इति सर्वं प्रतिज्ञाय सवैस्तर्कैः सदागमैः
अधिकरणार्थस्योपसंहारः
इति सर्वं प्रतिज्ञाय सवैस्तर्कैः सदागमैः
सुधा
अधिकरणार्थमुपसंहरति इति सर्वमिति ।
अनुव्याख्यानम्
इति सर्वं प्रतिज्ञाय सवैस्तर्कैः सदागमैः ॥
उपासीत हरिं नित्यं गुणैरेव स्वयोग्यतः ॥
नास्त्येव मोक्षः सत्त्वे वा साधनान्तरसाध्य इत्येतदनुपपन्नम् । किन्नाम निष्कामभगवदर्थश्रुत्यादिविहितकर्मानुष्ठानेन शुद्धान्तःकरणस्य रागादिदोषक्षये जातभगवद्भक्तेः श्रवणमनननिदिध्यासनाभ्यासवतः परमभागवतस्य भगवत्साक्षात्कारे जाते प्रसन्नो भगवानप्रारब्धानि कर्माणि विनाश्य भागवतधर्मप्रवृत्तये ज्ञानिनं कमपि कालं व्यवस्थापयंस्तदर्थं प्रारब्धानि कर्माण्यवशेष्य तत्फलोपभोगे सति तान्यपि विनाश्य प्रकृतिबन्धान्मोचयतीति सर्वं प्रतिज्ञाय गुणैरेव न तु सोऽरोदीदित्यादिना प्रतीतैरप्यगुणैरिति समाने चेति सूत्रखण्डस्यार्थमनुवदति । युक्तमिति शेषः । स्वयोग्यत एव न तु योग्यतातिक्रमेणेति प्राप्तेश्चे(त्यादिसू)ति सूत्रार्थानुवादः । प्रयोजनं चोत्तरेण सङ्गतिसूचनमिति ।
वाक्यार्थचन्द्रिका
भागवतधर्मप्रवृत्तय इति । ज्ञानेनाप्रारब्धानामिव प्रारब्धानामपि निवृत्तौ साक्षात्कृतब्रह्मणां सद्यः शरीरादिपातापत्त्या ब्रह्मोपदेशकत्वासम्भवेन पौरुषेयब्रह्मोपदेशानां वातपुत्रीयत्वापातेन भागवतधर्मप्रवृत्तिर्न स्यादिति भावः ॥ प्रयोजनं चेति । अनुवादप्रयोजनं चेत्यर्थः ।
परिमल
सर्वशब्दार्थं व्यनक्ति नास्त्येवेत्यादिना इति सर्वमित्यन्तेन । एवकारस्य व्यावर्त्यं न त्वित्यादिनाह इतीति । इत्यनेनोपसंहारसूत्रस्य समाने चेति योशस्तस्यार्थमित्यर्थः ॥ इत्यादीति । प्राप्तेश्च समञ्जसम् इतरे त्वर्थसामान्यादित्यादिसूत्रार्थेत्यर्थः ॥ प्रयोजनं चेति । प्राप्तेश्चेत्यादिसूत्रार्थानुवाद प्रयोजनं चेत्यर्थः ।
यादुपत्यम्
प्रयोजनं चेति । अनुवादप्रयोजनं चोत्तराधिकरणेन सङ्गतिसूचनमित्यर्थः ।
श्रीनिवासतीर्थीया
भागवतधर्मप्रवृत्तय इति । अन्यथा वातपुत्रीया ब्रह्मोपदेशाः प्रसज्येरन्निति भावः ॥ प्रयोजनं चेति । सूत्रार्थानुवादस्येति शेषः ।
वाक्यार्थरत्नमाला
ज्ञानेनाप्रारब्धानामिवेत्यादि । यदि तत्वज्ञानानन्तरं सकलकर्मनाशेन शरीरपाताद्यङ्गीकारस्तर्हि साक्षात्कृतब्रह्मणोऽवस्थानाभावेन तदीयतत्वज्ञानपूर्वकशास्त्रप्रणयनाभावः शिष्याणामपि तत्वदर्श्युपदेशाभावेन तदुपदेशमूलशास्त्रप्रणयनमप्यनेन ब्रह्मोपदेशा वातपुत्रीया स्युरिति भागवतधर्मप्रवृत्तिर्न स्यादित्यतः प्रारब्धकर्माण्यवयति । तत्सद्भावे तु तत्वदर्शिनामुपदेशादिसम्भव इति फलितार्थः । अनारब्धकार्य इत्येतन्मूलेऽपि सकलकर्मक्षये तदैव मुक्तिः स्यान्न चैवम् । जीवन्मुक्तानामुपलम्भादित्युक्तम् । पुरुषार्थाधिकरणे सर्वात्मना त्वभोग इत्यनुव्याख्यानमूले तथा सति ब्रह्मविदां संसारावस्थानं न स्यान् निर्बीजत्वादित्युक्तम् । तस्य तावदेव चिरमिति श्रुत्या चैवमिति कर्माव (अत्र किञ्चित् त्रुटितमिति भाति) ।