकम् । कौमुदीकृतौक्तस्य शेषीकृतोपपादनमपि व्याख्यानमित्याशयेन तदाश्रयणम् । न वस्तुतः । उपदेशेन सिद्धे साधुत्वे दुर्बलस्यातिदेशस्यानादर्त्तव्यत्वात् । न च प्रत्ययेनोपदेशापवादः । क्विबन्तेष्विव प्रत्ययोत्पत्तेः प्राक्प्रवृत्ताया धातुसंज्ञया निरपवादत्वेनावस्थित्वात्कार्यकालपक्षेऽपि भुवादिसूत्रं प्रवृत्तेश्चेतीति रमायामुक्तत्वादिति ध्येयम् । चर्करीतं चेत्यदादीति । एतच्च गणसूत्रम् । अत्र यङ्लुङन्ते चकरीतमिति पूर्वाचार्याणां संज्ञा । ततश्च यङ्लुङन्तम् अदादिवद्भवतीति अदादिवद्भावविधानादिप्रभृतिभ्यः शप इत्यनेन तल्लुगिति भावः । कौमुद्यां यङ्लुङन्तं परस्मैपदीत्युक्तम् । तत्र परस्मैपदीत्यनुवादकं यत्र परस्मैपदं तत्र तदेवान्यत्र तु अन्यदित्यादिकं ज्ञेयमित्यात्मनेपदभूतान्नतस्य नाबादिवद्भाव विरोधः । यथाचैतत्तथा तत्रत्यशेष्यामेव सम्यगुपपादितमिति ज्ञेयम् । स तच्चेति सूत्रेण ऋदन्तस्य धातोरभ्यासस्य यङ् लुकिरुगादिप्रत्ययविधानेन तरतेश्च तृप्लवनेति दीर्घत्वेन रुगागमयो ऋत्यत उक्तम् । ऋदन्तत्वेऽपीति । अत्र ऋदन्तत्वेऽपीति दीर्घ ऋकारोपेतः पाठः । छन्दस्त्वादिति । छन्दसि बाहुलकेन प्रत्ययादिति भावः । रुकः कित्वेनान्ते प्राप्त्या तर्त्तृशब्दो निष्पन्नः । बहुलं छन्दसीति धातो रुत्वे इति । ददथुर्मित्रावरुणा तर्त्तरिमित्यत्रेवेत्यर्थः ।
श्युकः कितीति ॥ श्रिञ एकाच उगतांच्च परयोर्गित्कितोरिण्न तस्यादिति सूत्रार्थः । तथा च तरतेरुगन्तेनेण्णिषेधे धातुमात्रनिष्टाविधायकेनक्त प्रत्यये ऋत इद्धातोरित्यनेन ऋदन्तस्य धातोरङ्गस्येत्वे उरण्पर इत्यनेन रपरत्वे हलि परतो रेफवकारान्तधातोरिको दीर्घविधायकेन हलि चेत्यनेन तीर्यादित्यादाविव दीर्घत्वे णत्वे चोक्तरूपमिति भावः । तरतेरिति ॥ भृशार्थे धातोरेकाच इत्यनेन यङि यङो चिचेति तल्लुकि प्रत्ययलक्षणेनान्तरङ्गत्वादित्वे हलादिः शेषे सनाद्यन्तत्वेन धातुत्वे शप्तिबाद्युत्पत्तौ छान्दसेऽभ्यासस्य रुगाग मेचर्करीतं चेत्यदादिवद्भावेनादिप्रभृतिभ्य इत्यनेन शब्लोपे गुणो यङ्लुकोरित्यनेन गुणे रपरत्वे यङोवेति सूत्रे पाठितसार्वधातुकस्येडागमे सार्वधातुकार्धधातुकयोरिति गुणे रपरत्वे च विवक्षितरूपसिद्धिरिति भावः । अत्र हलादेः पित इति पाठः ।
अभच्प्रत्यय इति ॥ कृशृशलिकलिगर्दिभ्योऽभच् सूत्रेणेति शेषः । भृत्यवाचकत्वेऽपीति ॥ तद्वाचकत्वमिति भावः । दस्युवाचकत्वमिति ॥ दसु उपक्षय इत्यस्मा ण्यन्ताताल्लुटि छन्दस्युभयथेति आर्धधातुकतयाणेरनिष्टीति टिलोपे सति दासशब्दस्य दस्युवाचकत्वमिति भावः । एतच्च स्पष्टं वस निवास इत्येतत्प्रकृतिकत्वे आच्छादयंतावित्यर्थस्यासङ्गति प्रसङ्गात्तदनुगुणं धातुमाह ॥ वस आछादन इतीति । अत्र वस्नयन्ताविति रूपसाधुत्वं विचार्य लेख्यम् । देवयन्तावित्यादिव साधुत्वेऽपि अत्र च सृधातो उत्तरं निर्वचनतया नकारागमे वस्नेति निष्पाद्य पश्चात्स्वार्थे णिजन्ताल्लुटः शास्त्रादेशो ज्ञेय इति भाति । इतश्चेतीति । ङितो लस्य परस्मैपदमिकारान्तं यत्तस्य लोपः स्यादिति सूत्रार्थः । ऐतरेयभाष्येति । आपा इत्याप इतीति खण्डव्याख्यावसरे इति शेषः । मूले एतर्हीदानीमिति । इदमोर्हिल् इति सूत्रेणेदं शब्दात्काले वाच्ये हस्यापवादेन र्हिलप्रत्यय विधाने एते तौस्थोरित्यनेन रेफे परे ऐतादेशविधानादिदंशब्दस्यैतादेशेऽस्मिन्काले एतर्हीति भवतीत्याशयेनेदानीमिति व्याख्यानम् । बृहद्भाष्यमिति । षष्टेऽध्याये । शरीर ब्रह्मण व्याख्यानरूपमित्यर्थः । बृहद्भाष्य इति । उक्तस्थलीय इत्यर्थः । व्याख्यातमिति पाठः । भावबोधाद्यनुसृत्याह । यद्यपि चक्रेति । अस्य वाक्यस्येति । तद्यथा पेशस्करीति वाक्यस्येत्यर्थः । यद्यपि तद्भाष्ये पूर्वं सूक्ष्मं जीवरूपं मुक्तौ महापरिमाणं करोतीत्युक्तेस् तद्विसंवादोऽत्र मूल इति भाति । तथाप्यस्य वर्णकान्तरत्वाददोष इति ज्ञेयम् । मूले मानप्राप्येत्यसुराणामित्यर्थः नास्तीत्युच्यत इति वक्ष्यमाणेनान्वयः ।