ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ
॥ अथ यावदधिकाराधिकरणम् ॥
तारतम्यसमर्थनम्
ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ
सुधा
ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ॥ एतद्यथा यथेत्यादिना भाष्ये व्याख्यातम् । तदविस्पष्टम् । अधिकारविस्य कारणत्वानभिधानात् । मुक्तावित्युक्त्या संसारे नैवमिति प्रतीतेः । आनन्दमात्रग्रहणाद्गुणानन्तरव्यावृत्तिप्राप्तेः । धर्मिणामनिर्देशाच्च । अतः स्पष्टं व्याचष्टे अधिकारेति ।
अनुव्याख्यानम्
ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ॥
अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ॥
विशेषो देवतादीनां ……. ……..
अधिकारो योग्यता । अत्र सामान्योक्त्या मुक्तौ संसारे चेति गम्यते । तर्हि मुक्ताविति कस्मादुक्तमित्यत आह मोक्षे चेति ।
…… ……. मोक्षे चैव वितः ॥
चस्त्वर्थः । वितस्तु मोक्ष एवेत्यन्वयः । संसारे विक्षेपवशाद्योग्यतानुसारित्वं किञ्चिद्विहन्यते । मोक्षे तदभावाद्योग्यतानुसार्येव नियमेन भक्त्यादिकं भवतीत्यतो मुक्तावित्युक्तमिति ।
***परिमल ***
यावदधिकारमवस्थितिः ॥ मुक्ताविति कस्मादुक्तमिति । भाष्य इत्यस्ति ॥
अक्षरधियां त्विति ॥ एतदप्यविशदमिति । भाष्य इति वर्तते ।