११ भागवतवचनबलादप्युक्तार्थसमर्थनम्

सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात्

भागवतवचनबलादप्युक्तार्थसमर्थनम्

सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात्

सुधा

इतोऽप्येतदेवमित्याह सोऽमृतस्येति ।

अनुव्याख्यानम्

सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ॥

इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च ॥

उतामृतस्येश इति विधत्ते मुक्तिगेशताम् ॥

इति भागवतवचनादिति शेषः । अनूद्य यदन्नेनातिरोहतीति वचनेन हेतुतयेति शेषः । विधत्ते श्रुतिः । अयमर्थः । उत्तरार्धे तावदमुक्ताधिपत्यं हेतुत्वेनोपादाय मुक्ताधिपत्यं प्रति जानीते श्रुतिरिति ज्ञायते । पुरुषसूक्तव्याख्यानप्रसङ्गे सोऽमृतस्येति भागवतवचनेनोत्तरार्धस्य तथैव व्याख्यातत्वात् । अत एव ‘अन्नेन दिव्यभोगेन यदतिरोहत्यधिरोहत्येधते तस्यामृतत्वस्य देवत्वस्येशान’ इति व्याख्यानमयुक्तम् । भावभवित्रोरेकत्वाभिप्रायेणामृतत्वस्येत्येतदमृतस्येति हि व्याख्यातम् । देवव्यावृत्त्यर्थमेव चाभयस्येत्युक्तम् । अन्नेनेति तृतीया च द्वितीयार्थेत्यभिहितम् । अन्नं च न प्रसिद्ध मिति मर्त्यमित्युदितम् । सोऽयमुत्तरार्धार्थः पूर्वार्धस्यास्मद्व्याख्यान एव युज्यते । पूर्वार्धेऽमुक्ताधिपत्यं विहितम् । उत्तरार्धे तत्पूर्वार्धोक्तममुक्ताधिपत्यं हेतुत्वेनानूद्य पुरुषस्य मुक्तिगेशतां विधत्ते श्रुतिरिति । परकीयव्याख्याने तु परस्परव्याघातेनानुपपन्न एवेति ।

वाक्यार्थचन्द्रिका

अत एवेति । उत्तरार्धव्याख्यानरूपोदाहृतभागवतवाक्यविरोधादेवेत्यर्थः । उतामृतत्वस्येत्युत्तरार्धस्य च व्याख्यानव्याख्येयभावमेव प्रकटयति भावेति । अस्त्वेवंरूपमेवोत्तरार्धः किमेतावतेत्यत आह सोऽयमिति । योगमेवोपदर्शयति पूर्वार्ध इत्यादिना । परकीयव्याख्याने तदयोगं दर्शयति परकीयेति । पूर्वार्धस्येति शेषः ॥ अनुपपन्न एवेति । उत्तरार्धार्थ इति वर्तते । तत्र हेतुः परस्परेति । अनुपपन्ने एवेत्यपि क्वचित्पाठः । तत्र परकीयव्याख्याने इति द्विवचनं पूर्वोत्तरार्धव्याख्याने अनुपपन्ने एवेति सम्बन्धः । तत्र हेतुः परस्परेति । अस्मिंश्च पाठे परस्परेति श्लिष्टं पूर्वपाठे पूर्वार्धार्थविरुद्धतामात्रेणोत्तरार्धार्थस्यानुपपन्नत्वसिद्धिसम्भवेन परस्परविरोधपर्यन्तधावनानर्थक्यात् ।

परिमल

अत एवेति । भागवतविरोधादेवेत्यर्थः ॥ अभयस्येत्युक्तमिति । ‘सोऽबिभेत्’ ‘भयादग्निरि’त्यादिना देवानामपि भयश्रवणादिति भावः ॥ परस्परेति । सर्वात्मकत्वस्वामित्वयोर्व्याघातेनानुपपन्न एव मन्त्रः स्यादित्यर्थः ।

यादुपत्यम्

अनुपपन्न एवेति । उत्तरार्ध इति वर्तते ।

श्रीनिवासतीर्थीया

अत एव भागवतवाक्यविरोधादेव ॥ देवत्वस्येति । देवसमूहस्येत्यर्थः । भावभवित्रोर्धर्मधर्मिणोः ॥ अभयस्येत्युक्तमिति । भीषाऽस्माद्वातः पवत इत्यादिना देवानां भयावगमादिति भावः । अनूद्य यदन्ननेत्यनूद्य । मुक्तगेशतां मुक्तगान्प्रतीशताम् ॥ परस्परव्याघातेनेति । पूर्वार्धे सर्वाभेदोक्त्या मुक्ताभेदस्यापि प्राप्नत्वात्पुनरुत्तरार्धे मुक्तनियामकत्वोक्तौ परस्परव्याघातप्रसङ्गेनोत्तरार्धोऽनुपपन्न एव स्यादित्यर्थः ॥