०६ चतुर्मुखस्य मुख्यगुरुत्वम्

उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये

चतुर्मुखस्य मुख्यगुरुत्वम्

उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये

सुधा

नन्वस्तु विद्यात्वं विद्याभिमानित्वात्सरस्वत्यादीनाम् । देवतात्वं च विद्याप्रतिपाद्यत्वाद्विष्णोः । ब्रह्मणो गुरुत्वं तु कुतः । विद्योपदेष्टृत्वं हि गुरुत्वम् । न च सर्वान्प्रति ब्रह्मणस्तदस्तीत्यत आह उपदेश इति ।

अनुव्याख्यानम्

उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये ॥ ३३२८ ॥

इह जन्मान्तरे वा हिरण्यगर्भोपदेशेन विना न कस्यापि मुक्तिरित्यतस्तस्य गुरुत्वमुपपन्नम् । तदितरेषामप्युत्तमानां विद्यासम्प्रदायप्रवर्तकत्वाद्गुरुत्वमप्रवर्तकानां त्वनुग्राहकत्वादिनेति

॥ ३३२८ ॥

वाक्यार्थचन्द्रिका

विष्णोरिति । विष्ण्वादीनामित्यर्थः । अत एव सरस्वत्यादीनामिति प्रागादिपदं प्रयुक्तमिति भावः ॥ हिरण्यगर्भोपदेशेन विनेति । ‘यो यो भावो देवतानां विमुक्तौ तत्तत्प्राप्तौ सद्गुणानीशितुश्च । ब्रह्मा दिशत्यथ तांस्ते विचिन्त्य तत्तद्भावं प्राप्नुवन्त्यात्मशक्त्ये’ति श्रुतेरिति भावः ॥ अत्र ब्रह्मणः सर्वोपदेष्टृत्वं सर्वान्प्रति साक्षाद्वा तदाज्ञप्तसर्वज्ञकल्पगुरुद्वारा वाऽभिमतं न तु साक्षादेव सर्वान्प्रतीति भ्रमितव्यम् । अन्यथा भाष्यटीकयोर्विरोधप्रसङ्गात् । तत्र ब्रह्मणो वा तदाज्ञप्तस्य सर्वज्ञकल्पस्यान्यस्य वा कस्यचिदुपदेष्टृत्वकथनादित्यवधेयम् । ननु चोपदेशत एव गुरुत्वे सर्वेषां स्वोत्तमानामुपदेष्टृत्वाभावाद्गुरुत्वाभावप्राप्त्या स्वोत्तमास्तु क्रमेणैवेत्युक्तविरोध इत्यत आह तदितरेषामिति । नन्वेवमस्तूपदेष्टॄणां सम्प्रदायप्रवर्तकानां च स्वोत्तमानां गुरुत्वम् । ये तु नोपदेष्टारो नापि सम्प्रदायप्रवर्तकाः स्वोत्तमास्तेषां तु न गुरुत्वं सम्भवतीति स्वोत्तमास्तु क्रमेणैवेत्युक्तविरोधस्तदवस्थ एवेत्यत आह अप्रवर्तकानां त्विति ॥ ३३२८ ॥

***परिमल ***

विद्यासम्प्रदायेति । शिष्येभ्यो व्याख्यानसम्प्रदायः ॥ अनुग्राहकत्वादिनेति । अनुग्राहकत्वं श्रवणादौ प्रेरणा । करणपाटवादिदानमादिपदार्थः ॥ ३३२८ ॥

यादुपत्यं

नन्वेवमुपदिशत एव गुरुत्वे स्वोत्तमास्तु क्रमेणैवेत्युक्तविरोधः । सर्वेषां स्वोत्तमानामुपदेष्टृत्वाभावादत आह तदितरेषामिति । अनुग्राहकत्वादिनेत्यत्रादिपदेन ‘श्रीमदानन्दतीर्थीयमतमाचन्द्रतारकम् । आ सेतोराहिमाद्रेश्च समीचीनं प्रवर्ततामि’त्यादि तत्कर्तृकं प्रार्थनं तत्त्वाभिमानिरुद्रादिकर्तृकं सन्मार्गप्रेरणमित्यादि ग्राह्यम् ॥ ३३२८ ॥

॥ इति पूर्वविकल्पाधिकरणम् ॥