रुद्रादिषु च युक्तितः
रुद्रादीनामप्यनादियोग्यतावत्वसाधनम्
रुद्रादिषु च युक्तितः
सुधा
उक्तन्यायमन्यत्राप्यतिदिशति रुद्रादिषु चेति ।
अनुव्याख्यानम्
…. …. …. रुद्रादिषु च युक्तितः ॥
अनयैव रीत्या रुद्रादिष्वपि साऽनादियोग्यता युक्त्या साधनीयेत्यर्थः । विमतः कालोऽस्य रुद्रस्येश्वरादिव्यतिरिक्ताद्यदाधिक्यं तेन युक्तः कालत्वादेतत्कालवदित्यादि ।
(ननु) मुक्तास्तावत्सर्वेऽपि ब्रह्मणोऽधिकास्तेषां मुक्तत्वादस्य संसारित्वात् । अतोऽन्यशब्दव्याख्याने तेऽपि कुतो न गृह्यन्त इत्यत आह उत्तमत्वं त्विति ।
अनुव्याख्यानम्
उत्तमत्वं तु मुक्तानामपि न ब्रह्मणो भवेत् ॥
अतस्तदग्रहे न दोष इति शेषः । तत्कथमित्यत आह व्यक्तिरिति ।
व्यक्तिः सुखस्य तु भवेन्न त्वाधिक्यं सुखस्य च ॥
आद्यस्तुशब्दोऽवधारणार्थः । व्यक्तिरेवेति सम्बध्यते । चशब्दो गुणान्तरसमुच्चयार्थ उभयत्रान्वेति । प्राग्विद्यमानस्यैव स्वरूपसुखादेर्मुक्तावविद्याद्यावरणापायेन व्यक्तिरनुभवलक्षणा भवेन्न तु किमप्यधिकमुत्पद्यते । तथा सत्यनित्यत्वप्रसङ्गात् । न च ब्रह्मणः स्वरूपादितरेषां स्वरूपमधिकम् । न च निर्णिक्तं कांस्यमनिर्णिक्तात्सुवर्णादधिकं भवति । एतेन मुक्तत्वहेतुरपि प्रत्युक्तः ।
वाक्यार्थचन्द्रिका
कुतो न गृह्यन्त इति मृदूक्तिः । स्ववाचकशब्देन तेऽपि ग्राह्या एव । अन्यथा बाधादिप्रसङ्गादित्यत्र तात्पर्यम् । अतो ऽनुत्तमत्वतः । तदग्रहे तेषां मुक्तानामन्यशब्दव्याख्यानावसरेऽग्रहे । न दोषो न बाध इति यावत् ॥ गुणान्तरेति । बलज्ञानादिरूपगुणान्तरेत्यर्थः ॥ उभयत्रान्वेतीति । सुखस्य च व्यक्तिर्भवेदिति सुखस्य चाधिक्यं न भवेदित्युभयत्रान्वेतीत्यर्थः । उत्तमत्वं तु मुक्तानामपात्यादिमूले उत्तमत्वं नेत्यंशेन मुक्ता ब्रह्मणोऽधिका इति प्रतिज्ञादोषस्य बाधस्य मुक्तानामपीत्यंशेन हेतुदोषस्याप्रयोजकत्वस्य च सूचितत्वात् ‘व्यक्तिः सुखस्य तु भवेन्न त्वाधिक्यं सुखस्य चे’त्युत्तरवाक्ये च तयोरुपपादितत्वादस्य ग्रन्थस्य प्रतिज्ञाहेतुदोषपरत्वसिद्धावपि प्रथमप्राप्तत्वात्प्रतिज्ञादोषस्योत्तमत्वमिति पूर्ववाक्यं बाधप्रतिज्ञापरं व्यक्तिरित्युत्तरं च तदुपपादकमित्यभिप्रायेण भाष्यं व्याख्याय हेतुदूषणसिद्ध्यर्थं पूर्ववाक्यं हेतोरप्रयोजकत्वप्रतिज्ञापरमुत्तरं च तदुपपादकमित्यभिप्रेत्याह एतेनेति । उत्तमत्वं त्वित्यादिना वाक्येनेत्यर्थः । न केवलं प्रतिज्ञा प्रत्युक्तेत्यपिशब्दार्थः । पूर्ववाक्यमुभयप्रतिज्ञापरम् । उत्तरवाक्यं च प्रतिज्ञातबाधोपपादकतया व्याख्याय प्रतिज्ञाताप्रयोजकत्वोपपादकतयापि व्यापारयति एतेनेति । व्यक्तिरित्यनेन वाक्येनेत्यर्थः । न केवलं प्रतिज्ञा प्रत्युक्तेत्यपिशब्दार्थ इत्याहुः । उभयोपपादकेऽत्र वाक्ये न केवलं, न त्वाधिक्यमित्यनेन बाधोपपादनात्प्रतिज्ञा प्रत्याख्याता, किन्तु व्यक्तिः सुखस्य तु भवेदित्यंशेनाप्रयोजकत्वोक्त्या हेतुरपि प्रत्युक्त इत्याह । एतेनेतीत्यप्याहुः । अनाधिक्येऽपि प्राग्विद्यमानस्यैव सुखादेर्मुक्तावविद्वरणापायेन व्यक्तिमात्रेणैव मुक्तत्वोपपत्त्याऽन्यथासिद्धत्वान्नेदं विपक्षे बाधकमिति वदता व्यक्तिः सुखस्य तु भवेदिति वाक्येन न केवलं मुक्तत्वहेतोरनुकूलस्तर्कोऽन्यथासिद्ध्या निरस्तः । किन्त्वनुकूलतर्कनिरासद्वाराऽप्रयोजकत्वव्युत्पादनेन मुक्तत्वहेतुरपि निरस्त इत्यभिप्राय इत्यप्याहुः ।
**परिमल **
उभयत्रेति । व्यक्तिः सुखादिगुणस्येति नाधिक्यं सुखादिगुणस्येत्येवं स्वस्थाने पूर्वत्र चान्वेतीत्यर्थः ॥ एतेनेति । आधिक्यं नेति कथनेन । मुक्तत्वादस्य च संसारित्वादित्यत्र प्रागुक्तो हेतुर्बाधेनाप्रयोजकत्वेन वाऽपास्त इत्यर्थः ।
यादुपत्यम्
उभयत्रेति । प्राक्तनेऽपि सुखस्येति पदेऽन्वेतीत्यर्थः ।
श्रीनिवासतीर्थीया
कुतो न गृह्यन्त इति । हरिश्रीस्वस्वसममुक्तेभ्योऽन्यविवक्षयेति कुतो नोक्तमित्यर्थः ।
वाक्यार्थरत्नमाला
औत्प्रेक्षिकाणि मतान्याह । पूर्ववाक्यमुभयेत्यादिना । उत्तरवाक्यं चेति द्वितीया व्यक्तिः सुखस्य तु भवेदिति वाक्येनेत्यनेनैतेनेति व्याख्यातं भवति ।