०५ आभाससाम्यनिरासः

आधिक्यस्य त्वनित्यत्वे न किञ्चिन्मानमीयते

आभाससाम्यनिरासः

आधिक्यस्य त्वनित्यत्वे न किञ्चिन्मानमीयते

सुधा

नन्वेवमनुमाने विमतः कालोऽस्य राज्ञः सम्प्रतिपन्नाधिक्येन युक्तः कालत्वात्सम्प्रतिपन्नकालवदित्यप्यनुमानप्रसङ्ग इत्यत आह आधिक्यस्येति ।

अनुव्याख्यानम्

आधिक्यस्य त्वनित्यत्वे न किञ्चिन्मानमीयते ॥

ब्रह्मण इति शेषः । अनित्यत्व इति सादित्वस्याप्युपलक्षणम् । तुशब्दो राजाद्याधिक्यस्य व्यावर्तकः । बाधकभावाभावाभ्यां विशेषान्नातिप्रसङ्ग इति भावः ।

वाक्यार्थचन्द्रिका

ननु तथाऽपि कथमुक्तप्रसङ्गनिरास इत्यता न तावदयं प्रसङ्गो विव्याप्तिमूला वक्तुं शक्यते । दृष्टान्ताभावेन तदसिद्धेः । नाप्यविव्याप्तिमूलकः । विसद्भावादिति भावेन तमुपपादयन्नतिप्रसङ्गं परिहरति बाधकेति ।

**परिमल **

विमतः काल इति । अतीतानागतकाल इत्यर्थः ॥ अनादिनित्ययोग्यतायां युक्त्युक्तिः ।

श्रीनिवासतीर्थीया

विमतः कालोऽतीतानागतकालः । अस्य राज्ञः वर्तमानकालीनस्य राज्ञः। सम्प्रतिपन्नेभ्यो यदाधिक्यं तेन युक्तः ॥ प्रसङ्ग इति । तथा चातीतानागतसमस्तकालेऽप्येतस्य राज्ञ इदानीमिव सर्वाधिक्यं सिध्येदित्याभाससाम्यमित्यर्थः ।