०८ साध्यसाधनवैरूप्यकल्पनानिरासः

श्रुतहान्यश्रुतग्रहौ

साध्यसाधनवैरूप्यकल्पनानिरासः

श्रुतहान्यश्रुतग्रहौ

सुधा

साध्यसाधनयोर्वैरूप्यं शङ्कमानस्यानिष्टान्तरमाह श्रुतेति । उक्तविधया साध्यसाधनसारूप्यस्य श्रुतत्वादन्यथा चाश्रुतत्वादत्र वैरूप्याङ्गीकारे श्रुतहान्यश्रुतग्रहावपि स्याताम् । मायिनां लिङ्गे इति तयोर्विणं प्रयुञ्जानस्योक्त एवाभिसन्धिः । मायावादिनो हि श्रुतं सार्वज्ञाद्युपेतं ब्रह्म परित्यज्याश्रुतं निर्गुणमुपयन्ति ।

दृष्टत्यागादिचतुष्टयं कुर्वतां बाधकान्तरमाह तदिति ।

अनुव्याख्यानम्

……. ……. श्रुतहान्यश्रुतग्रहौ ॥

अप्यत्र मायिनां लिङ्गे तत्के दोषास्ततोधिकाः ॥

तत् तत्र प्रकृतदोषेषु । ततो दृष्टत्यागादेः । अधिका बहिर्भूताः । दृष्टत्यागादिकं कुर्वाणेनान्यदपि प्रमितं त्याज्यं स्यात् । अदृष्टकल्पनादिकं च कुर्वताऽप्रामाणिकमन्यदपि कल्पनीयं भवेदिति(त्यर्थः) भावः ।

वाक्यार्थचन्द्रिका

उक्त एवेति । श्रुतहान्यश्रुतकल्पनाप्रसङ्गेन मायावादिनो दूषयतां पुनरत्र श्रुतहानादिकं कुर्वतां स्वव्याहतिः स्यादित्युक्त एवाभिसन्धिरित्यर्थः । श्रुतहानाश्रुतकल्पनयोर्मायिलिङ्गतामुपपादयति मायावादिनो हीति । मूलस्थतत्पदव्याख्यानं तत्रेति । तस्यैव विवरणं दोषेष्विति । तत्के दोषास्ततोऽधिका इति गूढाभिसन्धिनोक्तस्याभिप्रायमाह दृष्टत्यागादिकमिति ॥ अन्यदपि प्रमितमिति । तारतम्यादन्यत्प्रमितं दृष्टं जगत्सत्यत्वादिकं श्रुतमीश्वरादिकमपीत्यर्थः ॥ अप्रामाणिकमप्यन्यदपीति । साधनसाध्यवैरूप्यादन्यदप्रामाणिकमदृष्टं जगन्मिथ्यात्वादिकमश्रुतं शून्यादिकमित्यर्थः । तथा च प्रामाणिकस्य जगत्सत्यत्वादेस्त्यागेऽप्रामाणिकस्य तन्मिथ्यात्वादेः स्वीकारे प्रत्यक्षादिबाधादिरेव दोषो वाच्यः । स सर्वोऽप्यदोषतया त्वत्स्वीकृतदृष्टादित्यागादिभ्यो न बहिर्भूत इति नोक्तार्थत्यागस्वीकारयोः प्रतिबन्धकः स्यात् । तथा चापसिद्धान्त इति भावः ।

**परिमल **

श्रुतत्वादिति । प्रागुक्तवचनैरिति भावः ॥ अन्यथेति । साध्यसाधनवैरूप्यस्येत्यर्थः ॥ उक्त एवेति । पूर्ववाक्योक्तदिशा व्याहत्युपपादनमेवाभिप्राय इत्यर्थः । श्रुतहान्यादिप्रसङ्गेन मायावादिनो दूषयतां पुनरत्र श्रुतहान्यादिकं स्वयमङ्गीकुर्वतां व्याहतित्येवंरूपेणेति भावः । तदित्यस्य प्रतिपदं तत्रेति । तस्यार्थः प्रकृतदोषेष्विति ॥ साध्यसाधनवैरूप्ये युक्त्युक्तिः ॥

यादुपत्यम्

उक्त एवाभिसन्धिरिति । श्रुतहानादिप्रसङ्गेन मायावादिनो दूषयतां पुनरत्र श्रुतहान्यादिकं कुर्वतां स्वव्याहतिरित्युक्त एवाभिसन्धिरित्यर्थः ॥ प्रकृतदोषेष्विति । त्वयोच्यमानदोषेष्वित्यर्थः । अन्यदपि प्रमितमित्यादि मुक्ततारतम्याद्यदन्यत्प्रमितं दृष्टं जगत्सत्यत्वादिकं श्रुतमीश्वरादिकं तदपीत्यर्थः । एवं साध्यसाधनवैरूप्यादप्रामाणिकमदृष्टं जगन्मिथ्यादिकमश्रुतं शून्यादिकं तदपीत्यर्थः । तथा च प्रामाणिकस्य जगत्सत्यत्वादेस्त्यागेऽप्रामाणिकस्य तन्मिथ्यात्वादेः स्वीकारे च प्रत्यक्षादिबाधादिदोषो वाच्यः । स सर्वोऽप्यदोषतया त्वत्स्वीकृतदृष्टादित्यागादिभ्यो न बहिर्भूत इति नोक्तार्थत्यागस्वीकारयोः प्रतिबन्धकः । ततश्चापसिद्धान्तापत्तिरिति भावः ।

वाक्यार्थरत्नमाला

श्रुतहान्यादिकमपीति ॥ यद्यपि मायिनो न शून्यवादिनस्तथापि तदुक्तकप्लशून्यसदृशं मतं योश्च ग्रन्थान्तरोक्तरीत्या प्राचीनमूलोक्तरीत्याच भेदो नास्तीत्यभिप्रायेण शून्यादिकमित्युक्तदोषः ।