ॐ प्रदानवदेव तदुक्तम् ॐ
॥ अथ प्रदानाधिकरणगुरुप्रसादाधिकरणौ ॥
गुरुप्रसादो ऽपरोक्षकारणम्
ॐ प्रदानवदेव तदुक्तम् ॐ
सुधा
ॐ प्रदानवदेव तदुक्तम् ॐ ॥ अत्र प्रकृष्टं दानं प्रदानम् । प्रशब्दो न स्फुटं व्याख्यातो भाष्ये । अतः सूत्रार्थमाह सम्यगिति ।
अनुव्याख्यानम्
ॐ प्रदानवदेव तदुक्तम् ॐ ॥
ॐ लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॐ ॥
सम्यग्गुरुप्रसादश्च मुख्यतो दृष्टिकारणम् ॥
न केवलं श्रवणादि किन्तु सम्यग्गुरुप्रसादश्च । सम्यक् प्रसादपूर्वकं गुरोर्यद्विद्यादानं तच्च भगवद्दृष्टेः कारणमित्यर्थः । ननु ‘प्रज्ञान्तरपृथक्त्ववदि’ति सूत्रं प्रदानवदेवेत्यतः पश्चात्तनं तत्कुतो व्युत्क्रमः । उच्यते । योग्यताचिन्तासङ्गतं तदिति प्रकरणशुद्धये पूर्वमेव व्याख्यातमिति न दोषः
॥ ३३२६ ॥
ॐ लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॐ ॥ अत्र गुरुप्र(साद)दानस्य बलवत्त्वमुक्तम् । तदयुक्तम् । श्रवणादितो हि बलवत्त्वम् । तच्च प्रदानशब्दार्थान्तर्गतमेव । न हि स्वस्मादेव स्वयं बलीय इति सम्भवतीत्यतो व्याचष्टे सम्यगिति । मुख्यतः श्रवणाद्यपेक्षयाऽतिशयेन । अयमभिसन्धिः । प्रदानशब्देन हि सम्यग्गुरुप्रसादपूर्वकं दानं प्रकृतम् । तत्र सम्यग्गुरुप्रसादमात्रं तदिति अत्र परामृश्यत इति ।
लिङ्गभूयस्त्वादित्युक्तम् । यास्वाख्यायिकासु लिङ्गानि दृश्यन्ते तत्र गुरुप्रसादेनैव ज्ञानप्राप्तिश्रवणात् श्रवणादिकं न करणीयमिति शङ्का स्यात्तां निवारयितुं तदपीत्युक्तम् ॥ तद्व्याख्याति श्रवणादि चेति ॥
अनुव्याख्यानम्
श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित्
॥ ३३२६ । २७ ॥
कुत इत्यत आह नान्यथेति । अन्वयव्यतिरेकाभ्यां श्रुत्या च प्रमाणानामेव प्रमेयाधिगतिसाधनत्वनिश्चयादिति भावः । आख्यायिकास्वपि श्रवणादीनामनुक्तिमात्रम् । न पुनरभावोक्तिरस्ति ॥ ३३२७ ॥
वाक्यार्थचन्द्रिका
ॐ प्रदानवदेव तदुक्तम् ॐ ॥ दाननिष्ठस्य सम्यक् प्रसादपूर्वकत्वरूपप्रकर्षस्य ‘यथा गुरुदत्तं तथैव भवती’ति भाष्येण सूचनात्कथमव्याख्यातत्वं तस्येत्यत उक्तं स्फुटमिति । ननु सम्यग्गुरुप्रसादश्चेत्यत्र सम्यग्गुरुप्रसादस्य दृष्टिकारणत्वमुच्यते न तु तत्पूर्वकदानस्येति कथमिदं प्रशब्दव्याख्यानमित्यतस्तस्य तात्पर्यमाह सम्यगित्यादि ॥ न दोष इति । व्याख्यानस्य सौत्रक्रमविपरीतक्रमानुपपत्तिरूप इत्यर्थः ॥ ३३२६ ॥
अत्र टीकायां गुरुप्रदानस्य बलवत्त्वमुक्तमित्येव मूलपाठः । गुरुप्रसादस्येति क्वाचित्कपाठेऽपि गुरुप्रसादपूर्वकप्रदानस्येत्येवार्थोऽवधेयः । सौत्रतच्छब्दस्य पूर्वसूत्रप्रकृतप्रदानपरत्वेन प्रसादमात्रपरत्वासम्भवादिति द्रष्टव्यम् ॥ तच्चेति । श्रवणादिकं चेत्यर्थः ॥ अत्र परामृश्यत इति । श्रवणादेः श्रवणाद्यपेक्षयाऽतिशयस्य बाधितत्वेन तच्छब्दस्य विशिष्टदानपरामर्शकत्वायोगाद्योग्यतया विणीभूतगुरुप्रसादमात्रपरामर्शकत्वमेवेति भावः ॥
उक्तमिति । सूत्र इति शेषः ॥ श्रुत्या चेति । ततस्तु तं पश्यते निष्कलं ध्यायमान इति श्रुत्या चेत्यर्थः ॥ प्रमाणानामेवेति । तत्त्वसाक्षात्कारलक्षणायाः प्रमेयावगतेः । निदिध्यासनसहकृतमनःकरणत्वेन निदिध्यासनं विनाऽनुपपत्तेर्निदिध्यासनस्य श्रवणादिना विनाऽसम्भवाच्छ्रवणादेर्दर्शनं प्रति कारणत्वमित्यर्थः । तर्ह्युक्तविधाख्यायिकाविरोधः । तत्र गुरुप्रसादेनैव ज्ञानप्राप्तिश्रवणादित्यत आह आख्यायिकास्वपीति । उक्त्यनुक्त्योश्च न विरोधित्वमिति भावः ॥ ३३२७ ॥
***परिमल ***
लिङ्गभूयस्त्वात्प्रदानशब्दार्थान्तर्गतमेवेति । प्रदानशब्देन श्रवणादर्लाभादिति भावः॥ यास्वाख्यायिकास्विति । छान्दोग्ये चतुर्थेऽध्याये सत्यकामो जाबालिरित्यादिरूपासु गौतमं प्रति सत्यकामस्य ज्ञानार्थं प्रार्थनादिरूपाणि गुरुप्रसादस्य बलवत्त्वे लिङ्गानि दृश्यन्त इत्यर्थः ॥ गुरुप्रसादेर्नैवेति । ‘अत्र ह न किञ्चन वीयाये’त्यनुज्ञानेन प्रसादावगतेरिति भावः ॥ इत्युक्तमिति । सूत्र इति योज्यम् ॥ श्रुत्या चेति । श्रोतव्य इत्यादिश्रुत्या चेत्यर्थः ॥ प्रमाणानामिति । गुरूपदेशानुमानप्रत्यक्षाख्यश्रवणमननरूपप्रमाणानामित्यर्थः ॥ ३३२७ ॥
यादुपत्यम्
ॐ प्रदानवदेव हि तदुक्तम् ॐ ॥ यथा गुरुदत्तं तथैव भवतीति भाष्येण गुरोर्दानप्रसादपूर्वकत्वरूपः प्रकर्षोऽर्थाल्लभ्यत एव । अन्यथा तथैव भवतीत्यस्यासम्भवादत आह स्फुटमिति ॥ ३३२६ ॥
ॐ लिङ्गभूयस्त्वत्तद्धि बलीयस्तदपि ॐ ॥ तच्च प्रदानशब्दार्थेति । प्रदानं नाम न धनादिदानमत्र विवक्षितं किन्त्वनधिगतवेदार्थं शिष्यं प्रति वेदार्थव्याख्यानमधिगततदर्थेन सह विचारश्च । एतदुभयं च श्रवणमननरूपमेवेति भावः ॥ तत्र गुरुप्रसादेनैवेति । ‘अत्र ह न किञ्चन वीयाये’त्यनुज्ञानादिना तत्र प्रसादोऽवगम्यत इति भावः ॥ ३३२७ ॥
श्रीनिवासतीर्थीया
ॐ प्रदानवदेव हि तदुक्तम् ॐ ॥ योग्यताचिन्तासङ्गतं तदिति । इयदामननादिति योग्यतायाश्चिन्तितत्वात् । प्रज्ञान्तरेत्यत्रापि योग्यताया एव चिन्त्यमानत्वात्प्रज्ञान्तरेति सूत्रं योग्यताचिन्तासङ्गतमित्यर्थः ॥ खेन तुल्य इति । आकाशाभिमानिना गणपतिना समान इत्यर्थः । गुरोर्यद्विद्यादानमिति । विद्योपदेशः श्रवणादीति यावदित्यर्थः ॥ ३३२६ ॥
ॐ लिङ्गभूयस्त्त्वात्तद्धि बलीयस्तदपि ॐ ॥ तदित्यत्रेति । तद्धि बलीय इति सूत्रे तच्छब्देन परामृश्यते न तु तत्पूर्वं दानापरपर्यायं श्रवणमपि येनोक्तदोषः स्यादित्यर्थः ॥ श्रुत्या चेति । श्रोतव्यो मन्तव्य इत्यादिश्रुत्या चेत्यर्थः ॥ ३३२७ ॥
वाक्यार्थरत्नमाला
प्रमाणानामेवेति । एवं सति श्रवणभङ्गः प्राप्त इत्यतः सङ्गतिकथनोक्तनिधिध्यासनाङ्गित्वानुसारेण योजयति । तत्वसाक्षात्कारेति ।
॥ इति प्रदानाधिकरणगुरुप्रसादाधिकरणौ ॥