०४ पादार्थोपसंहारः

तत्पूर्विकोपासनैवं कर्तव्या मुक्तये गुणैः

पादार्थोपसंहारः

तत्पूर्विकोपासनैवं कर्तव्या मुक्तये गुणैः

सुधा

पादार्थमुपसंहरति तदिति ।

अनुव्याख्यानम्

तत्पूर्विकोपासनैवं कर्तव्या मुक्तये गुणैः ॥ ३३३४ ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने

तृतीयाध्यायस्य तृतीयः पादः ॥ ३३ ॥

भक्तिपूर्वा । एवमिति योग्यतादेः परामर्शः । गुणैरुपेतस्य हरेः ॥ ३३३४ ॥

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ॥

कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽत्रोपासाविषयचरणः पर्यवसितः ॥ ३३ ॥

**परिमल **

गुणैरित्यस्यान्वयाप्रतीतेराह गुणैरुपेतस्य हरेरिति ॥ ३३३४ ॥

इति श्रीमन्न्यायसुधापरिमे राघवेन्द्रयतिकृते

तृतीयाध्यायस्य तृतीयः पादः ॥

श्रीनिवासतीर्थीया

गुणैरित्यनन्तरमध्याहार्यमाह उपेतस्य हरेरिति ॥ ३३३४ ॥

इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचिते

टीकाऽगृहीतसुधावाक्यार्थविवरणे तृतीयाध्यायस्य तृतीयः पादः ॥ ३३ ॥

॥ इति तृतीयाध्यायस्य तृतीयः पादः ॥