प्रथमसूत्रमारभ्य तृतीयाध्यायद्वितीयपादपर्यन्तं सङ्गतिकथनम्
**तृतीयाध्यायः - तृतीयपादः
- प्रथमसूत्रमारभ्य तृतीयाध्यायद्वितीयपादपर्यन्तं सङ्गतिकथनम्**
- मोक्षसाधनं किम् । 4744
- भगवत्प्रसादसाधनानि चत्वारि कानि । 4744
- वैराग्यं कथं भक्तिसाधनम् । 4744
- वैराग्येण भक्तिदार्त्स्न्येन च कथम् उपासा भवति । 4744
5) उपासना हरिदर्शने कथं साधनम् । 4744
6) वैराग्यादिषु क्रमः कथं वक्तव्यः । 4744
7) ब्रह्मजिज्ञासा कर्तव्या इति केन पदेन उक्तम् । 4746
8) अथशब्दार्थः कः । 4746
9) विशिष्टाचार्यसम्पदा - इत्यस्य कुत्र अन्वयः । 4746
10) ज्ञातवेदार्थ इत्यनेन कः विषय उक्तः । 4746
11) युक्तित इत्यनेन कः विषय उक्तः । 4746-47
12) निरस्य समयान् परान् - इत्यनेन कः विषय उक्तः । 4747
13) परस्परविरोधं च इत्यनेन क विषयः प्रतिपादितः । 4747
14) प्राणतत्वगान् इत्यनेन किं सूचितम् । 4747
15) देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः - इत्यनेन कः विषय उक्तः । 4747
16) विशिष्टाचार्यसम्पदा इति कुत उक्तम् । 4747
17) कथं पूर्वोक्तो ऽथशब्दार्थः । 4749
18) जिज्ञासा नाम का । 4749
19) परोक्तं नित्यानित्यविवेकादिसाधनचतुष्टयम् अङ्गीक्रियते न वा । 4749
20) आचार्यैर् मुमुक्षुता कुतो नोक्ता । 4749
21) जिज्ञासावैराग्ययोः परस्परं कार्यकारणभावाङ्गीकारे अन्योन्याश्रयत्वपरिहारः कथम् । 4749
22) द्वितीयसूत्रसङ्गतिः कथमुक्ता । 4751
23) विशेषानुक्तितः पुनः - इत्यस्य को ऽर्थः । 4742
24) जन्मादिसूत्रे मोक्षदातृत्वं कथमुक्तम् । 4753
25) मोक्षदातृत्वे सृष्ट्यादिकर्तृत्वं कथं हेतुः । 4753
26) मोक्षादिकर्तृत्वस्येत्यादि कथम् - अस्य विवरणं कार्यम् । 4754
27) ज्ञानरश्मिमद् इति कुत उक्तम् । 4758
28) जिज्ञासाया मोक्षहेतुत्वं कथमुक्तम् । 4759
29) जन्माद्यस्य इति सूत्रस्य सङ्गति अन्यत्र अन्यथा उक्ता इत्यस्य परिहारः कः । 4759
30) मोक्षादिदत्वम् ईशस्य कथमवगम्यते । 4761
31 ) मोक्षादिदातुः प्रत्यक्षत्वे किं बाधकम् उक्तम् । 4761
32 ) मोक्षदातुः प्रत्यक्षत्वे कुतः सर्वेषां मुक्त्यापादनम् । 4762
33) अनुमागम्यत्वे किं बाधकम् । 4762
34) मोक्षदः विष्णुरेव कुतः । 4763
35) परतन्त्रः स्वतन्त्रमाश्रित्य मोक्षद इत्युक्ते को दोषः । 4763
36) परतन्त्रः स्वतन्त्रमनाश्रित्य मोक्षद इत्युक्ते किं बाधकम् । 4763
37) मोक्षदत्वेन शास्त्रयोनित्वे कति श्रुतय उक्ताः । 4764
38) य एनं विदुः - इति श्रुतिर् विष्णुविषयिणी कथम् । 4764-65
39) शास्त्रयोनित्वम् अन्येषां कुतो न भवति । 4765
40) सं शब्दार्थः कः । तत्र क आक्षिप्यते अधुना । 4767
41) नृणां सर्ववेदसमन्वयज्ञानं कुतो न भवति । 4767
42) वेदानाम् अनन्तत्वं कुतः । 4767
43) महाप्रलयवारिधेर् उत्तारणोपमा इत्यत्र समासः कथम् । 4767
44) पुरुषाणां वेदानां ज्ञानं न भवति इत्यत्र त्रीणि अनुमानानि उक्तानि । तानि कानि । 4768
45) गतिसामान्याद् इति सूत्रस्य कोऽर्थः । 4769
46) रोमकूपलयोदिना - इत्यस्य समासः कथम् । 4769
47) विवरणाभावे किञ्चिद्वायहतं किञ्चिच् चासंगतं कथं भवति । 4770
48) विश्वपति इति शब्देन किं सूचितम् । 4770
49) सर्ववेदसमन्वयाज्ञानं त्रेधा पूर्वपक्षयित्वा उत्तरं दत्तम् । तत्कथम् । 4770
50) ज्ञानसूर्यमृते - इत्यस्य विवरणं कुरुत । 4772
51) सर्वज्ञः विपरीतगतिसामान्यं वक्ति इति वक्तुं कुतो न शक्यते । 4772
52) असर्वज्ञः गतिसामान्यं ब्रूते इत्यस्य किमुत्तरम् । 4772
53) अन्येषा गतिसामान्यज्ञानं कथम् । 4774
54) गतिसामान्याद् इति सूत्रस्य अपरः को ऽर्थ उक्तो भवति । 4774
55) शाखाचतुष्टयगतम् इत्यस्य साधुत्वं कथम् । 4774
56) देवानामपि इत्यत्र अपि शब्दार्थः कः । 4777
57) भगवतः सर्ववेद्गतिसामान्यज्ञानं कुत उक्तम् । 4777
58) भाष्योक्तः सूत्रार्थः कः । 4777
59) प्रथमाध्यायस्य चतुर्षु पादेषु उक्तः समन्वयः कः । 4780
60) उभयत्रप्रसिद्धशब्देभ्यो ऽन्यत्र प्रसिद्धशब्दानां प्राधान्यं कुतः । 4780
61) लिङ्गात्मकशब्देभ्यः नामात्मकशब्दानां प्राधान्यं कुतः । 4780
62) अन्यत्रैव प्रसिद्धशब्दानां पूर्वमेव समन्वयः कुतो नोक्तः । 4783
63) अन्यत्रैव प्रसिद्धशब्दसमन्वयज्ञाने सर्वेषाम् अधिकारो ऽस्ति न वा । 4783
64) आनन्दमयशब्दस्यैव समन्वयः पूर्वं कुत उक्तः । 4785
65) देवतावाचिपदानां समन्वयः कुतः पूर्वमुक्तः । 4785
66) सर्वे शब्दा देवानां वाचका उत न । 4785
67) अक्षादिशब्दवत् साम्येन उभयत्रवृत्तिः कुतो नास्ति । 4785
68) प्रथमपादस्य द्वितीयपादस्य च सङ्गतिः का उक्ता । 4787
69) कीदृशलिङ्गानां द्वितीयपादे विचारः कृतः । 4787
70) भगवतः शब्दानां मुख्यार्थत्वं कथमुक्तम् । 4790
71) अयो यथा दाहकत्वम् इत्येषः दृष्टान्तः कुत उक्तः । 4790
72) अवरादिशब्दवाच्यत्वे किं बाधकम् उक्तम् । 4791
73) अवरादिशब्दप्रवृत्तिनिमित्तं द्विविधं कथमुक्तम् । 4792
74) तत्र कीदृशं विष्णौ अस्ति तथा जीवेऽस्ति । 4792
75) द्वितीयाध्यायसङ्गतिविषयौ कौ । 4793
76) किं मया कार्यमिति बुद्धिः कदा भवति । 4794
77) तत्र भक्तिविधानाय भक्तानर्थसन्ततौ - इत्यस्य अभिप्रायः कः । 4795
78) उपासना कुतः नित्यं कार्या । 4795
79) भक्तेः ः उपासनायाम् उपयोगः कथम् । 4795
80) द्विविधा उपासना का । तत्र क्रमः कुतः । 4796
81) समाधिर् उक्ता वा न वा । 4796
82) धारणादीनाम् उपासनात्वम् अस्ति न वा । 4796
83) शास्त्राभ्यासः ध्यानाङ्गम् उत न । 4796
84) शास्त्राभ्यासस्य स्वतन्त्रोपासनत्वं कुतः, किं प्रमाणं च । 4796
85) परेषां पादार्थनिराकरणं कथम् । (त्रेधा विकल्पः कृतः) 4798
॥ इति प्रथमसूत्रमारभ्य तृतीयाध्यायद्वितीयपादपर्यन्तं सङ्गतिकथनम् ॥
सर्ववेदान्तप्रत्ययाधिकरणम्
**अ- 3, पा- 3 2. सर्ववेदान्तप्रत्ययाधिकरणम्
2. सर्ववेदान्तप्रत्ययाधिकरणम्
**1) उपासनायां स्वस्वशाखाध्ययनम् अङ्गम् उत सर्ववेदाध्ययनम् । 4803
2) विज्ञायोपासनं भवेत् - इत्यस्य अर्थः कः । 4803
3) गतिसामान्यसूत्रं सर्वाधिकारिसाधारणं कुतः । 4805
4) यथायोग्यज्ञानं कथं ज्ञायते । 4805
5) अल्पवेदज्ञस्य उपासनायोग्यता कुतो नोपपद्यते । 4807
6) सर्ववेदज्ञानाश्रयजन्मकल्पनं कुत उक्तम् । 4807
7) ध्यानोपासने वेदज्ञानस्य कथमुपयोगः । 4807
8) सर्ववेदज्ञानस्य आवश्यकता - तत्परिहारश्च कथमुक्तः । 4807
9) महत्वस्य परं पारम् - इति वाक्यं कुत उदाहृतम् । 4808
10) यथायोग्याखिलज्ञता इति कथम् । 4808
11) आत्मज्ञानानुरूपत- इत्यत्र आत्मज्ञानं नाम किम् । 4811
12) सर्वज्ञानं कुतो ऽङ्गीकार्यम् । 4812
13) स्वाध्यायपदस्यैव स्वस्वशाखा इत्यर्थो कुतो वक्तव्यः । 4812
14) शाखाभेदः किं निमित्तकः । 4812
15) अध्ययनस्य अर्थपर्यन्ततास्थितेः - अस्य विवरणं कुरुत । 4812 (याद)
16) ननु श्रुत्यनन्तरं हि शब्देन स्मृतिः सूत्रकृता उपात्ता । तत्कथम् अत्र विपर्ययः -
इत्यस्य किमुत्तरम् । 4816
17) श्रुतिस्मृतिबलादेव यथाशक्तिसर्वविज्ञानस्यैव निश्शङ्कताहेतुत्वं कल्प्यते ।
भूयोदर्शनं चानुमानाङ्गमिति अस्य विवरणं कुरुत । 4816
18) अध्ययनं कुतो ऽध्ययनविधिप्रयुक्तं न । 4819
19) विश्वजिदादौ इव नियोज्यकल्पना कुतः कर्तुं न शक्या । 4819
20) अध्यापनविधौ नियोज्यः कः । कथं ज्ञायते । 4819
21) आचार्यकरणकामस्य नियोज्यत्वं कथं ज्ञायते । 4820
22) सम्माननोत्सर्जने-ति सूत्रार्थः कः । 4820
23) अध्यापनविधिर् अध्ययनप्रयोजिका कथं भवति । 4820
24) अध्ययनविधेरेव प्रयोजकत्वे को दोष उक्तः । 4820
25) अध्यापनं कुत उक्तम् । कुत्र उक्तम् । 4820
26) अध्ययनस्य नित्यत्वं कुतः । 4820
27) अध्ययनस्य अध्यापनविधिप्रयुक्तत्वं कुतो न भवति । 4820
28) अध्यापनविधेरेव प्रयोजकत्वे कोऽतिप्रसङ्ग उक्तः । 4820
29) य येनोपनीत स तेनाध्यापनीय इत्युक्ते को दोषः । 4820
30) अन्योन्याश्रयत्वदोषपरिहारः कथम् । 4820
31) शौचाचारांश्च शिक्षयेद् इत्युदाहरणं कुत उक्तम् । 4820
32) अध्ययनादिविधिज्ञानं कथं भवति माणवकस्य ।
33) देवादीनां श्रवणादिकं कुत उक्तम् । 4827
34) समाचारेऽधिकाराच्च - इति कुत उक्तम् । 4828
35) श्रवणाद्यनुष्ठानं कियत्पर्यन्तं कर्तव्यम् । 4830
36) आवस्तुनिर्णयात् - इत्यस्य अर्थः कः । 4830
37 ) गुरुरुत्तम उत्तमशब्दार्थः कः । 4830
38) कीदृशं श्रवणादिकं ब्रह्मदर्शनसाधनम् । 4830
39) कदा पुनः संशयाद्युत्पादो न भवति । 4830
40) जातापरोक्षाणां श्रवणादिकं कुतः । 4830-31
41) एकस्यैव साधनस्य द्विविधप्रयोजनवत्वं कथम् । तत्र दृष्टान्तः कः । 4831
42) समाचारकथनं कुतः । 4831
43) योग्यताभिज्ञगुरूपदेशेन श्रवणादिकं कर्तव्यमित्युक्ते अन्योन्याश्रयः कथमुक्तः । 4831
44) द्विविधं शास्त्रं किम् । 4832
45) मुख्यगुरो अलाभे कथं श्रवणादि । 4832
46) निर्णीतशास्त्रज्ञानं कथं भवति । 4832
47) मुख्यगुरोर् लाभः कथम् । 4832
48) सर्वज्ञस्य गुरो अभावे अमुख्यश्रवणादिकं कुतोऽङ्गीकार्यम् ।
सर्वज्ञगुरुप्राप्तिः पुण्यप्रचयेन भविष्यतीत्यस्य किमुत्तरम् । 4833-34
49) श्रवणादिकं सर्वदा कर्तव्यं क्षणमपि न त्याज्यमित्यत्र श्रुतिस्मृतयः काः । 4834-35
50) गुणे त्वन्यायकल्पना इति न्यायः कुत उदाहृतः । अस्य अर्थः कः । 4834-35
51) न हि आकाशरोमंथनं शक्यविधानमिति कुत उक्तम् । 4834
52) सायंप्रातरग्निहोत्रादिविधयः कुत दृष्टान्ततया उक्ताः । 4834-35
53) निर्णयज्ञस्य गुरोरभावे श्रवणाद्यभावः प्राप्नोति वा । 4835
54) सर्वज्ञ गुरुः कुत्र अपेक्षितः । 4835
55) निर्णयज्ञात् किं श्रुणुयात् । 4836
56) उभयोरभावे किं कार्यम् । 4836
57) अदृष्टमात्रार्थश्रवणादिकं भवति वा । 4836
58 ) विष्णुभक्तेभ्य एव श्रवणादिकं कुतः । 4836
59) कीदृशं श्रवणादिकं फलजनकम् । 4836
60) एकदेशश्रवणादिकं कार्यम् उत न । तेन किं प्रयोजनम् । 4836
61) स्वतोऽधिकाभावे किं कार्यम् । 4837
62) अभिनवोत्प्रेक्षोदयात् - इत्यस्य अर्थः कः । 4837-38
63) सत् सिद्धान्तमहापयन् इत्यत्र सत् शब्दः कुतः । 4837
64) मृगभयाद् बीजानावाप्रसङ्गः कुत उक्तः । 4837
65) वाचनिकपरसिद्धान्तः कः । 4839
66) आनुषङ्गिकपरसिद्धान्तः कः । 4839
67) वाचनिकानुषङ्गिकशब्दयोर् अर्थः कः । 4841
68) प्रधानप्रमयोपयोगितयोक्तत्वाद् अदोषः - इत्यस्य अर्थः कः । 4839
69) स्वातन्त्र्यादे आनुषङ्गिकत्वं कुतः । 4842
70) जगतः भेदः विष्णोः कुत वक्तव्यः । 4842
71) मुक्तानाम् ईश्वराधीनत्वं कुतोऽङ्गीकार्यम् । 4842
72) मुक्तानामभेदः कुतो नास्ति इत्युक्तम् । 4843
73) संसारेऽप्यभेदाङ्गीकारे को दोष उक्तः । 4843
74) जीवेशयोर् भेदाभेदाङ्गीकारे को दोष उक्तः । 4845
75) परसिद्धान्तः कः । 4845
76) सत्सिद्धान्तहानौ को दोष उक्तः । 4848
77) सत्सिद्धान्तस्य प्रामाणिकत्वं कथमुक्तम् । 4849
78) अशेषाः श्रुतयः - इति कुत उक्तम् । 4849
79) अखिलं पञ्चरात्रम् - इति अत्र अखिलपदं कुतः । 4849
80) मूलरामायणमेव - इति कुत उक्तम् । 4849
81) वैष्णवादि - इति विशेषणं पुराणानां कुतः । 4849
82) परौ सांख्ययोगौ - इत्यत्र परौ इति किमर्थम् । 4849
83) मीमांसा कति विधा ग्राह्या । 4849
84) युक्तयः कीदृश्यः स्वीकार्याः । 4849
85) परित्यजेद् इति कुत उक्तम् । 4852
86) असच्छात्राधिगमनस्य पातकेषु कुत्र उक्तम् । 4852
87) ब्रह्मदर्शनसाधनं किम् । 4853
88) श्रवणमनने कुतः कर्तव्ये । 4853
89) निदिध्यासनं नाम किम् । 4853
90) श्रवणं कुत अङ्गीकार्यम् । 4853
91) मननं कुत अङ्गीकार्यम् । 4853
92) विवरणमते ब्रह्मापरोक्षसाधनं किम् । 4855
93) फलोपकार्याङ्गभूते - इत्यस्य अर्थः कः । 4855
94) ब्रह्मापरोक्षज्ञानम् अविद्यानिवर्तकम् उत न । 4855
95) मननादिकार्यं किम् । 4855
96) शब्दस्य साक्षात्कारकारणत्वे किं बाधकम् । 4855
97) दशमस्त्वमसीत्यस्य साक्षात्कारकारणत्वं कथम् । 4855
98) शब्दस्य सहकारित्वं कुतो नाङ्गीकार्यम् । 4855
99) विनिगमकं किमुक्तम् अत्र । 4855
100) धर्मादिविषयस्य शब्दस्य अपरोक्षसाधनत्वं कुतो नास्ति । 4855
101) वेदान्तवाक्यजन्यज्ञानस्य अपरोक्षत्वे अनुमाने के । 4856
102) शब्दो ऽपरोक्षज्ञानजनकः न - इत्यस्य अनुमानस्य को दोष उक्तः । 4856
103) शब्दस्य अपरोक्षज्ञानजनने श्रुतिः का उक्ता । 4856
104) प्रत्यक्षलक्षणस्य का गतिर् उक्ता । 4856
105) दशत्वसंख्या नापाततः रूपादिकमिव प्रत्यक्षेण उपलभ्यते इत्यस्य कोऽर्थः । 4859
106) रूपादिकमिव इति दृष्टान्तसमन्वयः कथम् । 4859
107) लब्धसहायेन प्रत्यक्षेण अपरोक्षं जायते - इत्यस्य कोऽर्थः । 4859
108) शब्दस्य अपरोक्षज्ञानसाधनत्वं स्वभाव इत्युक्ते को दोषः । 4859
109) शब्दस्य अपरोक्षसाधनत्वम् आगन्तुकम् । तत्र ब्रह्मात्मविषयत्वं निमित्तम्
इत्युक्ते को दोषः । 4859
110) अपरोक्षविषयत्वं निमित्तम् इत्युक्ते को दोषः । 4859
111) अत्र अन्योन्याश्रयत्वदोषः कथमुक्तः । 4859
112) अन्यविषयकापरोक्षतया स्वर्गादीनां शब्देन अस्माकम् अपरोक्षत्वं कदा उक्तम् । 4859
113) धूमदर्शनेन अग्नेः प्रत्यक्षत्वापादनं कथम् । 4859
114) अग्नौ शब्देन अपरोक्षोत्पत्तिः कदा उक्ता । 4859
115) अपरोक्षतया ज्ञायमाने अपरोक्षोत्पत्तिर् इत्यत्र द्वेधा विकल्पं कृत्वा निराकरणं कथम् । 4859
116) शब्दवैयर्थ्यं कदा उक्तम् । 4859
117) अपरोक्षविषयत्वानुमाननिराकरणं कथम् । 4863
118) अपरोक्षत्वम् इत्याद्यनुमानस्य आभाससमानयोगक्षेमत्वं कथम् । 4863
119) मोक्षाभावप्रसङ्गः कदा उक्तः । 4863
120) श्रुतेः श्रुत्या सत्प्रतिपक्षता कथमुक्ता । 4863
121) अपक्वमनोविषयता कस्याः श्रुतेर् उक्ता । 4863
122) शब्दस्य ब्रह्मज्ञानसाधनत्वं कीदृशश्रुतिविरुद्धम् । 4866
123) तद्धास्य विजज्ञौ इत्यादिश्रुतीनां का गतिर् उक्ता । 4866
124) ये तु शब्द एव इति मतान्तरम् उक्तम् । पूर्वस्य अस्य च को भेदः । 4868
125) शब्दः किमप्यकृत्वा अपरोक्षज्ञानं जनयतीत्युक्ते को दोषः । 4868
126) विरम्यव्यापारापत्तिः कदा उक्ता । 4868
127) मोक्षे तारतम्यं वक्तुं न शक्यते इति कुत उक्तम् । 4869
128) ज्ञानतारतम्यान् मोक्षतारतम्यं कथमुक्तम् । 4869
129) मोक्षः नाम कः । 4869
130) यथात्मशक्त्यैव - इत्यस्य चतुर्धा व्याख्यानं कृतम् । तत् किम् । 4870
॥ इति सर्ववेदान्तप्रत्ययाधिकरणम् ॥