१० वित्तपरिपूर्णपृथिवीपतित्वादिकममुक्तविषयम्

तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया

वित्तपरिपूर्णपृथिवीपतित्वादिकममुक्तविषयम्

तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया

सुधा

ननु मुक्तस्य ‘तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यादि’ति वित्तपरिपूर्णपृथिवीपतित्वमुच्यमानं कथं युज्यत इत्यत आह तस्येति ।

अनुव्याख्यानम्

तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया ॥

पूर्वभावोऽमुक्तत्वं मुक्तामुक्तमनुष्ययोर्विवक्षया हि युवा स्यादित्यादिकमारब्धम् । तत्र युवा स्यादित्यादिना मुक्तं प्रतिपाद्यामुक्तविवक्षया तस्येत्यादिवाक्यं प्रवृत्तमित्यर्थः ॥ अनेनैव न्यायेनान्येषामधिपतिरित्यादिकममुक्तविषयं प्रतिपत्तव्यम् । नन्वेवं युवा स्यादित्यादेर्मुक्तामुक्तविषयताऽङ्गीकृतावेकविषयताप्रतीतिविरोध इत्याशङ्कानिरासायामुक्तेति वक्तव्ये पूर्वभावेत्युक्तम् । एक एव चेतनो युवादिशब्दैः प्रतिपाद्यते । तस्य चावस्थाभेदेन विणानि व्यवस्थाप्यन्ते । तस्मादेकविषयताप्रतिभासो नानुपपन्न इति ।

वाक्यार्थचन्द्रिका

अनेनैव न्यायेनेति । तस्येयं पृथिवीत्यादितैत्तिरीयवाक्यान्मुक्तपरत्वोपपादकन्यायेनेत्यर्थः ।

**परिमल **

अनेनैव न्यायेनेति । पूर्वभावापेक्षयेत्युक्तन्यायेनेत्यर्थः । काण्ववाक्यमप्यमुक्तपरं ज्ञेयमित्यर्थः । तद्भाष्ये केवलमुक्तमात्रपरत्वोक्तेस् तात्पर्यं प्रागेवोक्तम् ।

वाक्यार्थरत्नमाला

पृथिवीत्यादीति ॥ आदिपदेन स्यादित्यन्तपरिग्रहः । तैत्तिरीय वाक्यानान्मुक्तामुक्तपरत्वेति पाठः । वाक्यान्मुक्तेति पाठवाक्यस्य यदमुक्तपरत्वं तदुपपादकेत्यर्थः । मुक्तामुक्तेतितु तात्पर्यम् ।


स एक इति संसारगतमुक्त्वा सुखं पुनः

स एक इति संसारगतमुक्त्वा सुखं पुनः

सुधा

एवं वाजसनेयश्रुतौ ‘स यो ह वै मनुष्याणामित्यादेः सम्पन्नतम इत्यन्तस्य, तैत्तिरीयश्रुतौ च युवा स्यादित्यादेः पूर्णा स्यादित्यन्तस्य’ मुक्तामुक्तपरत्ववर्णनेन स मनुष्याणां परम आनन्दोऽथ (ते) ये शतं मनुष्याणामानन्दा इत्येतत्स एको मानुष आनन्दस्ते ये शतं मानुषा आनन्दा इत्येतच्च मुक्तोमुक्तविषयमिति सिद्धे तैत्तिरीयश्रुतिगतं स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्येत्येतावद्व्याचष्टे स एक इतीति ।

अनुव्याख्यानम्

स एक इति संसारगतमुक्त्वा सुखं पुनः ॥

श्रोत्रियस्येति वदति मुक्ताच्छतगुणात्मताम् ॥

संसारगतं सुखमुक्त्वेति संसारिमनुष्यसुखाच्छतगुणं संसारिणो मनुष्यगन्धर्वस्य सुखमुक्त्वेत्यर्थः । मुक्ताच्छतगुणात्मतामिति मुक्तमनुष्यस्य सुखान्मुक्तमनुष्यगन्धर्वस्य शतगुणसुखात्मतां वदतीत्यर्थः । श्रुतिरिति शेषः । स एक इति वाक्येन श्रोत्रियस्येति वाक्येन ।

वाक्यार्थचन्द्रिका

स एक इत्यस्य वा श्रोत्रियस्य चेत्यस्य वा तत्तदर्थमात्रप्रतिपादकत्वाभावादुक्त्वा वदतीति क्त्वाप्रत्ययानुपपत्तिः । समानकर्तृकयोः पूर्वकाल इति समानकर्तृक एव क्त्वाप्रत्ययविधानात्प्रकृते च तदभावादित्यतः स एक इत्यस्य श्रोत्रियस्य चेत्यस्य वात्र न कर्तृत्वं किन्तु श्रुतिवाक्यस्यैव । तथा च श्रुतिवाक्यमेवेत्युक्त्वा वदतीति समानकर्तृकत्वाद्युक्तस्तदर्थकः क्त्वाप्रत्ययः । न चैवं स एक इत्यादेवैयर्थ्यं स्यादिति वाच्यम् । श्रुतिरेव स एक इत्यंशेनार्थविमुक्त्वा श्रोत्रियस्येत्यंशान्तरेणार्थान्तरं वदतीत्यर्थलाभाय तस्यावश्यकत्वादिति भावेनापेक्षितं शेषं पूरयति श्रुतिरिति इति ।

**परिमल **

स एक इति श्रोत्रियस्येति वाक्यद्वये माह इति वाक्येनेति ।

वाक्यार्थरत्नमाला

स एक इत्यंशेनेति । अनेन वक्ष्यमाणावाक्येनेत्येतद्वाक्यैकदेशेनेति विवृतं भवति ।