ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॐ
॥ अय दर्शनभेदाधिकरणम् ॥
भगवत्साक्षात्कारस्यापि योग्यतानुसारित्वम्
ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॐ
सुधा
ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॐ ॥ एतद्व्याख्यातं भाष्ये उपासनाभेदवद्दर्शनभेद इति । तदस्पष्टम् । दर्शनभेदे मूलकारणस्यानुक्तत्वात् । ततो व्याख्याति दृष्टिरपीति ।
अनुव्याख्यानम्
ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॐ ॥
………. दृष्टिरपि योग्यानुसारतः ॥ ३३३२ ॥
नानाविधेति शेषः ॥ ३३३२ ॥
वाक्यार्थचन्द्रिका
उपासनाभेदस्य दर्शनेभदे कारणस्योक्तेः कथं तस्यानुक्तिरित्यत उक्तं मूलेति । योऽयमुपासनभेदः कारणमुक्तो नासौ मूलकारणं यच्च मूलकारणं स्वरूपयोग्यताख्यमुपासनभेदेऽपि नियामकं तदत्र नोक्तमित्यर्थः ॥ ३३३२ ॥
॥ इति दर्शनभेदाधिकरणम् ॥