०४ वृत्तिकारमायावादिमतनिराकरणम्

न च संसारिदेवानां कालेयत्तापरे इमे

वृत्तिकारमायावादिमतनिराकरणम्

न च संसारिदेवानां कालेयत्तापरे इमे

सुधा

तत्राद्यं मतं निराकरोति न चेति ।

अनुव्याख्यानम्

न च संसारिदेवानां कालेयत्तापरे इमे ॥

सूत्रे ……… ……… ………

संसारावस्थानस्य कालेयत्ता कालमर्यादा प्रारब्धकर्मफलभोगावसानरूपा सा परा उद्देश्या प्रतिपाद्या ययोस्ते तथोक्ते । कुतो नेत्यत आह हीति ।

…… ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्रुवः ॥

अनारब्धस्य भोगेन त्वितरे इति चोदितः ॥

यस्मादनारब्धस्य ज्ञानेनैव क्षय आरब्धमात्रस्य भोगेनैव क्षयो ध्रुव इत्येषोऽथः ‘अनारब्धकार्ये एव तु पूर्वे तदवधेरि’ति सूत्रेण, ‘भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यते’ इति च सूत्रेणोदितः । तस्मान्नेति सम्बन्धः । एवमुदितत्वेऽपि कुतो नेत्याशङ्कां परिहरन्नपव्याख्याननिरासस्य प्रयोजनमाह पौनरुक्त्येनेति ।

पौनरुक्त्येन तेनैते उक्तार्थे इति निश्चयः ॥ ३३२० ॥

एतेन मायावादिनामपि (व्याख्यानं) मतं निरस्तम् । तात्पर्यभेदात्प्रपञ्च्यप्रपञ्चनभावाद्वा न पौनरुक्त्यमिति चेत् । स्यादेवम् । यद्यसङ्कीर्णं व्याख्यानान्तरं न स्यात् । तदिदमुक्तम् इति निश्चय इति ॥ ३३२० ॥

वाक्यार्थचन्द्रिका

एतेनेति । यावदधिकारमित्यस्यानारब्धकार्ये भोगेन त्वितरे क्षपयित्वेत्युत्तराधिकारणद्वयेन पौनरुक्त्यप्रसङ्गदोषेणेत्यर्थः ॥ तात्पर्यभेदादिति । यावदधिकारमित्यस्य विदुषामप्यपान्तरतमःप्रभृतीनां श्रुतिस्मृतीतिहासपुराणेषु देहपरिग्रहपरित्यागश्रवणान्न निर्गुणविद्याया अपवर्गसाधनतेति प्राप्ते हेतोरपि सति प्रतिबन्धे कार्यानुपजनो हेतुभावमपाकरोति । तथा सति वृन्तफलसंयोगप्रतिबद्धस्य गुरुत्वस्य पतनाजनकतया तदपगमदशाकारिणोऽप्यहेतुत्वप्रसङ्गात् । ततश्च विदुषामपि वसिष्ठादीनां विद्याकर्माराधनावर्जितेश्वरविहिताधिकारपदप्रतिबद्धा निर्गुणविद्या यद्यपि न तदैव मुक्तिं ददाति तथाऽपि तत्समाप्तौ प्रतिबन्धापगमे दास्यत्येवेत्यस्त्येवापवर्गहेतुत्वं तद्विद्याया इत्यत्र तात्पर्यम् । अनारब्धकार्ये एवेत्यस्य त्वद्वैतब्रह्मतत्त्वसाक्षात्कारस्यानाद्यविद्योपदर्शितप्रपञ्चमात्रविरोधितया तन्मध्यपतितसकलकर्मविरोधित्वादुभे उहैवैष एते तरतीत्यविशेषेणैव क्षयश्रवणाच्चाद्वैतज्ञानस्वभावालोगनयाशरब्धानारब्धकार्ययोरविशेषेणैव निवृत्त्या निर्बीजसंसारावस्थानाऽनुपपत्तेः । सद्यो मोक्षः स्यादिति प्राप्तेऽत्र भवतां हिरण्यगर्भादीनां तत्त्वसाक्षात्कारवतामपि श्रुतिस्मऽतिप्रतीतदेहधारणान्यथानुपपत्त्या तत्त्वसाक्षात्कारस्य प्रारब्धकर्मतत्कार्यभोगसम्पादकतयाऽविद्यालेशं प्रत्यनिवर्तकत्वसिद्ध्या भोगसमाप्त्या कर्मक्षयेन प्रतिबन्धकनिवृत्तौ सततमनुवर्तमानसाक्षात्कारेण तस्याप्यविद्यालेशस्य निवृत्तिसिद्ध्या लोके सोपाधिकस्य द्विचन्द्रभ्रमस्य चन्द्रैकत्वसाक्षात्कारेण किञ्चित्कालं सहानुवृत्तेरुपाधिनिवृत्तौ तन्निवृत्तेः प्रमाणसिद्धत्वादभ्युपगमवन्निरुपाधिकभ्रमस्यापि सान्तःकरणस्य तदुपादानविद्यलेशस्य च बहुकालं ब्रह्मसाक्षात्कारेण सहानुवृत्तेः प्रारब्धकर्मोपरमे तन्निवृत्तेरपि हिरण्यगर्भादिदेहधारणविषयश्रुत्यादिप्रमाणसिद्धतयाऽनारब्धकार्यस्यैव कर्मणो नाश आरब्धस्य तु भोगेनेत्यारब्धकर्ममूलकसंसारावस्थानसम्भवान्न सद्यो मोक्ष इत्यत्र तात्पर्यम् । भोगेन त्वितरे क्षपयित्वेत्यस्य तु येषां विद्यायोनिशरीरावसानं प्रारब्धं तेषां विद्याफलमस्तु नाम । येषां त्वनेकशरीरानुयायि तेषां तत्फलं न सम्भवति । जन्मान्तरस्य पूर्वसंस्कारप्रमोषकतया शरीरान्तरे विद्याविहीनैः क्रियमाणानां कर्मणां बन्धहेतुत्वेन ततो जन्मपरम्पराया एव प्राप्तेः । न च तेषां न जन्मान्तरं संस्कारप्रमोषकमिति वाच्यम् । दृष्टनियमसङ्कोचाभावात् । न च यावन्न विमोक्ष्य इति प्रारब्धकर्मविमोक्षावधिश्रवणं सङ्कोचकम् । धृत्वा शरीरमकृतं कृतात्मा इति श्रुत्यन्तरानुसारेण तस्य शरीरविशेषावधिपरतया येषां विद्यायोनिशरीरावसानं प्रारब्धं तद्विषयत्वोपपत्तेः । न च धृत्वा शरीरमित्यत्र शरीग्रहणं प्रारब्धकार्ययावच्छरीरपरम् । एकवचनश्रवणात् । अस्माच्छरीरात्समुत्थायेति श्रुत्यन्तरेऽस्मादिति विणेन विद्यायोनिशरीरस्यैव विवक्षितत्वाच्च । तस्मान्न सर्वेषां ब्रह्मविदां विद्याफलकमिति प्राप्ते न तावदाधिकारिकाणां जन्मान्तरे संस्कारप्रमोषः कल्पयितुं युक्तः । श्रुतिस्मृतीतिहासपुराणेषु तेषां तत्त्वज्ञत्वप्रतिपादनेनानारब्धकार्ये एवेत्यत्र तन्निरासात् । नाप्यस्मदादीनां मुक्त्यर्थं विद्यानुष्ठानप्रतिपादकबहुशास्त्रप्रामाण्यात्तस्य तावदेवेति विवक्षिताध्यवसाने मुक्त्यवश्यम्भावप्रतिपादकावधारणप्रामाण्याच्च । यावन्न विमोक्ष्य इत्यस्य कर्मावधिपरताया धृत्वा शरीरमित्यत्रत्यशरीरपदस्य प्रारब्धकार्ययावच्छरीरपरताया अस्मदिति विणस्यानुभवसिद्धहेयताप्रदर्शनार्थतया विदुषां जन्मान्तरस्य संस्कारे प्रमोषानापादकतायाश्च कल्पने न प्रारब्धभोगानन्तरं मुक्तेर्ज्ञानिमात्रनियतत्वात्सर्वेषां ब्रह्मविदां विद्याफलमित्यत्र तात्पर्यमिति तात्पर्यभेदान्न पौनरुक्त्यमित्यर्थः ॥ ३३२० ॥

***परिमल ***

अयं समस्त इति । सूत्राक्षरार्थः प्रागुक्तदिशैव परं तु ‘तस्य तावदेव चिरमि’ति प्रागुक्तश्रुतेरपि तत्रोक्त्या यावत्प्रारब्धमवस्थितिस् तदवसाने च मोक्ष इत्याद्यर्थस्य परभाष्ये प्रतीतेरिति भावः ॥ अधिकरणान्तरमिति । मूले तद्दूषणाप्रतीतेस्तदर्थो नानूदितः ॥ तात्पर्यभेदादिति । इह प्रारब्धवशादुत्पन्नज्ञानानामप्यवस्थित्युकित्तस् तत्र तु ज्ञानमहिम्नैव प्रारब्धस्याप्यस्तु नाश इत्याशङ्कानिरास इति तात्पर्यभेदादित्यर्थः ॥ ३३२० ॥

यादुपत्यम्

एतेनेति । पौनरुक्तयेनेत्यर्थः । तैरपि प्रथमसूत्र एव वक्ष्यमाणप्रमेयस्योक्तत्वादिति भावः । तात्पर्यभेदादिति । यावदधिकारमित्यस्य हि निर्गुणविद्यया नापवर्गः फलं भवितुमर्हति श्रुत्यादिषु विदुषामपि देहपरिग्रहपरित्यागयोः श्रवणादित्यपवर्गाक्षेपेण पूर्वपक्षे हेतोरपि सति प्रतिबन्धे कार्यानुपजनेन हेतुभावमपाकरोतीति हि लोके प्रसिद्धम् । एवमिहापि विद्याकर्माराधितेश्वरविहिताधिकारपदप्राप्तिप्रतिबद्धा विद्या यद्यपि न मुक्तिं दत्तवती तथापि तत्परिसमाप्तौ प्रतिबन्धविगमे दास्यतीत्यस्त्येव मुक्तिहेतुत्वं निर्गुणविद्यया इत्यत्र तात्पर्यं तदुपयुक्तमन्यत् । अनारब्धकार्ये इत्यादेश्चाद्वैतज्ञानस्वभावादारब्धानारब्धकार्ययोरविशेषेणैव निवृत्तिरिति प्राप्ते नारब्धमेव नश्यति न त्वारब्धमपि तन्नाशस्तु भोगेनैव । यदा लोकेऽपि विरोधिनोः कञ्चित्कालं सहानुवृत्तिरुपलब्धा तदा तद्वदेवागमबलाद्दीर्घकालमपि भवन्ती न शक्या निवारयितुम् । प्रमाणप्रसिद्धस्य नियोगपर्यनुयोगानुपपत्तेरित्यत्र तात्पर्यमिति तात्पर्यभेदादित्यर्थः ॥ ३३२० ॥

श्रीनिवासतीर्थीया

एतेन मायावादिनामपीति । प्रथमसूत्रस्यैवायमर्थ इति तेनोक्तत्वादित्यर्थः

॥ ३३२० ॥

वाक्यार्थरत्नमाला

प्रागुक्तभामतीरीत्या पूर्वपक्षं सङ्कोचेन कथयन् हेतोरपि सति प्रतिबन्ध इत्यादि भामत्युक्तं परिहारप्रकारतात्पर्यमाह ॥ यावदधिकारमित्यस्य विदुषामित्यादि । तदपगमदशात्तत्कारिण इति मूलकोशे पाठः । दशायां यत्तत्कारिण इत्यर्थः । यद्यप्यद्व्यैततत्वसाक्षात्कारोऽनादिविद्येत्यादिरूपां च भामतीमनुसृत्य पूर्वपक्षशरीरं दर्शयन्नेवमत्र भवतां हिरण्यगर्भादीनां तत्वेत्यादि यथा प्रतिबिम्बितद्विचन्द्रमस्यौपाधिकत्वाच्चन्द्रैकत्वसाक्षात्कारेणेत्यादि कल्पतर्वनुसारेण सिद्धान्ततात्पर्यमाह । अनारब्धकार्ये एवेत्यस्य त्वित्यादिना । सान्तःकरणस्येत्यनन्तरं तत्कर्त्तृत्वादेरिति शेषः । कल्पतरौ तथैव पाठसत्वात् । अगतार्थत्वममृतानन्दपदैरुक्तमिति प्रतिज्ञाय प्रारब्धकर्मफलभोगानन्तरं मोक्षेऽपीत्यादिना प्रतिपादनं कल्पतरौ कृतम् । तद्-व्याख्यानं येषां विद्यायोनिशरीरावसानं प्रारब्धं तेषां विद्या फलमस्तु नामेत्यादिना परिमले कृतं तदुभयानुसारेण भोगेन त्वितरे क्षपयित्वेत्येतदधिकरणतात्पर्यमाह । भोगेन त्वितरे क्षपयित्वेत्यस्य त्विति । अत्रायमर्थः । प्रारब्धं विद्यायोनिशरीरावसानमिति सम्बन्धः । यच्छरीरावच्छेदेन विद्योत्पद्येत तद्विद्यायोनिशरीरं तदवसानेऽन्ते यस्य तत्तथोक्तम् । अस्त्विति । तच्छरीरनिवृत्यन्तरं शरीरान्तराभावेन विद्यया तत्सम्भवादिति भावः । अनुयायीत्यनुत्तरं प्रारब्धमिति वर्त्तते । विद्यायोनिशरीरानन्तरमपि प्रारब्धं कर्मजशरीराणामनेकेषां यत्र सत्वमित्यर्थः । अस्तु जन्मान्तरम् । तथापि मोक्षे विद्यया किन्न स्यादित्यतः विद्याया निवृत्तेर्जन्मान्तरे तत्संस्कारात्कार्यमङ्गीकार्यम् । जन्मान्तरं च संस्कारनिवर्त्तकमिति ज्ञानोदयात्प्रागिवानन्तरमपि बन्धकान्येवायं कर्माणि कुर्यादित्याह । जन्मान्तरस्येति । जन्मान्तरं च संस्कारप्रमोषानापदकतयेति पाठः । यद्यपि तात्पर्यभेदस्येव प्रपञ्च्यप्रपञ्चकभावस्याप्युपपादनमावश्यकं तथापि स्पष्टत्वाच्छिष्यैरेवोह्यतामिति भावेन वा तात्पर्यभेदस्यैव विधान्तरं प्रपञ्चकभाव इत्याशयेन वा न पृथगुपपादनं कृतम् । दूषणं तु स्पष्टत्वान्न कृतं पृथक्प्रपञ्चभावो नास्तीति ।

॥ इति यावदधिकाराधिकरणम् ॥