अन्यथोपासनमपि तमेवमिति वादिनी
मायावादनिराकरणम्
अन्यथोपासनमपि तमेवमिति वादिनी
सुधा
मायावादिनो वदन्ति । द्विविधो मोक्षः परापरभेदात् । तत्रापरो वैकुण्ठसत्यलोकादिप्राप्तिलक्षणः । परस्त्वविद्याऽस्तमये सत्यद्वैतब्रह्मावस्थानरूपः । प्रतीकादिविषयमन्यथोपासनमपरस्य साधनम् । परस्य त्वेकत्वज्ञानमिति । तत्रान्यथोपासनस्य वैकुण्ठादिप्राप्तिसाधनत्वं तावदपाकरोति अन्यथेति ।
अनुव्याख्यानम्
अन्यथोपासनमपि तमेवमिति वादिनी ॥
निवारयत्यादरेण ……. ……..
एवं यथास्थितेनैव प्रकारेण न त्वन्यथेति वदन्ती श्रुतिरन्यथोपासनमपि पुरुषार्थसाधनं निवारयति । न केवलं परमपुरुषज्ञानव्यतिरिक्तपक्षान् । तमित्यनेन यथार्थज्ञानं लब्धमेव । सप्रकारस्य प्रकृतस्य परामर्शोपपत्तावेकदेशविषयत्वकल्पनानुपपत्तेः । तथापि यदेवमिति वदति तदाऽऽदरसूचनार्थमिति । परममोक्षविषयेयं श्रुतिरस्तु । अपरस्तु पुरुषार्थोऽन्यथोपासनेन भविष्यतीत्यत आह नेति ।
…….. ……… न प्रतीक इति प्रभुः ॥
‘न प्रतीके न हि सः’ इति सूत्रकारोऽन्यथोपासनस्य सर्वथाप्यकर्तव्यत्वं वक्ष्यति । अतो न तत्पुरुषार्थलेशहेतुः ।
वाक्यार्थचन्द्रिका
प्रतीकादिविषयमिति । मनआदिप्रतीकविषयमित्यर्थः ॥ लब्धमेवेति । पूर्वप्रतिपादितमहामहिमविशिष्टभगवद्वाचकत्वात्तच्छब्दस्येत्यर्थः ॥ सप्रकारस्येति । सहस्त्रशीर्षत्वादिप्रकारोपेतस्य परामर्शोपपत्तौ विशेष्यमात्रविषयत्वायोगादित्यर्थः ॥ एकदेशविषयत्वेति । धर्मिमात्रविषयत्वेत्यर्थः । वक्ष्यति चतुर्थस्य प्रथम इति शेषः ।
परिमल
एवमित्यनुवादः, यथेति व्याख्या । अपिशब्दार्थो न केवलमिति ॥ सप्रकारस्येति । सहस्त्रशीर्षत्वादिप्रकारोपेतस्य तमिति परामर्शोपपत्तौ विशेष्यमात्रविषयत्वायोगादित्यर्थः ।
यादुपत्यम्
एकदेशविषयत्वेति । धर्मिमात्रविषयत्वेत्यर्थः ।
श्रीनिवासतीर्थीया
लब्धमेवेति । पूर्वप्रतिपादितमहामहिमविशिष्टभगवद्वाचकत्वात्तच्छब्दस्येत्यर्थः । ननु भगवतो महामहिमरूपप्रकारप्रतिपादनेऽपि न तद्विशिष्टस्य भगवतस्तच्छब्देन परमर्शोऽङ्गीक्रियते । किन्तु विशेष्यांशस्यैवेति चेत्तत्राह सप्रकारस्येति । प्रकारांशस्यापि सत्यतायाः प्राक् प्रतिपादितत्वेऽपि न तत्परित्यागानुपपत्तेरिति भावः ॥ पुरुषार्थलेशहेतुरिति । तथा चापरपुरुषार्थसाधनत्वमपि न सम्भवतीति भावः ।