मुख्यार्थस्य वृथा त्यागो मायिनामेव भूषणम्
वृथामुख्यार्थपरित्यागेनामुख्यार्थस्वीकारस्य दूषणम्
मुख्यार्थस्य वृथा त्यागो मायिनामेव भूषणम्
सुधा
सत्यम् । मुख्यया वृत्या कामहतत्वं मुक्तेष्वेव सम्भवति । तथाऽपि कामनिमित्तबहुतरोपद्रवाभावाद्ब्रह्मादिष्वप्यमुख्यं युज्यत एव । अतः संसारिण एव श्रुतिप्रतिपाद्याः किन्न भवन्तीति चेत् । किं मुख्यार्थपरिग्रहे बाधकसद्भावात्तत्परित्यागः क्रियते किंवा वृथैव । नाद्यः । तदभावात् । बाधकाभासानां च निराकरिष्यमाणत्वात् । द्वितीयं दूषयति मुख्यार्थस्येति ।
अनुव्याख्यानम्
मुख्यार्थस्य वृथा त्यागो मायिनामेव भूषणम् ॥
अपरीक्षका एव मायावादिप्रभृतया विना बाधकेन मुख्यार्थं त्यजन्ति । वाच्यार्थपरमेश्वरपरित्यागेन निर्गुणलक्षणाङ्गीकारात् । न तु न्यायविद इति ।
वाक्यार्थचन्द्रिका
ननु तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यादिति त्तैत्तिरीयश्रुत्युक्तस्य वित्तपूर्णपृथिवीपतित्वस्यान्येषामधिपतिरिति वाजसनेयश्रुत्युक्तस्यान्याधिपतित्वस्य मुक्तेष्वसम्भव एव बाधकः । तत्कथमुच्यते बाधकाभावादितीत्यत आह बाधकाभासानामिति ॥ निराकरिष्यमाणत्वादिति । तस्येवं पृथिवीत्यादिपूर्वभाविव्यपेक्षयेत्यादिनेति शेषः ।
**परिमल **
निराकरिष्यमाणत्वादिति । मुक्तविषयत्वे ज्ञापकाभावादित्यादिबाधकाभासस्य राद्धः संसिद्ध इत्यादिना पृथिवीपतित्वादेश्च तस्येयं पृथिवीत्यादिपूर्वभाविव्यपेक्षयेत्यादिना चात्रैवोपरितनग्रन्थेनेति भावः ।
यादुपत्यं
निराकरिष्यमाणत्वादिति । ‘तस्येयं पृथिवीत्यादिपूर्वभावित्वव्यपेक्षये’त्यादिनेति शेषः ।