यथैधांसि समिद्धोर्ग्निभस्मसात्कुरुतेऽर्जुन
गीतावाक्यैरप्युक्तार्थसमर्थनम्
यथैधांसि समिद्धोर्ग्निभस्मसात्कुरुतेऽर्जुन
सुधा
नन्वस्यां श्रुतौ ज्ञानिनः कर्मणां परितापः श्रूयते न तु ज्ञानेन विनाश इति विवक्षतोऽर्थ इत्यतो भगवद्वाक्यसमाख्यामाह यथेति ।
अनुव्याख्यानम्
यथैधांसि समिद्धोर्ग्निभस्मसात्कुरुतेऽर्जुन ॥
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥
यद्यप्यत्र ज्ञानस्य कारणत्वं स्फुटं प्रतीयते । तथाऽपि कर्मणां भस्मसात्करणं नाम मुख्यासम्भवात्किं कल्पनीयमिति न ज्ञायतेऽतो वाक्यान्तरं पठति सर्वेति ।
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ॥
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥
इत्यादिभगवद्वाक्यैरुक्तार्थश्चावसीयते ॥
धर्मानवैष्णवान्काम्यार्थांश्च । शरणप्राप्तिश्च ‘सर्वोत्तमत्वविज्ञानपूर्वमि’त्यादिनाऽन्यत्र भगवत्पादैरेव व्याख्याता । ततः प्रसन्नोऽहम् । मा शुचः । न शोचिष्यसि मुक्तो भविष्यसि । आदिपदेन ‘गतसङ्गस्य मुक्तस्ये’त्यादेः सङ्ग्रहः । भगवद्वाक्यैश्चेति सम्बन्धः । तद्यथेति श्रुतेरुक्तार्थः भगवद्वाक्यैरवसीयत इति वा ।
वाक्यार्थचन्द्रिका
मूले सर्वधर्मानित्येतद्वाक्योदाहरणवैयर्थ्यमाशङ्क्य परिहरति यद्यपीति ॥ मुख्यासम्भवादिति । ज्ञानस्य वन्ह्यादिवदुष्णास्पर्शवद्द्रव्यत्वाभावाद्वह्न्यादिभिर्व्रीह्यादीनामिव ज्ञानेन कर्मणां प्रसिद्धभस्मीकरणासम्भवादित्यर्थः । ननु ज्ञानेन कर्मणामीदृशं भस्मसात्करणमिति वक्तुमुदाहृते प्रमाणे शरणप्राप्तेरेव सर्वकर्मनाशकत्वमुच्यते न तु ज्ञानस्येति तत्कथमस्य प्रकृतोपयोग इत्यत आह शरणप्राप्तिश्चेति ॥ अन्यत्रेति । गीतातात्पर्य इत्यर्थः । ‘सर्वोत्तमत्वविज्ञानपूर्वं तत्र मनः सदा । सर्वाधिकप्रेमयुक्तं सर्वस्यात्र समर्पणम् । अखण्डा त्रिविधा पूजा तद्रत्यैव स्वभावतः । रक्षतीत्येव विश्वासस्तदीयोऽहमिति स्मृतिः । शरणागतिरेषा स्यद्विष्णोर्मोक्षफलप्रदे’त्यादिनेति शेषः । पूर्वाक्ताया भगवत्प्रसादस्य मोक्षसाधनताया अप्रतिपादनात्प्रकृतानुपयोगमाशङ्क्य तदुपयोगितया व्याचष्टे ततः प्रसन्नोऽहमिति ॥ न शोचिष्यसीति । माङ्योगे लुङः सर्वलकारापवादकत्वाद्भविष्यदर्थताकथनं नायुक्तमिति भावः ॥ गतसङ्गस्येति । ‘गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयत’ इति चतुर्थगीतायाम् । नन्विति श्रुतिपुराणादिवचनेभ्य इत्दवदित्यादिभगवद्वाक्यैरिति वक्तुं शक्यत्वात्तथाऽनुक्त्वा तद्यथेति श्रुतेश्चैव ततः कर्मक्षयो भवेदिति योगविभागाश्रयणमनर्थकमित्यरुचेराह तद्यथेतीति ।
परिमल
अन्यत्रेति । गीतातात्पर्येऽष्टादशेऽध्याये ‘सर्वोत्तमत्वविज्ञानपूर्वं तत्र मनः सदा । सर्वाधिकप्रेमयुक्तं सर्वस्यात्र समर्पणम् । अखण्डा त्रिविधा पूजा तद्भक्त्यैव स्वभावतः । रक्षतीत्येव विश्वासस्तदीयोहमिति स्मृतिः । शरणागतिरेषा स्याद्विष्णौ मोक्षफलप्रदेति विष्णुपुराणवाक्येन व्याख्यातेत्यर्थः । भविष्यदर्थे लुङयं माङ्योगबलादिति भावेनाह न शोचिष्यसीति ॥ गतसङ्गस्येति । ‘गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयत इति चतुर्थगीतायाम् । आदिपदेन ‘ब्रह्मण्याधाय कर्माणी’त्यादेर्ग्रहः । चशब्दान्वयमाह इति सम्बन्ध इति । नन्वस्यां श्रतावित्यादिना प्रागुक्तचोद्यनिरासकत्वेन योजयति तद्यथेतीति । उक्तार्थः । ‘प्रोतं प्रविष्टमि’त्यादिनोक्तार्थश्चेत्यर्थः । शैवादिनिरासः ॥
यादुपत्यं
सर्वोत्तमत्वविज्ञानपूर्वमित्यादिनेति । ‘सर्वोत्तमत्वविज्ञानपूर्वं तत्र मनः सदा । सर्वाधिकप्रेमयुक्तं सर्वस्यात्र समर्पणम् । अखण्डा त्रिविधा पूजा तद्रत्यैव स्वभावतः । रक्षतीत्येव विश्वासस्तदीयोऽहमिति स्मृतिः । शरणागतिरेषा स्याद्विष्णोर्मोक्षफलप्रदे’ति गीतातात्पर्ये व्याख्यातेत्यर्थः ॥ न शोचिष्यसीति । माङ्योगे लुङः सर्वलकारापवादकत्वेन भविष्यदर्थताकथनं नायुक्तमिति द्रष्टव्यम् ।
वाक्यार्थरत्नमाला
भविष्यदर्थताकथनमिति । भविष्यदर्थतया लुङ्कथनं नायुक्तमित्यर्थः । वस्तुतोऽत्र भविष्यदर्थे लृङ्प्रयोगेण भाव्यम् । योगे सर्वापवादेन लुङो माङिलुङीत्यनेन विधानात् । तद्योगे प्राप्तस्य लृङ्ङपवादलुङो भविष्यदर्थकताया एव सत्वादिति भावः ।