न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते
चित्सुखोक्तजीवन्मुक्तयुपपत्तिनिराकरणम्
न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते
सुधा
अथ मतम् । संसारमूलकारणभूताऽविद्या यद्यप्येकैव । तथापि तस्याः सन्त्येव बहव आकाराः । तत्रैको बन्धस्य परमार्थसत्यत्वविभ्रमहेतुः । द्वितीयोऽर्थक्रियासमर्थवस्तुकल्पकः । तृतीयस्त्वपरोक्ष्यप्रतिभासविषयाकारकल्पकः । तत्राद्वैतस्य सत्यत्वाध्यवसायेन समस्तद्वैतसत्यत्वकल्पक आकारो निवर्तते । अर्थक्रियासमर्थप्रपञ्चोपादानं मायाकारस्तत्त्वसाक्षात्कारेण विलीयते । अपरोक्षप्रतिभासयोग्यार्थाभासजनकस्तु मायालेशो जीवन्मुक्तस्यानिवृत्तः समाध्यवस्थायां तिरोहितोऽन्यदा देहाभासजनकाभासहेतुतयाऽनुवर्तते । प्रारब्धकर्मफलोपभोगावसाने तु निवर्तत इति । तदयुक्तम् । अस्याः कल्पनाया निष्प्रमाणकत्वात् । इन्द्रो मायाभिः पुरुरूप ईयत इति श्रुतिरत्र प्रमाणमिति चेन्न । अत्र पारमेश्वरशक्तिप्रतिपादनात् । ज्ञानबाध्यानिर्वाच्यमायाकारप्रतिपादनाप्रतिभासनात् । ‘तस्याभिध्यानाद्योजनात्तत्त्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिरिति श्वेताश्वतरमन्त्रेऽपि भूयोभूयस्तस्मिन्मनसो योजनाद्यो जायते तत्त्वभावस्तत्त्वज्ञानं तस्मादुदितात्तस्य परमेश्वरस्याभिध्यानादनुग्रहात्कर्मक्षयान्ते विश्वबन्धकमायानिवृत्तिर्भवतीत्युच्यते न त्वनिर्वाच्यविद्याकाराणां क्रमेण निवृत्तिर्बाधलक्षणा ॥ किञ्च योऽपि मायाकारोऽनुवर्तत इत्युच्यते तत्त्वज्ञानं तस्य विरोधि न वा । आद्ये कथं न निवर्तते । द्वितीये ज्ञानेन न निवर्तेत । तथा च सत्यः स्यात् । कर्मक्षये सति निवर्तत इति वदता कर्मणां तत्कारणत्वमुक्तं स्यात् । अन्यथा तन्निवृत्तौ निवृत्तेरनुपपत्तेः ।
वाक्यार्थचन्द्रिका
लेशपक्षोक्तदूषणोपमर्देन चित्सुखमतमुत्थापयति अथ मतमिति ॥ आकारा इति । तथा चाकारस्यैव लेशशब्देन विवक्षितत्वान्नोक्तदोष इति भावः ॥ बहव इति । श्रुतौ मायाभिरिति बहुवचनश्रवणादिति भावः । अपरोक्षेति । अपरोक्षप्रतिभासविषयभूतो य आकारः पारमार्थिकत्वार्थक्रियासामर्थ्यरहिततया ज्ञातस्यापि शुक्तिरजतादिवद्य आकारस्तृतीय इत्यर्थः । एतेषामाकाराणां च क्रमेण निवर्तकज्ञानशरीराणि दर्शयति तत्रेत्यादिना । अन्यदा तु देहावभासजगदावभासहेतुतयेत्येव मूलपाठः । अन्यादृशस्तु कल्पितः । मूलकोशेष्वदर्शनात् । एतत्पाठाभिप्रायेणैव न्यायामृतेऽपि शरीराद्यवभासहेतुरित्यादिप्रयोग इति ध्येयम् । ननु यदि साक्षात्कारे जातेऽपि जीवन्मुक्तस्य समाध्यवस्थायां तिरोहितोऽन्यदा चेद्बुद्धो वर्तते कश्चिदाकारः केन तर्हि तस्य निवृत्तिरित्यत आह प्रारब्धेति ॥ इन्द्रो मायाभिरिति । मायां तु प्रकृतिमित्यादावेकत्वेन प्रतिपादितमायाया मायाभिरिति बहुत्वाभिधानस्याकारभेदमन्तरेणाघटनादिति भावः ॥ अत्र परमेश्वरेति । अयं वै हरय इति तच्छतिव्याख्यानरूपब्राह्मणवाक्यादिति भावः । ननु तस्याभिध्यानादिति श्वेताश्वतरश्रुतिरेवात्र प्रमाणम् । अत्र हि भूयो निवृत्तिरन्ते निवृत्तिर्विश्वमायानिवृत्तिरिति प्रतीयते । तत्र विश्वग्रहणेनानेकमायाकारप्रतीतिः । तेषां चाकाराणां क्रमेण निवृत्तिर्भूयो निवृत्तिरिति पौनःपुन्यापरपर्यायक्रियासमभिव्याहाराभिधायिना भूयश्शब्देनावगम्यते । अन्ते निवृत्तिरित्यनेन च विदेहकैवल्यावस्थायां विलीयमानः कश्चिदाकारः प्रतीयते विश्वमायानिवृत्तिरिति । पूर्वममायाऽनिवृत्तिरिति च प्रतीयते । तथा च विवक्षिताशेषार्थे इयमेव श्रुतिः प्रमाणमिति कथमत्र प्रमाणाभाव इत्यत आह तस्याभिध्यानादित्यादि । तथा च श्रुतेरन्यार्थत्वान्नोक्तार्थव्यवस्थापकत्वमिति भावः । श्रुत्यर्थे विवदन्तं प्रत्यनिष्टान्तरमाह किञ्चेति । अस्त्वेवमित्यत आह तथा चेति । प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वस्य ज्ञाननिवृत्त्यत्वव्याप्ततया तदभावे तस्यानुपपन्नत्वादिति भावः ॥ कारणत्वमुक्तं स्यादिति । मायाकारानुवृत्तिं प्रतीति शेषः । तदुपपादयति अन्यथेति । कर्मनिवृत्तावाकारनिवृत्तेराकारस्य कर्मकारणत्वं विनाऽनुपपत्तेरित्यर्थः । तथा च सत्यत्वापत्तिर्वक्ष्यमाणरीत्याऽन्योन्याश्रयो वेति भावः ।
परिमल
आकार इति । लेशा इत्यग्रे व्यवहाराल्लेशा इत्यर्थः ॥ देहाभासजनकाभासहेतुतयेति । आभासपदमसत्परम् असत्यदेहजनकं यदसत्यं तद्धेतुतयेत्यर्थः ॥ तथा च सत्यः स्यादिति । ज्ञाननिवर्त्यस्यैव मिथ्यात्वोपगमादिति भावः ॥ तत्कारणत्वमुक्तं स्यादिति । मायायाः कारणत्वमित्यर्थः । तच्चायुक्तम् अविद्यापगमे तदुपादानककर्मावस्थानानुपपत्तेरिति भावः ।
यादुपत्यम्
आकारा लेशाः ॥ देहाभासहेतुतयेति । अपरोक्षप्रतिभासयोग्योऽर्थाभासो देहाभासस्तद्धेतुतयेत्यर्थः । देहाभासजनकाभासहेतुतयेति क्वचित्पाठः । तत्र देहाभासोऽवास्तवदेहस्तज्जनकाभासोऽवास्तवो देहानुकूलः । ततश्चापरोक्षप्रतिभासयोग्यौ यौ अवास्तवदेहतदनुकूलरूपावर्थौ तद्देतुतयेत्यर्थो बोध्यः । ननु तस्याभिध्यानादित्यत्र ‘भूयश्चान्ते विश्वमायानिवृत्तिरि’त्याविद्याकाराणां क्रमेण निवृत्तिः श्रूयत इत्यत आह तस्याभिध्यानादिति ॥ तत्कारणत्वमिति । उक्ताविद्यालेशकारणत्वमित्यर्थः । तथा च तस्यानादित्वाङ्गीकारो भज्येतेति भावः ।
श्रीनिवासतीर्थीया
अध्यवसायेनेति । परेक्षनिश्चयेनेत्यर्थः ॥ देहाभासेति । देहावभासेत्यर्थः। मायाभिरिति । एकस्या अपि मायाशब्दोदिताया आकारबहुत्वाभिप्रायेणैव बहुवचनस्य प्रयुक्तत्वादन्यथा तदनुपपत्तेरिति भावः । ननु तस्याभिव्यानादिति श्रुतौ विन्वमाय निवृत्तिरिति समस्तमायानिवृत्तिरुच्यते । एकस्या अप्यविद्यायाः समस्तत्वमाकारबहुत्वाभिप्रायेणैवोक्तमिति चेत्तत्राह तस्याभिध्यानादिति ॥ विश्वबन्धकेति । तथा च विश्वशब्दस्य जगद्वाचकत्वेन समस्तार्थकत्वं नेति भावः । तत्कारणत्वमिति । अविद्यालेशावस्थानकारणत्वमुक्तं स्यादित्यर्थः ॥ अनुपपत्तेरिति । तथा चाविद्यालेशस्यानादित्वाङ्गीकारभङ्गापत्त्याऽपसिद्धान्तादिति भावः ।
वाक्यार्थरत्नमाला
चतुर्थपरिच्छेदीयतत्वप्रदिपिकानयनप्रसादिनीग्रन्थानुसारेण व्याचष्टे । अपरोक्षप्रतिभासेत्यादिना । शुक्तिरजतादिवद् य आकारस्तत्समर्पक आकारस्तृतीय इति सम्बन्धः । तत्वप्रदीपिकायां देहावभासजगदभासहेतुतया अनुवर्त्तत इति पाठात्प्रकृतेऽपि तथैवेत्याह । अन्यदा तु देहावभासेति । ननु न्यायामृते देहाद्यपरोक्षप्रतिभासहेतुरित्यादिप्रयोग इति । अयं च देहाद्यपरोक्षेति पाठस्यार्थानुवादः । क्वचित्तथैव पाठः पाठद्वयाभिप्रायेणैवेत्यादीत्यादिपदमित्यपि केचित् । तस्याभिध्यानाद्योजनात्तत्वभावादित्यादिनयनप्रसादिन्यनुसारेणाह । ननु तस्याभिध्यानादित्यादिना श्रुतिरेवात्र प्रमाणमित्यन्तेन ।