न तावता विरोधोऽस्ति निर्दोषत्वात्समस्तशः
अवराणां पराभासत्वम्
न तावता विरोधोऽस्ति निर्दोषत्वात्समस्तशः
सुधा
एवं तर्हि मुक्तानां परस्परं द्वेषेर्ष्यादिप्रसङ्गेन मुक्तत्वविरोधः स्यादित्याशङ्कापरिहारार्थं सूत्रम् ‘अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तमि’ति । एतदप्यविशदम् । दोषाभावसाम्यादित्यत्र साम्यपदप्रयोजनादर्शनात् । उत्तमेभ्योऽन्येषां भावादित्यस्योत्पत्तेरिति प्रतीतेः । शिष्यवदिति चायुक्तम् । क्वचिच्छिष्यस्यापि गुरौ द्वेषादिदर्शनात् । अतो व्याख्याति नेति ।
अनुव्याख्यानम्
ॐ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौ
पसदवत्तदुक्तम् ॐ ॥
न तावता विरोधोऽस्ति निर्दोषत्वात्समस्तशः ॥
आभासत्वात्परेषां तदवराणां च सर्वशः ॥
तावता परस्परमसाम्येन द्वेषादिप्रसङ्गेन मुक्तत्वविरोधोऽस्ति । साम्यशब्दस्यार्थः समस्तश इति । उत्तमेभ्य इत्यस्य विवरणमाभासत्वादिति । तदवराणां सर्वेषां पराभासत्वाच्चेति योजना ॥ एतदेव विवृण्वन्दृष्टान्तं व्याख्याति यत इति ।
यतोऽवराणां सर्वेऽपि गुणा सर्वाः क्रिया अपि ॥
नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः ॥
अतः सच्छिष्यवत्तेषां नैवेर्ष्यादिः कथञ्चन ॥
गुरौ सच्छिष्यस्येवेत्यर्थः । एतच्चोत्तरत्र स्फुटीकरिष्यत्याचार्यः ।
वाक्यार्थचन्द्रिका
ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ॥ उत्तमेभ्य इत्यस्येति । उत्तमेभ्योऽन्येषां भावादित्यर्थः । ननु यदि मुक्ता न समास्तर्हि परस्परं द्वेषेर्ष्यादिमन्तःस्युरिति पराभिमततर्के निर्दोषत्वादित्यनेन किं समाधानमुक्तमित्यत आह एतच्चेति । ‘निश्शेषगतदोषाणां बहुभिर्जन्मभिः पुनः । स्यादापरोक्ष्यं हि हरेर्द्वेषेर्ष्यादिस्ततः कुत’ इत्यादिना ज्ञानपादे द्वेषर्ष्यादिमत्त्वेऽविद्याहङ्करादिदोषवत्त्वं प्रयोजकं नासमत्वं तथा लोके दर्शनात् । मुक्तेषु च नाविद्यादयो दोषाः सम्भावयितुमपि शक्याः । भगवत्साक्षात्कारेणैव समूलघातं हतत्वात् । अतो व्यापकाभावाद्व्याप्यनां द्वेषेर्ष्यादीनामप्यभाव इति सोपाधिकत्वमनेनोक्तमिति स्फुटीकरिष्यतीत्यर्थः । यद्वा तदवराणां सर्वेषां पराभासत्वं चोषा स्वाहा च पर्जन्य इत्यादिनाऽऽचार्य एव स्फुटीकरिष्यतीत्यर्थः ।
***परिमल ***
उत्तमेभ्योऽन्येषां भावादित्यस्येति । इति भाष्यस्येत्यर्थः ॥ इत्यस्येति । उत्तमेभ्योशऽन्येषां भावादित्युक्तवाक्यस्येत्यर्थः ॥ एतच्चोत्तरत्रेति । न तावता विरोधोऽस्तीत्यादिनोक्तप्रमेयं ‘निःगतदोषाणां बहुभिर्गन्मभिः पुनः । स्यादापरोक्ष्यमि’त्यादिनोत्तरपाह इति भावः ।
यादुपत्यम्
ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ॥ उत्तमेभ्य इत्यस्येति । उत्तमेभ्योऽन्येषां भावादित्यस्येत्यर्थः । ननु यदि मुक्ता न समास्तर्हि परस्परं द्वेषर्ष्यादिमन्तः स्युरिति पराभिप्रेततर्के निर्दोषत्वादित्यनेन किं समाधानमुक्तमित्यत आह एतच्चेति । निःगतदोषाणां बहुभिर्जन्मभिः पुनः । स्यादापरोक्ष्यं हि हरेर्द्वेर्ष्यादिस्तु ततः कुत’ इत्यत्र द्वेषेर्ष्यादिमत्त्वेऽविद्याऽहङ्कारादिदोषवत्त्वं प्रयोजकं नासमत्वं तथा लोके दर्शनात् । मुक्तेषु च नाविद्यादयो दोषाः सम्भावयितुमपि शक्याः । भगवत्साक्षात्कारेणैव समूलघातं हतत्वात् । अतो व्यापकाभावाद्व्याप्यानां द्वेषर्ष्यादीनामप्यभाव इति सोपाधिकत्वमनेनोक्तमिति स्फुटीकरिष्यतीत्यर्थः ।
वाक्यार्थरत्नमाला
आभासत्वादित्यस्योत्तमेभ्य इत्येतन्मात्रार्थत्वाभावादाह । उत्तमेभ्योऽन्येषां भावादित्यस्येत्यर्थ इति । अत्र तु तदवराणां पराभासत्वं कुत इत्यत आहेत्यवतारस्य सूचनान्न पूर्वव्याख्यानस्थावतारस्यात्रापि सङ्गत्ययोग इति शङ्कावकाश इति ज्ञेयम् ।