ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ
योग्यतानुसारेण अपेक्षितफलप्राप्तिः
ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ
सुधा
नन्वेतदसत् । ज्ञानिनामप्यभिप्रायस्य कदाचिन्मोघत्वदर्शनादित्यत आह आरब्धस्येति ।
अनुव्याख्यानम्
….. ….. आरब्धस्यानतिक्रमात् ।
प्रारब्धकर्मणोऽतिक्रममविधायेति पूर्वेणैव सम्बन्धः । प्रारब्धप्रतिबद्धं हि ज्ञानं मोक्षमपि न करोति । अतस्तत्प्रतिबन्ध(क)वशाज्ज्ञानिनामप्यभिप्राया मोघाः स्युः । ज्ञानस्य पुरुषार्थहेतुत्वेऽपि विशेषोऽस्तीत्याह देवेति ।
अनुव्याख्यानम्
देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः ॥
जातिशब्देनात्र योग्यतोच्यते । अपेक्षितफलप्राप्तिर्भवतीति सम्बन्धः । एतेन नाविशेषादित्यस्यापि तात्पर्यमुक्तं भवति ।
वाक्यार्थचन्द्रिका
पूर्वेणैवेति । अपेक्षितफलप्राप्तिरिति पूर्वेणैवेत्यर्थः । नन्वेवमपि नोक्तशङ्कापरिहार इत्यत आह प्रारब्धेति । ज्ञानस्य पुरुषार्थहेतुत्वेऽप्युक्ततत्तद्योग्यतानुसारित्वरूपविकथनस्यापि क उपयोग इत्यत आह एतेनेति । उक्तविकथनेनेत्यर्थः ।
***परिमल ***
इत्यस्यापीति । तत्राधिका(रिता)रतारतम्यस्योक्तेरिति भावः ।
यादुपत्यम्
एतेन नाविशेषादिति । तत्र न सामान्येनाधिकारो देवादीनामित्युक्तत्वादित्यर्थः ।
श्रीनिवासतीर्थीया
मोक्षमपीति । अपिशब्दात्तदितरपुरुषार्थग्रहणम् । तथा च न किमपि पुरुषार्थं करोतीत्यर्थः ।
वाक्यार्थरत्नमाला
अनतिक्रमादिति ल्यप्लोपनिमित्ता पञ्चमी बुध्या विवेकेन नञो ल्यबन्तेन सम्बन्धो ऽतच्छब्दादित्यत्रेवेति भावेनाह ॥ अतिक्रममविधायेति मूलम् । जोतिरुपक्रमादित्येतद्भाष्यादावुपक्रम्येति प्रयोगस्य ल्यब्लोपनिमित्तेत्याद्युक्तेश्च सत्वात्तदनुसारेणानतिक्रम्येत्येवल्यबन्तं पदम् । तद्-व्याख्यानमतिक्रममविधायेति प्रकारान्तरं योज्यमिति । इत्यत आहेति ॥ इत्यतोऽभिप्रायमाहेत्यर्थः । ज्ञानस्य पुरुषार्थेत्यादि । अत्र ज्ञानस्येत्यादिकथनस्येयन्तं ज्ञानस्य पुरुषार्थेत्यादि मूलानुवादरूपम् । तथा च यदिदं विकथनमित्युक्तं तद्विकथनस्यापि क उपयोग इति योजना जैमिनिमते ।