०१ देवतातारतम्यनिरूपणम्

ॐ इयदामननात् ॐ

॥ अथ इयदामननाधिकरणम् ॥

देवतातारतम्यनिरूपणम्

ॐ इयदामननात् ॐ

सुधा

ॐ इयदामननात् ॐ ॥ येषां ज्ञानयोग्यानामिदं मुक्तिसंसारयोस्तारतम्यं समर्थितम् । ते छन्दोगानामुपनिषदि नामवागादिक्रमेण प्राणान्ता उक्ताः । तत्र किं प्राण एवाधिकारितारतम्यस्यावधिर् उताधिकोऽप्यस्तीति संशये सतीयदेव देवतातारतम्यमिति सिद्धान्तितम् । तत्र न ज्ञायते कास्ता नामाद्या देवता इति । कथं च पञ्चदशैव, अधिकानामपि भावादित्याशङ्कानिरासार्थं बृहत्संहितावचनमेव पठति उषा इति ।

अनुव्याख्यानम्

ॐ इयदामननात् ॐ ॥

उषास्स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः ॥

प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः ॥

उत्तरोत्तरतस्त्वेते गुणैस्सर्वैश्च मुक्तिगाः ॥

उषा अश्विनोर्भार्या । स्वाहाऽग्नेर्भार्या । पर्जन्यो मित्रश्चादित्यौ । प्रवहो मरुत् । अनिरुद्धः कामसुतः । एते मुक्तिगा संसारगाश्च सर्वैर्गुणैरुक्तक्रमेणोत्तरोत्तरत एव वर्तन्त इत्यर्थः ।

वाक्यार्थचन्द्रिका

ॐ इयदामननात् ॐ ॥ इयदेवेति । प्राणावसानमेवेत्यर्थः ।

परिमल

ॐ इयदामननात् ॐ ॥ छन्दोगानामुपनिषदीति । सप्तमेऽध्याये नामवाङ्मनःसङ्कल्पचित्तध्यानविज्ञानबलान्नाप्तेज आकाशस्मराशाप्राणाः पञ्चदशोक्ता इत्यर्थः ॥ इयदेवेति । प्रणावधित्वमेवेत्यर्थः ॥ अनिरुद्धभार्येति भ्रमं निराह अश्विनोर्भायेति । चशब्दः समुच्चय इत्याह संसारगाश्चेति ।

यादुपत्यम्

ॐ इयदामननात् ॐ ॥ इयदेवेति । प्राणावसानमेवेत्यर्थः ।

वाक्यार्थरत्नमाला

इयदामननात् ॥ प्राणावसानमेवेत्यर्थ इति पाठः । त्वोधिकः । मूले उत्तरोत्तरत एवेति । उत्तरशब्दोऽधिकार्थकः । पूर्वपूर्वापेक्षयाधिकमधिकं वर्तत इत्यर्थः ।