०३ जैमिनिमतविरोधपरिहारः

जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन

जैमिनिमतविरोधपरिहारः

जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन

सुधा

अत्र न ज्ञानं स्वतन्त्रमेव स्वर्गादिसाधनं किन्तु कर्मैव । ज्ञानं तु कर्मत्वात्तत्साधनत्वेनोच्यते । त्वं च कर्मणैव सिध्यति पुरुषार्थेऽतिशयाधायकत्वमिति त्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिरित्यादिसूत्रैः पूर्वपक्षयित्वाधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनादित्यादिना स्वतन्त्रस्यैव ज्ञानस्य स्वर्गादिसाधनत्वं पुनः सिद्धान्तितम् । तत्र पूर्वपक्ष्युपन्यस्तप्रमाणनिरासः स्फुटो भाष्ये । जैमिनिमतविरोधपरिहारस्तु कथमित्यत आह जैमिन्युक्तमिति ।

अनुव्याख्यानम्

जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन ॥

ज्ञानस्य कर्मण एव स्वर्गादिसाधनत्वं मानुषज्ञानिविषयम् । न केवलं जैमिन्युक्तं किन्तु स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः । ‘अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते । इति केचिद्विदः प्राहुरि’त्यादिनोक्तास्तद्विशेषा जैमिनिमतैकदेशा ये केचन तेऽपि मानुषाणाम् । कथमेतेषां जैमिनिमतैकदेशत्वमिति चेत् । स्वतन्त्रस्य ज्ञानस्य न स्वर्गादिसाधनत्वमित्येतावत्यंशे साम्यादिति ब्रूमः । मानुषा अप्युत्तममध्यमाधमभेदभिन्ना इति यथायोग्यं विचित्रमतविषया भवन्त्येव ।

वाक्यार्थचन्द्रिका

पूर्वपक्ष्युपन्यस्तेति । जैमिनिमतावलम्बिना पूर्वपक्षिणाऽऽचारदर्शनादित्यादिभिर्नियमाच्चेत्यन्तैः सूत्रैर्यानि प्रमाणान्युपन्यस्तानि तेषां निरास इत्यर्थः ॥ स्फुटो भाष्य इति । तत्र ज्ञानादेव स्वर्गो, ज्ञानादेवापवर्गो, ज्ञानादेव सर्वे कामाः सम्पद्यन्त इति ज्ञानस्यैव स्वातन्त्र्येणापुरुषार्थसाधनतायाः कर्मणां च तथापि यथा यथा कर्म करोति तथा तथाधिको भवतीति श्रुत्यवलम्बनेन ज्ञानतायाश्च प्रतिपादितत्वेन तद्विरोधेन पूर्वपक्ष्युपन्यस्तप्रमाणानां स्वातन्त्र्येण कर्मणां पुरुषार्थसाधनत्वाभिप्रायकत्वानुपपत्त्या तेषां ज्ञानत्वाभिप्रायकत्वसिद्धेरिति भावः । ‘जैमिन्युक्तं मानुषाणामि’त्युक्तम् । तत्र किं तज् जैमिन्युक्तमित्यपेक्षायामाह ज्ञानस्येति । ज्ञानं शेषो यस्येति बहुव्रीहिः । ज्ञानस्य कर्मत्वं च कर्मणैव सिध्यति पुरुषार्थे तस्यातिशयाधायकत्वमेवात एवोक्तं ज्ञानेनाधिक्यमित्याहुरितीत्यवधेयम् । तद्विशेषाश्चेति (अदृष्टं स्वर्गादि, दृष्टं पुत्रादि । एवं च ज्ञानं तेषां मोक्षेतरसमस्तपुरुषार्थसाधनं न भवतीत्यर्थः ।) चशब्दार्थमाह न केवलमिति । तथा च न केवलं जैमिन्युक्तमेव मानुषविषयं किन्तु तद्विशेषा अपि तद्विषया इत्युक्तं भवति । यद्यप्युदाहृतप्रमाणे द्वावेव जैमिनिमतैकदेशौ प्रतीयेते इति द्विवचनमेव प्रयोगार्हं न तु तदेकदेशा इति बहुवचनं तथापि जैमिन्याद्यास्तु केचनेत्याद्यपदसङ्गृहीतजैमिनिमतानतिभिन्नतदेकदेशमतमादाय बहुत्वसम्भवाद्बहुवचनमुपपन्नमित्यवधेयम् । मतत्रयस्य परस्परमत्यन्तविलक्षणत्वान्न जैमिनिमतैकदेशत्वमिति शङ्कते कथमिति ।

नन्वेकप्रकाराणां मानुषाणां कथं विचित्रमतविषयत्वमित्यत आह मानुषा अपीति । अव्यवस्थया यस्य कस्यचिद्यत्किञ्चिन्मतविषयत्वमिति भ्रमनिरासायोक्तं यथायोग्यमिति । ‘ज्ञानेनाधिक्यमित्याहुर्जैमिन्याद्यास्तु केचने’त्युक्तम् । ज्ञाने विस्य कर्मण एव स्वर्गादिसर्वपुरुषार्थसाधनतेति जैमिनिमतम् । आदिपदोपात्ततदभिन्नतदेकदेशमतं चोत्तममानुषविषयम् । कर्मसाध्येऽदृष्टे स्वर्गादिके पुरुषार्थ एव ज्ञानमतिशयाधायकं न तु कर्मसाध्ये दृष्टे फल इति । अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यत इत्युक्ततदेकदेशिमतं तु मध्यममानुषविषयम् । मोक्षेतरदृष्टादृष्टपुरुषार्थे कर्मैव हेतुर्न तु ज्ञानमिति । ‘स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुरि’त्युक्तं मुनिमतं त्वधममानुषविषयमिति यथायोग्यमित्यर्थः ।

***परिमल ***

इत्यादिसूत्रैरिति । षड्भिः सूत्रैरित्यर्थः ॥ पूर्वपक्ष्युपन्यस्तप्रमाणेति । यदेव विद्ययेति ज्ञानत्वश्रुतेर् देवानां कर्मानुष्ठानरूपाचारस्य कर्मैव देहमित्याद्यैहिकामुष्मिकदेहाद्यारम्भकत्वश्रुतेर् ज्ञानी च कर्मणीति ज्ञानिनः कर्मविधानस्य कुर्वन्नेवेति ज्ञानिनः कर्मानुष्ठाननियमस्य च प्रमाणस्य कर्मणः परत्वेनान्यथासिद्धिरूपनिरास इत्यर्थः । ज्ञानस्येति बहुव्रीहिः । किं त्वित्यस्य जैमिनिमतैकदेशाश्चेत्यन्वयः ॥ इत्यादिनेति । एतदधिकरणभाष्योक्तवाक्येनेत्यर्थः । एकरूपमानुषाणां नानामतविषयत्वायोगादाह उत्तममध्यमेति । ज्ञानं त्वेनोपादाय फलमार्जयति कर्मेति । जैमिनिमतमुत्तममानुषविषयम् । ‘स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुरि’त्युक्तं कर्मैव सर्वत्र हेतुर् ज्ञानं तु क्वापि मोक्षेतरपुमर्थे हेतुर्नेति मतं मध्यमविषयम् । दृष्टं नैवेति मतं त्वधमविषयमित्यर्थः । वितो देवादीनामित्यस्य फलितार्थोक्तिरपवादैरपोदितं देवादिविषयमिति । वित इत्यस्यापवादविषयभिन्नविषयसम्बन्धीत्यर्थः । स विषयः क इत्यतो विवरणं देवादीनामिति । षष्ठ्यर्थः विषयविषयिभाव इति भावः ।

यादुपत्यम्

पूर्वपक्ष्युपन्यस्तेति । जैमिनिमतावलम्बिना पूर्वपक्षिणाऽऽचारदर्शनादित्यादिभिर्नियमाच्चे’त्यन्तैः सूत्रैर्यानि प्रमाणान्युपन्यस्तानि तेषां निरासो भाष्ये स्फुटः । तत्र ज्ञानादेव स्वर्गो, ज्ञानादेवापवर्गो, ज्ञानेदेव सर्वे कामाः सम्पद्यन्त इति ज्ञानस्यैवापुरुषार्थसाधने स्वातन्त्र्यमुक्त्वा तथाऽपि यथा यथा कर्म कुरुते तथा तथाऽधिको भवतीति श्रुत्या कर्मणां ज्ञानत्वप्रतिपादनेन पूर्वपक्ष्युपन्यस्तप्रमाणानां कर्मणां ज्ञानत्वप्रतिपादन एव तात्पर्यं न प्राधान्येन पुरुषार्थहेतुत्व इत्यभिप्रायस्य स्पष्टत्वादित्यर्थः । ज्ञानस्येत्यत्र ज्ञानं शेषो यस्येति बहुव्रीहिः ॥ जैमिनिमतैकदेशा इति । यद्यप्युदाहृतप्रमाणे जैमिनिमतैकदेशौ द्वावेव प्रतीयेते । तथाऽपि ‘‘जैमिन्याद्याश्च केचने’’ति वचनेनोत्तममानुषविषयकजैमिन्यभिप्रेतमताङ्गीकारिणोऽपि केचित्तदेकदेशिनः सन्तीत्यवगमाद्बहुवचनोपपत्तिरिति ज्ञातव्यम् ॥ मानुषा अप्युत्तमेति । कर्मणैव सर्वं स्वर्गादिकं भवति ज्ञानेनाधिक्यमिति जैमिनेस्तदेकदेशिनां च केषाञ्चिन्मतमुत्तममानुषविषयं कर्मसाध्येऽदृष्टे स्वर्गादिके पुरुषार्थे ज्ञानमतिशयाधायकं, न तु दृष्ट इति तदेकदेशिमतं मध्यममानुषविषयम् । सर्वत्र कर्मैव हेतुर्ज्ञानस्य न क्वापि मोक्षेतरपुरुषार्थे हेतुत्वमित्यपरं तदेकदेशिमतमधममानुषविषयमित्यर्थः । अत एव यथायोग्यमित्युक्तम् ।

श्रीनिवासतीर्थीया

ज्ञानस्येति । ज्ञानं शेषो यस्येति बहुव्रीहिः । अदृष्टं स्वर्गादि । दृष्टं पुत्रादि । एवं च ज्ञानं तेषां मोक्षेतरसमस्तपुरुषार्थसाधनं न भवतीत्यर्थः । अपोदितं व्यावृत्तम् । मनुष्येभ्य इति शेषः ।

वाक्यार्थरत्नमाला

ज्ञानस्य कर्मवित्वाङ्गीकारात्तत्पुरुषायोग इत्यतो बहुव्रीहिमाश्रित्याह ॥ ज्ञानम् इति । अत एवोक्तमिति । तुल्यन्तु दर्शनादित्येतद्गुणसूत्रीयभाष्ये उक्तमित्यर्थः । चशब्दार्थमिति । तदर्थं समुच्चयं दर्शयतीत्यर्थः । प्राहुरित्यादि नोक्ता इति मूले आदिपदेन व्यासशिष्या इमेऽखिला इति वाक्यस्यैव ग्रहणम् । सूत्रभाष्ये स्वर्गादय इत्येतद्वाक्यानन्तरं ज्ञानेनाधिक्यमित्यस्योदाहृतत्वेऽपि तस्य जैमिनिमततया ज्ञानस्येत्यनेनैव तस्योक्तत्वात्तत्सङ्ग्रहायोगस्ततश्चानेन मतद्वयमेवोक्तं भवतीति भावेनाशङ्कते ॥ यद्यपीति ॥ जैमिनिमतप्रदर्शनपरस्यापि ज्ञानेनाधिक्यमित्यस्याद्यपदसङ्गृहीतवाद्यन्तरमतप्रदर्शनपरताया अपि सिद्धेर्ज्ञानेत्यनेनैव मतान्तरमप्युक्तमेवेति तद्विवक्षया बहुवचनमिति समाधत्ते । तथापीति । आद्यपदसङ्गृहीतेति । जैमिनिराद्यो येषां ते तेऽपि केचन ज्ञानेनाधिक्यमित्याहुरित्येवमाद्यपदसहकृतपूर्ववाक्येन संगृहीतेत्यर्थः । आद्यपदसंगृहीततदेकदेशिनो जैमिनिमतानतिभिन्नमतमादायेति पाठस्तु स्वरस एव । जैमिनिमतानतिभिन्नं यत्तदेकदेशिमतमिति सम्बन्धनिश्चयात्सङ्गृहीतपदं सामर्थ्यादेकेदेशविणमित्यप्याहुः । एतेन मतस्याद्यपदेन सङ्ग्रहायोग इति शङ्कानवकाशः । ज्ञानेनाधिक्यमित्यस्य जैमिनिमततया तदेवान्यस्य मतं चेत्तदुक्तिवैयर्थ्यं प्रकारान्तरत्वाभावादित्यत उक्तं जैमितिमतानतिभिन्नमिति ॥

अयमाशयः । आद्यपदोपादानं तावन्मतान्तरविवक्षयेति सिद्धम् । तत्र च ज्ञानेनाधिक्यमात्रप्रतिपादने मतान्तरत्वायोगप्रसङ्गात्प्रधानप्रमेयांशे एकरूपत्वेऽपि कञ्चनावान्तरविमाश्रित्यैव मतान्तरत्वमपि सिद्धमेवेति प्रकारान्तरत्वं युक्तमिति तत्सङ्ग्रहोऽपि युक्त एवेति ॥ स्वर्गादय इत्यादिनोक्तमतद्वयापेक्षयोक्तैकदेशिमतस्य जैमिनिमतानतिभिन्नत्वाविमाश्रित्यैव मूले तन्मताप्रतिपादनम् । एकदेशिमतत्वमात्रविज्ञानपरिहाराय च मध्ये उक्तस्यापि ज्ञानेनेत्येतस्य परित्यागेन पूर्वोत्तरवाक्यमात्रप्रदर्शनं च मूले इत्यादि ज्ञेयम् ॥ केचित्तु तथाऽपीत्यनन्तरं ज्ञानेनाधिक्यमित्यादिपदसङ्गृहीतवाक्ये इति शेषं पूरयति । उपपन्नमिति ॥ अत एवेत्यादिनेति मूले आदिपदं तदेकदेशसङ्ग्रहाशयेनेति भावः । यथाक्रमेण मतत्रयमुत्तमादिविषयतया शङ्कितवाक्यस्थापरिहारकमिति प्रतीतिनिरासायाह ॥ ज्ञानेनाधिक्यमित्याहुरित्यादिना ॥ आदिपदोपात्तेति ॥ आद्यपदस्यार्थानुवाद आदीति । आद्येति पाठस्तु स्वरस एव ॥ आदिपदोपात्तत्वं चादिपदोपेतज्ञानेनेति पूर्ववाक्यप्रतिपाद्यत्वमिति पूर्ववज्ज्ञेयम् ।


सामान्यं भगवत्प्रोक्तं

सामान्यं भगवत्प्रोक्तं

सुधा

एवं जैमिनिमतविषयमुक्त्वा सूत्रकारमतविषयं दर्शयति सामान्यमिति ।

अनुव्याख्यानम्

सामान्यं भगवत्प्रोक्तं ….. …….

ज्ञानं सकलपुरुषार्थसाधनं भवतीति सामान्यमेव भगवता प्रोक्तम् । न तु पुरुषविनिष्ठं ज्ञानमिति । अतः सामान्यविनियतत्वान्नैतयोर्मतयोर्विरोधः ॥ ननु सामान्येनापि क्वचिद्विशेषेऽवस्थातव्यम् । तदिदमपि क्वावतिष्ठत इत्यत आह देवादीनामिति ।

अनुव्याख्यानम्

…… …… देवादीनां वितः ।

भगवन्मतं वितोऽपवादैरपोदितं देवादिविषयं व्यवतिष्ठते । यद्यप्ययमर्थो लोकत एव सिद्धः । यदपवादविषयं परित्यज्य सामान्यं व्यवतिष्ठत इति । तथाऽपि मन्दप्रबोधनायाचार्यैरभिहितः ।

वाक्यार्थचन्द्रिका

अपवादैरपोदितमिति । बाधकैर्मनुष्येभ्यो व्यावृत्तम् । अनेन मूले विशब्दोऽपवादपरः । ल्यब्लोपनिमित्ता पञ्चमी । देवादीनामिति षष्ठ्यर्थसम्बन्धश्च विषयविषयिभाव इत्युक्तं भवति ।

यादुपत्यम्

अपवादैरपोदितमिति । अनेन विषयशब्दोऽपवादविषयपरः । ल्यब्लोपनिमित्ता पञ्चमी । देवादीनामिति षष्ठी विषयविषयिभावे । तथा चापवादविषयं परित्यज्य देवादिविषयमित्येतावल्लभ्यत इति ज्ञातव्यम् ।

वाक्यार्थरत्नमाला

ल्यब्लोपेति । विपदोक्तापवादमनुसृत्येति ल्यबन्तलोपनिमित्तेत्यर्थः । यद्यपि मूले ल्यबन्तप्रयोगोनास्ति । तथापि विशेषैरपोदितमित्युक्तेऽपवादमनुसृत्य देवादिविषयमित्यर्थप्रतिपादनस्य फलतः प्रतीतेरनुसृत्येति पदविवक्षालाभ इति ज्ञेयम् । अन्यथाख्यातौ त्वपवादविषयं परित्यज्येत्युत्तरमूलानुसारेण विषयलक्षणामाश्रित्य व्याख्यातमिति ज्ञेयम् ।